| YouTube Channel

प्रतिपाल्यं (pratipAlyaM)

 
शब्दकल्पद्रुमः
Sanskrit
प्रतिपाल्यं, त्रि, (प्रति + पा + णिच् + कर्म्मणियत् ।) प्रतिपालनीयम् प्रतिपालितव्यम् ।प्रतिपूर्व्वञ्यन्तपालरक्षण इत्यस्मात् कर्म्मणियप्रत्ययेन निष्पन्नम्
(यथा, महाभारते ।१३ ४५ ।“या पुत्त्रकस्य ऋद्धस्य प्रतिपाल्या तदा भवेत् ।अथचेन्नाहरेत् शुल्कं क्रीता शुक्लप्रदस्य सा
”)