प्रतिपत् (pratipat)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Monier Williams 1872
Englishअभिधानरत्नमाला
Sanskritप्रतिपत्
प्रतिपत्, प्रतिपत्ति
प्रतिपत्प्रतिपत्तावपि शादः शष्पे घृणा जुगुप्सायाम् ।
verse 5.1.1.800
page 0092
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritप्रतिपत्, [द्] (प्रतिपद्यते उपक्रम्यते-ऽनयेति । प्रति + पद् + करणे क्विप् ।) द्रगड-वाद्यम् । इति त्रिकाण्डशेषः ॥
बुद्धिः । तिथि-विशेषः । तत्पर्य्यायः । पक्षतिः २ । इत्यमरः ।१ । ४ । १ ॥
सा च चन्द्रस्य प्रथमकलाक्रियारूपा ।वृद्धिरूपा चेत् शुक्ला १ एकाङ्कबोधिता । ह्रास-रूपा चेत् कृष्णा १७ सप्तदशाङ्कबोधिता ॥
* ॥
तस्या व्यवस्था यथा । “सा च कृष्णा द्वितीया-युक्ता ग्राह्या प्रतिपत् सद्वितीया स्यादित्याप-स्तम्बीयात् । शुक्ला अमावास्यायुता ग्राह्या ।प्रतिपदाप्यमावास्येति वचनात् । त्रिसन्ध्यव्यापि-नीत्वे तु सर्व्वत्र न युग्मादरः । तथा च परा-शरः ।‘त्रिसन्ध्यव्यापिनी या तु सैव पूज्या सदा तिथिः ।न तत्र युग्मादरणमन्यत्र हरिवासरात् ॥
’ * ॥
कृष्णापि उपवासे द्वितीयायुता न ग्राह्या ।तथा च वृद्धवशिष्ठः ।‘द्वितीया पञ्चमी वेधाद्दशमी च त्रयोदशी ।चतुर्द्दशी चोपवासे हन्युः पूर्व्वोत्तरे तिथी ॥
’द्वितीया वेधात् योगात् प्रतिपत्तृतीये हन्तीत्यर्थः ।एवमन्यत्र । अत्रोपवासपरेण विशेषविधानात्आपस्तम्बीयसामान्यवचनस्य सङ्कोचः ॥
* ॥
कार्त्तिकशुक्लप्रतिपदमधिकृत्य बलिं प्रति भग-वद्वाक्यम् ।‘वीर ! प्रतिपदा नाम तव भावी महोत्सवः ।अत्र त्वां नरशाद्र्दूल ! हृष्टाः पुष्टाः स्वलङ्कृताः ।पुष्पदीपप्रदानेन पूजयिष्यन्ति मानवाः ॥
’तत्र मन्त्रः ।‘बलिराज ! नमस्तुभ्यं विराचनसुत प्रभो ।भविष्येन्द्र सुराराते पूजेयं प्रतिगृह्यताम् ॥
’प्रतिपदा प्रतिपत्तिथ्या । अत्र प्रतिपदि । ब्रह्मपुराणे तु बलिराजेतिमन्त्रस्य पूर्व्वम् ।‘मन्त्रेणानेन राजेन्द्र ! समन्त्री सपुरोहितः ।’इत्यर्द्धम् ॥
पश्चादपि ।‘एवं पूजां नृपः कृत्वा रात्रौ जागरणं ततः ।’इत्यक्तमिति ॥
पुनर्ब्रह्मपुराणे ।‘शङ्करश्च पुरा द्यूतं ससर्ज सुमनोहरम् ।कार्त्तिके शुक्लपक्षे च प्रथमेऽहनि भूपते ! ॥
जितश्च शङ्करस्तत्र जयं लेभे च पार्व्वती ।अतोऽर्थाच्छङ्करोदुःखी नित्यं गौरी सुखोषिता ॥
तस्मात् द्यूतं प्रकर्त्तव्यं प्रभाते तत्र मानवैः ।तस्मिन् द्यूते जयो यस्य तस्य संवत्सरः शुभः ॥
पराजयो विरुद्धश्च लब्धनाशकरो भवेत् ॥
’द्यूतञ्चाप्राणिभिः क्रीडनम् । यथा मनुः ।‘अप्राणिभियत् क्रियते तल्लोके द्यूतमुच्यते ॥
’ * ॥
तत्तिथिमधिकृत्य भविष्योत्तरे ।‘यो यो यादृशभावेन तिष्ठत्यस्यां युधिष्ठिर ! ।हर्षदैन्यादिना तेन तस्य वर्षं प्रयाति हि ॥
’तथा ।‘महापुण्या तिथिरियं बलिराज्यप्रवर्द्धिनी ।स्नानं दानं शतगुणं कार्त्तिकेऽस्यां तिथौ भवेत् ॥
’प्रतिपद्रोहिणीयोगो यथा । भविष्ये ।‘रोहिण्या प्रतिपद्युक्ता मार्गे मासि सितेतरा ।गङ्गायां यदि लभ्येत सूर्य्यग्रहशतैः समा ॥
’ * ॥
तस्याः संज्ञा नन्दा । तत्राभ्यङ्गनिषेधो यथा, --‘नन्दासु नाभ्यङ्गमुपाचरेच्चक्षौरञ्च रिक्तासु जयासु मांसम् ।पूर्णासु योषित् परिवर्ज्जनीयाभद्रासु सर्व्वाणि समाचरेच्च ॥
’ * ॥
नन्दादिक्रममाह ज्योतिषे ।‘नन्दा भद्रा जया रिक्ता पूर्णा प्रतिपदः क्रमात् ॥
’प्रतिपदादिपञ्चदशतिथिषु पञ्चदशद्रव्यभक्षण-निषेधमाह स्मृतिः ।‘कुष्माण्डे चार्थहानिः स्यात् बृहत्यां न स्मरे-द्धरिम् ।बहुशत्रुः पटोले स्याद्धनहानिश्च मूलके ॥
कलङ्की चायते विल्वे तिर्य्यग्योनिश्च निम्बके ।ताले शरीरनाशः स्यान्नारिकेले च मूर्खता ॥
तुम्बी गोमांसतुल्या स्यात् कलम्बी गोवधात्मिका ।शिम्बी पापकरी प्रोक्ता पूतिका ब्रह्मघातिका ॥
वार्त्ताकौ सुतहानिः स्याच्चिररोगी च माषके ।महापापकरं मांसं प्रतिपदादिषु वर्ज्जयेत् ॥
’ * ॥
तत्र क्षौरनिषेधो यथा । क्षौरं विशाखाप्रति-पत्सु वर्ज्यम् ।” इति तिथ्यादितत्त्वम् ॥
* ॥
तत्र जातफलम् ।“मणिकनकविभूषासंयुतश्चारुकान्ति-र्निजकुलकमलोद्धाटमार्त्तण्डविम्बः ।प्रतिपदि शशिपूर्णो लब्धजन्मा प्रतापीभवति विमलवेशश्चारुकेशः प्रजेशः ॥
”इति कोष्ठीप्रदीपः ॥
* ॥
सा अग्नेर्ज्जन्मतिथिः । यथा, --महातपा उवाच ।“विष्णोर्विभूतिमाहात्म्यं कथितं ते प्रसङ्गतः ।तिथीनां शृणु महात्म्यं कथ्यमानं मया नृप ! ॥
इत्थम्भूतो महानग्निर्ब्रह्मक्रोधोद्भवो महान् ।उवाच देवं ब्रह्माणं तिथिर्मे दीयतां प्रभो ! ।यस्यामहं समस्तस्य जगतः ख्यातिमाप्नुयाम् ॥
ब्रह्मोवाच ।देवानामथ यक्षाणां गन्धर्व्वाणाञ्च सत्तम् ! ।आदौ प्रतिपदा येन त्वमुत्पन्नोऽसि पावक ! ॥
त्वत्पदात् प्रातिपदिकं संभविष्यन्ति देवताः ।अतस्ते प्रतिपन्नाम तिथिरेषा भविष्यति ॥
तस्यां तिथौ हविष्येण प्राजापत्येन मूर्त्तिना ।होष्यन्ति तेषां प्रीताः स्युः पितरः सर्व्वदेवताः ॥
चतुर्विधानि भूतानि मनुष्याः पशवोऽसुराः ।देवाः सर्व्वे सगन्धर्व्वाः प्रीताः स्युस्तर्पिते त्वयि ॥
यश्चोपवासं कुर्व्वीत त्वद्भक्तः प्रतिपद्दिने ।क्षाराशनो वा वर्त्तेत शृणु तस्य फलं महत् ॥
चतुर्युगानि षट्त्रिंशत्त्वल्लोकेशो महीयते ।तेजस्वी रूपसम्पन्नो द्रव्यवान् जायते नरः ॥
इह जन्मन्यसौ राजा स्वर्गलोके महीयते ।तूष्णीम्बभूव सोऽप्यग्निर्ब्रह्मदत्ताश्रयं ययौ ॥
य इदं शृणुयान्नित्यं प्रातरुत्थाय मानवः ।अग्नेर्जन्म स पापेभ्यो मुच्यते नात्र संशयः ॥
”इति वराहपुराणे महातपोपाख्याने अग्न्युत्-पत्तिनामाध्यायः ॥
* ॥
प्रतिपदि चन्द्रदर्शन-कारणम् । यथा, ज्योतिषे ।“अमावस्याघटीशोध्या षष्ट्याहर्मानसंयुता ।सूर्य्यराहुघटीभ्यश्चेदधिका दृश्यते शशी ॥
”
कृदन्तरूपमाला
Sanskrit1 {@“पतॢ गतौ”@} 2 ज्वलादिः।
‘-- गत्यर्थे पतयेत् पतेत्।।’ 3 इति देवः।
पातकः-तिका, पातकः-तिका, 4 पिपतिषकः-षिका-पित्सकः-सिका, 5 पनीपतकः-तिका
पतिता-त्री, पातयिता-त्री, पिपतिषिता-पित्सिता-त्री, पनीपतिता-त्री
6 प्रणिपतन्-न्ती, पातयन्-न्ती, 7 पिपतिषन्-पित्सन्-न्ती
-- उत्पतिष्यन्-न्ती-ती, पातयिष्यन्, पिपतिषिष्यन्-पित्सिष्यन्-न्ती-ती
-- 8 पतमानः, पातयमानः, 9 पिपतिषमाणः-प्रपित्समानः, पनीपत्यमानः
पतिष्यमाणः, पातयिष्यमाणः, पिपतिषिष्यमाणः-पित्सिष्यमाणः, पनीपतिष्यमाणः
प्रतिपत्-सुपत्-सुपतौ-सुपतः
-- -- -- 10 11 पत्तम्-पत्तः-पत्तवान्-पतितम्-तः-तवान्, पातितः, पिपतिषितः-पित्सितः, पनीपतितः-तवान्
12 पतः- 13 पातः- 14 पतापतः, 15 आपात्यः, 16 17 उत्पतिष्णुः, 18 19 पतयालुः, 20 प्रपातुकः, 21 22 पतनः, 23 24 निपेतिवान्, 25 26 27 दूरपाती 28 -पक्षपाती, 29 पापतिः, पातः-पिपतिषुः- 30 प्रपित्सुः, पनीपतः
पतितव्यम्, पातयितव्यम्, पिपतिषितव्यम्-पित्सितव्यम्, पनीपतितव्यम्
पतनीयम्, पातनीयम्, पिपतिषणीयम्-पित्सनीयम्, पनीपतनीयम्
पात्यम्, 31 अपत्यम्, पात्यम्, पिपतिष्यम्-पित्स्यम्, पनीपत्यम्
ईषत्पतः-दुष्पतः-सुपतः
-- -- -- पत्यमानः, पात्यमानः, पिपतिष्यमाणः-पित्स्यमानः, पनीपत्यमानः
32 पातः-सन्निपातः-उत्पातः, प्रणिपातः, 33 प्रपातः, 34 पत्त्रम्, पातः, पिपतिषः-पित्सः-पनीपतः
पतितुम्, पातयितुम्, पिपतिषितुम्-पित्सितुम्, पनीपतितुम्
पत्तिः, 35 प्रतिपत्, 36 निपत्या, 37 पत्तिः, पातना, पिपतिषा-पित्सा, पनीपता
38 पतनम्, प्रपातनम्, पिपतिषणम्-पित्सनम्, पनीपतनम्
पतित्वा, पातयित्वा, पिपतिषित्वा-पित्सित्वा, पनीपतित्वा
प्रणिपत्य, प्रपात्य, प्रपिपतिष्य-प्रपित्स्य, प्रपनीपत्य
39 लतानुपातम् 40 , गेहानुपातम् गेहानुप्रपातमास्ते।
गेहं गेहं अनुप्रपातम्, गेहानुप्रपातम्-गेहानुप्रपातमास्ते।
पातम् २, पतित्वा २, पातम् २, पातयित्वा २, पिपतिषम् २ -पित्सम् २, पिपतिषित्वा २ -पित्सित्वा २, पनीपतम् २
पनीपतित्वा २। 41 आकप्रत्ययो भवति।
पताका = ध्वजपटः।]] पताका, 42 इत्यङ्गच् प्रत्ययः पक्षिण्यभिधेये।
पतत्यत्यर्थ- मिति पतङ्गः = पक्षी, आदित्यश्च।]] पतङ्गः, 43 इति तनन्प्रत्ययः।
पतन्त्यस्मिन् इति पत्तनम्।]] पत्तनम्, 44 इत्यत्रन्प्रत्ययः।
पतत्रम् = वाहनम्।]] पतत्रम्, 45 इत्यालन् प्रत्ययः।]] पातालम्।
01 (९६८)
02 (१-भ्वादिः-८४५। सक। सेट्। पर।)
03 (श्लो। ९५)
04 [[२। ‘तनिपतिदरिद्रातिभ्यः सनो वा इडू वाच्यः’ (वा। ७-२-४९) इति इड्विकल्पः। इट्पक्षे रूपमेवम्। इडभावपक्षे तु ‘सनि मीमाघुरभलभशकपतपदामच इस्, (७-४-५४) इतीसि, ‘अत्र लोपोऽभ्यासस्य’ (७-४-५८) इत्यभ्यासलोपे, ‘इको झल्’ (१-२-९) इति सनः कित्त्वे, ‘स्कोः--’ (८-२-२९) इति सकारस्य लोपे च रूपम्। एवं सन्नन्ते सर्वत्र रूपद्वयं बोध्यम्।]]
05 [[३। यङन्ते, ‘नीग् वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्’ (७-४-८४) इत्यभ्यासस्य नीगागमः। अयमभ्यासदीर्घापवादः। एवं यङन्ते सर्वत्र ज्ञेयम्।]]
06 [[४। ‘नेर्गदनदपत--’ (८-४-१७) इत्यादिना नेर्णत्वम्।]]
07 [[५। ‘आशङ्कायामुपसंख्यानम्’ (वा। ३-१-७) इति सनि रूपमेवम्। इच्छासन्नन्तादपि, एवमेव।]]
08 [[६। ‘ताच्छील्यवयोवचनशक्तिषु चानश्’ (३-२-१२९) इति ताच्छील्ये, शक्तौ बा चानश् प्रत्ययः, न तु शानच्।]]
09 [[७। ‘पूर्ववत् सनः’ (१-३-६२) इति ताच्छील्यार्थे चानश्।’]]
10 [पृष्ठम्०८४१+ ३१]
11 [[१। सनि धातोरस्य विकल्पितेट्कत्वात् निष्ठायाम्, ‘यस्य विभाषा’ (७-२-१५) इति इण्निषेधे प्राप्ते, ‘द्वितीया श्रितातीतपतितगत्यात्यस्तप्राप्तापन्नैः’ (२-१-२४) इत्यत्र पतित इति निपातनात् इड् भवतीति सिद्धान्तः। ‘बाधकान्येव निपातनानि’ (परिभाषा १२०) इति न्यायाश्रयणेन पतित इत्येव निष्ठायां साधुः। ‘अबाध- कान्यपि निपातनानि’ (परिभाषा १२१) इति न्यायाश्रयणे तु पत्तम्-पत्तः इत्यादीन्यपि रूपाण्यत्र साधून्येवेति प्रतिभाति। तत्र विद्वांसः प्रमाणम्। वस्तुतस्तु सूत्रकाररीत्या धातोरस्य कुत्रापि इड्विकल्पाभावात् निष्ठायामत्र ‘यस्य विभाषा’ (७-२-१५) इति सूत्रं न प्रवर्तते। ततश्च पतितः इत्यस्य साधुत्वे न निर्देशादिरूपप्रमाणान्तराणि मृग्यानि।]]
12 [[२। णप्रत्ययाभावपक्षे पचाद्यचि रूपमेवम्।]]
13 [[३। ‘ज्वलितिकसन्तेभ्यो णः’ (३-१-१४०) इति कर्तरि वा णप्रत्ययः।]]
14 [[४। ‘चरिचलिपतिवदीनाम् द्वित्वम् अचि
\n\n आक् चाभ्यासस्य’ (वा। ६-१-१२) इति द्वित्वम्। अभ्यासे हलादिशेषाभावः। यङन्तत्वाभावात् आगागमविधानाच्च नीगभावश्च।]]
15 [[५। ‘भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्था वा’ (३-४-६८) इति कर्तरि ण्यत्प्रत्ययान्तो निपातितः।]]
16 [[आ। ‘अग्रे गतेन वसतिं परिगृह्य रम्यां आपात्यसैनिकनिराकरणाकुलेन।’ शि। पा। ५। १५।]]
17 [[६। ‘अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मद--’ (३-२-१३६) इति तच्छीलादिषु कर्तृषु इष्णुच्प्रत्ययः।]]
18 [[B। ‘उत्पतिष्णू सहिष्णू च चेरतुः खरदूषणौ।।’ भ। का। ५। १।]]
19 [[७। ‘स्पृहिगृहिपतिदयि--’ (३-२-१५८) इति ण्यन्तात् आलुच् प्रत्ययः। ताच्छीलि- कोऽयं प्रत्ययः। णिचि उपधाह्रस्वो निपातनात्। ‘अयामन्ताल्वाय्येत्न्विष्णुषु’ (६-४-५५) इति णेरयादेशः।]]
20 [[८। ताच्छीलिकः ‘लषपतपद--’ (३-२-१५४) इत्यादिना उकञ् प्रत्ययः।]]
21 [[C। ‘भेजेऽभितः पातुकसिद्धसिन्धोरभूतपूर्वां रुचमम्बुराशेः।।’ शि। पा। ३। ३।]]
22 [[९। ‘जुचङ्क्रम्यदंद्रम्यसृगृधिज्वलशुचलषपतपदः’ (३-२-१५०) इत्यनेन ताच्छीलिके युच्प्रत्यये, अनादेशे च रूपम्।]]
23 [[ड्। ‘निरुद्धे सलिले राज्ञा पतनं कूलमाश्रितान्।।’ रावणार्जुनीये ११-३१।]]
24 [[१०। कर्तरि लिटः क्वसौ द्वित्वे, ‘अत एकहल्मध्ये--’ (६-४-१२०) इति एत्वाभ्या- सलोपयोः, ‘वस्वेकाजाद्घसाम्’ (७-२-६७) इतीडागमे च रूपम्।]]
25 [[E। ‘बाणभिन्नहृदया निपेतुषी सा स्वकाननभुवं न केवलाम्।’ रघु। ११-१९।]]
26 [पृष्ठम्०८४२+ ३०]
27 [[१। ‘सुप्यजातौ--’ (३-२-७८) इति ताच्छील्ये णिनिप्रत्ययः।]]
28 [[आ। ‘अप्रग्राहैरिवादित्यो वाजिभिर्दूरपातिभिः।।’ भ। का। ७। ५२।]]
29 [[२। ‘सासहिवावहिचाचलिपापतीनामुपसंख्यानम्’ (वा। ३-२-१७१) इत्यनेन कर्तरि किः किन् वा प्रत्ययः। यङन्तात् निपातनमिदम्। निपातनादेव नीगागमोऽ- भ्यासस्य नेति भाष्यमतम्। वार्तिकमते तु स्वतन्त्रमिदं निपातनम्, न तु यङन्तस्येति भाति। यथोत्तरं मुनीनां प्रामाण्यात् भाष्यमतेनैव निष्पत्तिर्ज्ञेया।]]
30 [[B। ‘पयसि प्रपित्सुरपराम्बुनिधेरधिरोढुमस्तगिरिमभ्यपतत्।।’ शि। व। ९। १।]]
31 [[३। न पतन्त्यनेनेति अपत्यम्। हलन्तात् करणे यत्। ‘कृत्यल्युटो बहुलम्’ (३-३-११३) इत्यनेनात्र यतः साधुत्वं ज्ञेयम्। शब्दकौस्तुभे तु ‘अथ वा बहुलं कृत्याः संज्ञायामिति तत् स्मृतम्। यथाऽपत्यं यथा जन्यं यथा भित्तिस्तथैव सा।।’ (श्लोकवार्तिकम् ३-१-११२) इत्यत्र अपत्यम् इत्युपादानात् साधुत्वमुक्तम्। मुद्रित भाष्यकोशेषु तु ‘यथा यत्यं--’ इत्येव पाठो दृश्यते। तेन बाहुलकादे- वेति समाधानं युक्तम्।]]
32 [[४। ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञ्। पातः = राहुः।]]
33 [[५। प्रपततीति प्रपातः = जलस्याधोदेशगमनम्।]]
34 [[६। ‘दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे’ (३-२-१८२) इति करणे ष्ट्रन्प्रत्ययः। पत्रम् = वाहनम्।]]
35 [[७। स्त्रियां भावादौ, ‘सम्पदादिभ्यः--’ (वा। ३-३-९४) इति क्विप्। प्रतिपत् = ज्ञानम्। ‘क्तिन्नपीष्यते’ (वा। ३-३-९४) इति वचनात् प्रतिपत्तिः = इत्यपि साधुः।]]
36 [[८। ‘संज्ञायां समजनिषदनिपत--’ (३-३-९९) इत्यादिना क्यपू संज्ञायाम्। निपत्या = पिच्छिला भूमिः।]]
37 [[९। ‘क्तिच्क्तौ च संज्ञायाम्’ (३-३-१७४) इति संज्ञायां क्तिच्। पत्तिः = पदातिः। पुंलिङ्गशब्दोऽयम्।]]
38 [पृष्ठम्०८४३+ २४]
39 [[१। ‘विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः’ (३-४-५६) इति द्वितीयान्ते णमुल्। पदार्थानां सम्बन्धो व्याप्तिः। आसेवा = तात्पर्यम्। एतयोरेवात्र णमुल्। उपपदसमासस्य विकल्पत्वात् रूपाण्येवं भवन्ति।]]
40 [[आ। ‘लतानुपातं कुसुमान्यगृह्णात् स नद्यवस्कन्दमुपास्पृशच्च।’ भ। का। २। ११।]]
41 [[२। बलाकादित्वात् [द। उ। ३-३२]
42 [[३। ‘पतेरङ्गच् पक्षिणि’ [द। उ। ३-५९]
43 [[४। ‘वीपतिभ्यां तनन्’ [द। उ। ६-५६]
44 [[५। ‘अमिनक्षियजिवधिपतिभ्योऽत्रन्’ [द। उ। ८-५६]
45 [[६। ‘पतिचण्डिभ्यामालन्’ [द। उ। ८-११६]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
