प्रतिनिधिः (pratinidhiH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishप्रतिनिधिः [pratinidhiḥ], 1 A representative, substitute
सो$भवत् प्रतिनिधिर्न कर्मणा 11.13
1.81
4.54
5, 63
9.4. अल्लीशाहात् प्रतिनिधिं तस्य शैलस्य सर्वथा Śiva B.28.4.
A deputy, vicegerent.
Substitution.
A surety.
An image, likeness, picture.
Apte 1890
EnglishHindi
Hindiप्रतिनिधि (पु)
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte Hindi
Hindiप्रतिनिधिः
- प्रति+नि+धा+कि
"स्थानापन्न, एवजी, वह व्यक्ति जो किसी दूसरे के बदले काम पर लगाया जाय"
प्रतिनिधिः
- प्रति+नि+धा+कि
"सहायक, प्रणिधि"
प्रतिनिधिः
- प्रति+नि+धा+कि
स्थानापत्ति
प्रतिनिधिः
- प्रति+नि+धा+कि
जामिन
प्रतिनिधिः
- प्रति+नि+धा+कि
"प्रतिमा, समानता, चित्र"
Wordnet
Sanskrit प्रतिनिधिः, प्रतिहस्तः, कारापकः
यः कस्यापि संस्थायाः जनस्य वा पक्षतः कमपि कार्यं कर्तुं नियुक्तः अस्ति।
"श्यामः एकस्मिन् वित्तकोषे प्रतिनिधिः अस्ति।"
प्रतिनिधिः
कस्यचित् द्वारा स्वस्य स्थाने कञ्चित् कार्यं कर्तुं नियुक्तः पुरुषः।
"अस्मिन् सम्मेलने अधिकानां संस्थानां प्रतिनिधयः भागं गृह्णन्ति।"
चित्रम्, चित्रलेखा, चित्रलिखितम्, आलेख्यम्, प्रतिमा, प्रतिमानम्, चित्रफलकः, प्रतिकृतिः, प्रतिरूपम्, प्रतिच्छाया, प्रतिच्छन्दकम्, प्रतिविम्बम्, प्रितिविम्बः, झर्झरीकः, प्रतिनिधिः, प्रतियातना
रेखाभिः वर्णैः वा आलेखिता आकृति।
"कलानिकेतन इति संस्थायां नैकानि चित्राणि सन्ति।"
Tamil
Tamilப்ரதிநிதி4: : பிரதிநிதி, உதவி செய்பவன், ஜாமீன் கொடுப்பவன், படம், பிம்பம்.
अमरकोशः
SanskritWord: प्रतिनिधिः
Root: प्रतिनिधिः
Gender: undefined
Number: undefined
Meaning(s):
⇒ about
Shloka(s):
3|3|246|1 ► प्रति प्रतिनिधौ वीप्सालक्षणादौ प्रयोगतः। (नानार्थवर्गः)
Synonym(s):
➠ 3|3|246|1 ⇢ प्रतिः (प्रति) (अव्य)
Related word(s):
जातिः ➡ मनुष्यः
शब्दकल्पद्रुमः
Sanskritप्रतिनिधिः, (प्रतिनिधीयते सदृशीक्रयते इति ।प्रति + नि + धा + “उपसर्गे धोः किः ।” ३ । ३ ।९२ । इति किः ।) प्रतिमा । इत्यमरः । २ । १० । ३६ ॥
सदृशः । (यथा, रघौ । १ । ८१ ।“सुतां तदीयां सुरभेः कृत्वा प्रतिनिधिं शुचिः ।आराधय सपत्नीकः प्रीता कामदुघा हि सा ॥
”)तस्य विवेचनं यथा । “अत्यन्तासामर्थेषु स्कन्द-पुराणम् ।‘पुत्त्रं वा विनयोपेतं भगिनीं भ्रातरं तथा ।एषामभाव एवान्यं ब्राह्मणं विनियोजयेत् ॥
’गरुडपुराणे ।‘भार्य्या भर्त्तृव्रतं कुर्य्यात् भार्य्यायाश्च पतिस्तथा ।असामर्थ्ये तयोस्ताभ्यां व्रतभङ्गो न जायते ॥
’वराहपुराणे ।‘पितृमातृपतिभ्रातृश्वश्रूगुर्व्वादिभूभुजाम् ।अदृष्टार्थमुपोषित्वा स्वयञ्च फलभागभवेत् ॥
’अत्रैव विषये कात्यायनः ।‘दक्षिणा नात्र कर्त्तव्या शुश्रूषा विहिता च या ।’ननु प्रतिनिधौ ममेह शर्म्माद्यङ्गमन्त्रस्थफलंकुत्रान्वेति चेत् प्रधान एव । तथा च शारी-रिकभाष्ये श्रुतिः । ‘यां वै काञ्चनयज्ञऋत्विजआशिषमाशासते यजमानायैव तामाशासतेइति होवाच इति ।’ ब्राह्मणसर्व्वस्वे तु यज-मानायेत्यादौ यजमानस्यैव सेतिं पाठे विशेषः ।तथा च सरलायां सूत्रम् । ‘यां वै काञ्चनयज्ञ-ऋत्विगाशिषमाशास्ते सा यजमानस्यैवेति ।’ऋत्विग्यजमानपदे प्रतिनिधिप्रधानपरे आका-ङ्क्षितत्वादिति । अतएव प्रतिनिधिपुत्त्रादिनाप्या-यान्तु नः पितर इत्यादिवदनूह एव पठ्यतेवाक्यस्य काल्पनिकत्वात्तत्र न तथेति ॥
* ॥
अत्र प्रतिनिधिप्रसङ्गेन स्मृत्यनुसारात् किञ्चि-ल्लिख्यते । कालमाधवीये ।‘काम्ये प्रतिनिधिर्नास्ति नित्यनैमित्तिके हि सः ।काम्येषूपक्रमादूर्द्ध्वमन्ये प्रतिनिधिं विदुः ॥
’अस्यार्थस्तु माधवाचार्य्येणाभिहितः । यथानित्यनैमित्तिकं प्रतिनिधिनाप्युपक्रम्य कारयेत् ।काम्यन्तु स्वसामर्थ्यं परीक्ष्य स्वयमेव उपक्रम्यकुर्य्यात् । असामर्थ्ये तु उपक्रमादूर्द्ध्वं प्रतिनिधि-नापि तत्कारयेत् । एतच्च काम्यं श्रौतपरम् ।काम्यस्मार्त्तन्तु अन्यद्बाराप्युपक्रम्य कुर्य्यात् । तथाच पराशरभाष्ये शातातपः ।‘श्रौतं कर्म्म स्वयं कुर्य्यादन्योऽपि स्मार्त्तमाचरेत् ।अशक्तौ श्रौतमप्यन्यः कुर्य्यादाचारमन्ततः ॥
’अन्ततः उपक्रमात् परतः । अन्यथा नित्य-नैमित्तिकमात्रपरत्वे श्रौतस्मार्त्तभेदेनोपादानंव्यर्थं स्यात्तयोरविशेषादेव प्रतिनिधिलाभात् ।अतएव भारतपाठादौ तथा समाचारः ॥
* ॥
स्मृत्यर्थसारे ।‘नाभावस्य प्रतिनिधिरभावान्तरमिष्यते ।’सजातीयमप्यभावान्तरमभावस्य प्रतिनिधि-र्नेष्यते । भावस्तु कदाचित् । यथोपवासादौ-ब्राह्मणभोजनादि ।‘नापि प्रतिनिधातव्यं निषिद्धं वस्तु कुत्रचित् ।श्रोत्रियाणामभोज्यञ्च यद्द्रव्यं तदशेषतः ।ग्राह्यं प्रतिनिधित्वेन होमकार्य्ये न कुत्रचित् ॥
द्रव्यं वैकल्पिकं किञ्चिद्यत्र सङ्कल्पितं भवेत् ।तदलाभे सदृग्ग्राह्यं न तु वैकल्पिकान्तरम् ॥
उपात्ते तु प्रतिनिधौ मुख्यार्थो लभ्यते यदि ।तत्र मुख्यमनादृत्य गौणेनैव समापयेत् ॥
संस्काराणामयोग्योऽपि मुख्य एव हि गृह्यते ।न तु संस्कारयोग्योऽन्यो गृह्यते प्रतिरूपकः ॥
मुख्ये कार्य्यासमर्थे तु लब्धेऽप्येतस्य नादरः ।प्रतिरूपमुपादाय शक्तमेवोपयुज्यते ॥
काष्ठै रूपैस्तथा पर्णैः क्षीरैः पुष्पैः फलैस्तथा ।गन्धै रसैः सदृग्ग्राह्यं सर्व्वालाभे परं परम् ॥
ग्राम्याणान्तु भवेद्ग्राम्यमारण्यानामरण्यजम् ।यवाभावे तु गोधूमास्तथा वेणुयवादयः ॥
हविष्ये गोघृतं ग्राह्यं तदलाभे तु माहिषम् ।आजं वा तदलाभे तु साक्षात्तैलं प्रयुज्यते ॥
तैलाभावे ग्रहीतव्यं तैलजं तिलसम्भवम् ॥
’तैलजं तिलसम्भवं तैलभृष्टतिलपिष्टम् ।‘तदभावे तु सस्नेहं कौसुम्भं सर्षपोद्भवम् ॥
वृक्षस्नेहोऽथ वा ग्राह्यः पूर्व्वाभावे परः परः ।तदभावे गवादीनां क्रमात् क्षीरं विधीयते ॥
तदलाभे दधि ग्राह्यमलाभे तिल इष्यते ।यत्र मुख्यं दधि क्षीरं तत्रापि तदलाभतः ॥
अजादेः क्षीरदध्यादि तदलाभे तु गोघृतम् ।मुख्यासन्नोऽथवा ग्राह्यः कार्य्यकारणसन्ततौ ॥
अतएव घृताभावे पूर्व्वं दधि ततः पयः ॥
’तथा ।‘सर्व्वत्र गौणकालेषु कर्म्मचोदितमाचरेत् ।प्रायश्चित्तं वाहृतिभिर्हुत्वा कर्म्म समाचरेत् ॥
’मात्स्ये ।‘घृतं न लभ्यते यत्र शुष्कक्षीरेण होमयेत् ।क्षीरस्य च दधि ज्ञेयं मधुनश्च गुडो भवेत् ॥
’आयुर्व्वेदेऽपि ।‘मधु यत्र न विद्येत तत्र जीर्णगुडो भवेत् ॥
’पैठीनसिः । ‘काण्डमूलपर्णपुष्पफलप्ररोहरस-गन्धादीनां सादृश्येन प्रतिनिधिं कुर्य्यात् । सर्व्वालाभे यवः प्रतिनिधिर्भवति ।’ काण्डं नालंप्ररोहोऽङ्कुरः । ‘सर्व्वालाभे यव’ इति कल्पतरुः ॥
अवयव इति नारायणोपाध्यायाः ॥
शान्ति-दीपिकायां नारदीयपञ्चरात्रम् ।‘अभावे चैव धातूनां हरितालं प्रशस्यते ।बीजानामप्यलाभे तु यव एको विधीयते ॥
ओषधीनामलाभे तु सहदेवा प्रशस्यते ।रत्नानामप्यलाभे तु मुक्ताफलमनुत्तमम् ॥
लौहानामप्यलाभे तु हेमपात्रं प्रकल्पयेत् ।’लौहानां तैजसमात्राणाम् । न्यायप्राप्तप्रति-निधिमधिकृत्य जैमिनिः ।‘न देवताग्निशब्दक्रियाणामिति ।’ अस्यार्थः ।देवताया अग्नेश्च आहवनीयादेः शब्दस्यमन्त्रस्य क्रियायाः प्रजाद्यदृष्टार्थकर्म्मणश्चादृष्ट-मात्रार्थकत्वेन आरादुपकारकत्वान्न प्रति-निधिः । व्रीह्यादीनान्तु सन्निपत्योपकारकाणांपुरोडाशसाधनं दृष्टमेव प्रयोजनमिति तत्रप्रतिनिधिरुचित इत्युक्तम् ।” इत्येकादशी-तत्त्वम् ॥
* ॥
“आरब्धकार्त्तिकादिस्नाने तुव्याध्यादिनासामर्थ्ये पुत्त्रादिभिः प्रतिनिधिनाकारयितव्यं नानुकल्पविधिना नित्यस्नान एवतद्विधानादिति ।” इति मलमासतत्त्वम् ॥
* ॥
स्वयंकरणासामर्थ्ये अन्यद्बारा । यथा, -- “दक्षः ।‘स्वयं होमे फलं यच्च तदन्येन न जायते ।ऋत्विक् पुत्त्रो गुरुर्भ्राता भागिनेयोऽथ विट्-पतिः ।एभिरेव हुतं यत्तु तद्धुतं स्वयमेव हि ॥
’विट्पतिर्ज्जामाता । एवञ्च ऋत्विगादीतरत्रफलन्यूनता ॥
* ॥
अत्राशौचाशङ्कया बोधन-दिनात् पूर्व्वं शुचितत्कालजीवित्वरूपाधिकारा-भावेऽपि यद्वरणादिकं क्रियते तत् कर्म्मकालेतस्य नारदोक्तस्वयं प्रवर्त्तनवत् प्रवर्त्तनाय न तुतदार्नीं प्रतिनिधीयते । अथवा ।‘निःक्षिप्याग्निं स्वदारेषु परिकल्प्यर्त्विजन्तथा ।प्रवसेत् कार्य्यवान् विप्रो वृथैव न चिरं वसेत् ॥
’इति छन्दोगपरिशिष्टवदन्यत्रापि प्रतिनिधी-यते । एवं वरणं विनापि क्वचिद्यदि ऋत्विक्प्रवर्त्तते तथापि तत्कर्म्मसिद्धिः । दक्षिणा चतस्मै शुचिकाले दातव्येति । तथा च नारदः ।‘ऋत्विक् च त्रिविधो दृष्टः पूर्व्वैर्जुष्टः स्वयंकृतः ।यदृच्छया वा यः कुर्य्यादार्त्विज्यं प्रीतिपूर्व्वकम् ॥
’यदृच्छया स्वेच्छया ।” इति तिथ्यादितत्त्वम् ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
