प्रतिनिधि (pratinidhi)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishप्रतिनिधि - pratinidhi - - agent
कारकर - kArakara - - agent [ computer ]
प्रतिहस्त - pratihasta - - agent [ computer ]
अनुयोज्य - anuyojya - - agent
कर्तृ - kartR - - agent
कार्यसाधक - kAryasAdhaka - - agent
कुर्वाण - kurvANa - - agent
कुर्वत् - kurvat - - agent
योगपुरुष - yogapuruSa - - agent
कारापक - kArApaka - - agent
क्रियाकर्तृ - kriyAkartR - - agent
निसृष्टार्थ - nisRSTArtha - - agent
पुरोहित - purohita - - agent
प्रयोक्तृ - prayoktR - - agent
हेतुक - hetuka - - agent
प्रथमा विभक्ति - prathamA vibhakti - phrase - nominative [ name of agent/subject of the verb - Gramm. ]
कर्त्रीयति { कर्त्रीय } - kartrIyati { kartrIya } - verb - be an agent
अकर्तृ - akartR - - not an agent
आप्तकारिन् - AptakArin - - trusty agent
आप्तक्रिय - Aptakriya - - trusty agent
प्रतिनिधि - pratinidhi - - agent
प्रतिनिधि - pratinidhi - - representative
प्रतिनिधि - pratinidhi - - like
प्रतिनिधि - pratinidhi - - statue
प्रतिनिधि - pratinidhi - - likeness
प्रतिनिधि - pratinidhi - - substitute
प्रतिनिधि - pratinidhi - - picture
प्रतिनिधि - pratinidhi - - substitution
प्रतिनिधि - pratinidhi - - image
प्रतिनिधि - pratinidhi - - proxy
प्रतिनिधि - pratinidhi - - surety
प्रतिनिधि - pratinidhi - - image of i.e. similar
प्रतिनिधि - pratinidhi - - resemblance of a real form
वाणिज्यदूत-प्रतिनिधि - vANijyadUta-pratinidhi - - consular representative
प्रतिनिधि pratinidhi representative
नियुक्त niyukta representative
प्रतिहस्तक pratihastaka representative
नियोगिन् niyogin representative
शासनहारिन् zAsanahArin representative
शासनधर zAsanadhara representative
चेल cela bad representative of
वाणिज्यदूत-प्रतिनिधि vANijyadUta-pratinidhi consular representative
भ्रातृस्थान bhrAtRsthAna brother's representative
कुलतन्तु kulatantu last representative of a family
मूलपुरुष mUlapuruSa male representative of a family
गर्गतर gargatara excellent representative of the garga family
पुरुष puruSa member or representative of a race or generation
मनु manu Man par excellence or the representative man and father of the human race
Wilson
EnglishApte
Englishप्रतिनिधिः [pratinidhiḥ], 1 A representative, substitute
सो$भवत् प्रतिनिधिर्न कर्मणा 11.13
1.81
4.54
5, 63
9.4. अल्लीशाहात् प्रतिनिधिं तस्य शैलस्य सर्वथा Śiva B.28.4.
A deputy, vicegerent.
Substitution.
A surety.
An image, likeness, picture.
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
EnglishBenfey
EnglishApte Hindi
Hindiप्रतिनिधिः
- प्रति+नि+धा+कि
"स्थानापन्न, एवजी, वह व्यक्ति जो किसी दूसरे के बदले काम पर लगाया जाय"
प्रतिनिधिः
- प्रति+नि+धा+कि
"सहायक, प्रणिधि"
प्रतिनिधिः
- प्रति+नि+धा+कि
स्थानापत्ति
प्रतिनिधिः
- प्रति+नि+धा+कि
जामिन
प्रतिनिधिः
- प्रति+नि+धा+कि
"प्रतिमा, समानता, चित्र"
Shabdartha Kaustubha
Kannadaप्रतिनिधि
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಬದಲಿಯವನು /ಒಬ್ಬನಿಗೆ ಬದಲಾಗಿ ನೇಮಿಸಲ್ಪಟ್ಟವನು /ಇನ್ನೊಬ್ಬನ ಕಾರ್ಯವನ್ನು ನಿರ್ವಹಿಸಲು ಅವನಿಗೆ ಸಮಾನನಾದವನು
निष्पत्तिः - > प्रति + नि + डुधाञ् (धारणपोषण्योः) - "किः" (३-३-९२)
व्युत्पत्तिः - > प्रतिनिधीयते इति
प्रयोगाः - > "सुतां तदीयां सुरभेः कृत्वा प्रतिनिधिः शुचिः"
उल्लेखाः - > रघु० १-८२
प्रतिनिधि
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಪ್ರತಿಮೆ /ವಿಗ್ರಹ
प्रतिनिधि
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಚಿತ್ರಪಟ
प्रतिनिधि
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಸದೃಶವಾದ /ಸಮಾನವಾದ
L R Vaidya
EnglishSanskrit Tibetan
Tibetansku 'dra
१) प्रतिनिधि २) प्रतिबिम्ब ३) प्रतिमा ४) मूर्ति ५) शरीर
अभिधानचिन्तामणिः
Sanskritऔपम्यमनुकारोऽनुहारः साम्यं तुलोपमा ।
कक्षोपमानमर्चा तु प्रतेर्मा यातना निधिः ॥ १४६३ ॥
छाया छन्दः कायो रूपं बिम्बं मानकृती अपि ।
औपम्य (क्ली), अनुकार (पुं), अनुहार (पुं), साम्य (क्ली), तुला (स्त्री), उपमा (स्त्री), कक्षा (स्त्री), उपमान (क्ली), अर्चा (स्त्री), प्रतिमा (स्त्री), प्रतियातना (स्त्री), प्रतिनिधि (पुं), प्रतिच्छाया (स्त्री), प्रतिच्छन्द (पुं), प्रतिकाय (पुं), प्रतिरूप (क्ली), प्रतिबिम्ब (क्ली), प्रतिमान (क्ली), प्रतिकृति (स्त्री)
अभिधानरत्नमाला
Sanskritप्रतिबिम्ब
प्रतिबिम्ब, प्रतिरूप, प्रतिमान, प्रतिकृति, प्रतिच्छन्द, प्रतिकाय, प्रतिनिधि, प्रतियातना, प्रतिच्छाया, अर्चा, प्रतिमा
प्रतिबिम्बं प्रतिरूपं प्रतिमानं प्रतिकृतिं प्रतिच्छन्दम् ।
प्रतिकायं च प्रतिनिधिमाहुः प्रतियातनां प्रतिच्छायाम् ॥ १३० ॥
अर्चा तु प्रतिमा प्रोक्ता हरिणी स्याद्धिरण्मयी ।
verse 1.1.1.130
page 0016
शब्दकल्पद्रुमः
Sanskritप्रतिनिधिः, (प्रतिनिधीयते सदृशीक्रयते इति ।प्रति + नि + धा + “उपसर्गे धोः किः ।” ३ । ३ ।९२ । इति किः ।) प्रतिमा । इत्यमरः । २ । १० । ३६ ॥
सदृशः । (यथा, रघौ । १ । ८१ ।“सुतां तदीयां सुरभेः कृत्वा प्रतिनिधिं शुचिः ।आराधय सपत्नीकः प्रीता कामदुघा हि सा ॥
”)तस्य विवेचनं यथा । “अत्यन्तासामर्थेषु स्कन्द-पुराणम् ।‘पुत्त्रं वा विनयोपेतं भगिनीं भ्रातरं तथा ।एषामभाव एवान्यं ब्राह्मणं विनियोजयेत् ॥
’गरुडपुराणे ।‘भार्य्या भर्त्तृव्रतं कुर्य्यात् भार्य्यायाश्च पतिस्तथा ।असामर्थ्ये तयोस्ताभ्यां व्रतभङ्गो न जायते ॥
’वराहपुराणे ।‘पितृमातृपतिभ्रातृश्वश्रूगुर्व्वादिभूभुजाम् ।अदृष्टार्थमुपोषित्वा स्वयञ्च फलभागभवेत् ॥
’अत्रैव विषये कात्यायनः ।‘दक्षिणा नात्र कर्त्तव्या शुश्रूषा विहिता च या ।’ननु प्रतिनिधौ ममेह शर्म्माद्यङ्गमन्त्रस्थफलंकुत्रान्वेति चेत् प्रधान एव । तथा च शारी-रिकभाष्ये श्रुतिः । ‘यां वै काञ्चनयज्ञऋत्विजआशिषमाशासते यजमानायैव तामाशासतेइति होवाच इति ।’ ब्राह्मणसर्व्वस्वे तु यज-मानायेत्यादौ यजमानस्यैव सेतिं पाठे विशेषः ।तथा च सरलायां सूत्रम् । ‘यां वै काञ्चनयज्ञ-ऋत्विगाशिषमाशास्ते सा यजमानस्यैवेति ।’ऋत्विग्यजमानपदे प्रतिनिधिप्रधानपरे आका-ङ्क्षितत्वादिति । अतएव प्रतिनिधिपुत्त्रादिनाप्या-यान्तु नः पितर इत्यादिवदनूह एव पठ्यतेवाक्यस्य काल्पनिकत्वात्तत्र न तथेति ॥
* ॥
अत्र प्रतिनिधिप्रसङ्गेन स्मृत्यनुसारात् किञ्चि-ल्लिख्यते । कालमाधवीये ।‘काम्ये प्रतिनिधिर्नास्ति नित्यनैमित्तिके हि सः ।काम्येषूपक्रमादूर्द्ध्वमन्ये प्रतिनिधिं विदुः ॥
’अस्यार्थस्तु माधवाचार्य्येणाभिहितः । यथानित्यनैमित्तिकं प्रतिनिधिनाप्युपक्रम्य कारयेत् ।काम्यन्तु स्वसामर्थ्यं परीक्ष्य स्वयमेव उपक्रम्यकुर्य्यात् । असामर्थ्ये तु उपक्रमादूर्द्ध्वं प्रतिनिधि-नापि तत्कारयेत् । एतच्च काम्यं श्रौतपरम् ।काम्यस्मार्त्तन्तु अन्यद्बाराप्युपक्रम्य कुर्य्यात् । तथाच पराशरभाष्ये शातातपः ।‘श्रौतं कर्म्म स्वयं कुर्य्यादन्योऽपि स्मार्त्तमाचरेत् ।अशक्तौ श्रौतमप्यन्यः कुर्य्यादाचारमन्ततः ॥
’अन्ततः उपक्रमात् परतः । अन्यथा नित्य-नैमित्तिकमात्रपरत्वे श्रौतस्मार्त्तभेदेनोपादानंव्यर्थं स्यात्तयोरविशेषादेव प्रतिनिधिलाभात् ।अतएव भारतपाठादौ तथा समाचारः ॥
* ॥
स्मृत्यर्थसारे ।‘नाभावस्य प्रतिनिधिरभावान्तरमिष्यते ।’सजातीयमप्यभावान्तरमभावस्य प्रतिनिधि-र्नेष्यते । भावस्तु कदाचित् । यथोपवासादौ-ब्राह्मणभोजनादि ।‘नापि प्रतिनिधातव्यं निषिद्धं वस्तु कुत्रचित् ।श्रोत्रियाणामभोज्यञ्च यद्द्रव्यं तदशेषतः ।ग्राह्यं प्रतिनिधित्वेन होमकार्य्ये न कुत्रचित् ॥
द्रव्यं वैकल्पिकं किञ्चिद्यत्र सङ्कल्पितं भवेत् ।तदलाभे सदृग्ग्राह्यं न तु वैकल्पिकान्तरम् ॥
उपात्ते तु प्रतिनिधौ मुख्यार्थो लभ्यते यदि ।तत्र मुख्यमनादृत्य गौणेनैव समापयेत् ॥
संस्काराणामयोग्योऽपि मुख्य एव हि गृह्यते ।न तु संस्कारयोग्योऽन्यो गृह्यते प्रतिरूपकः ॥
मुख्ये कार्य्यासमर्थे तु लब्धेऽप्येतस्य नादरः ।प्रतिरूपमुपादाय शक्तमेवोपयुज्यते ॥
काष्ठै रूपैस्तथा पर्णैः क्षीरैः पुष्पैः फलैस्तथा ।गन्धै रसैः सदृग्ग्राह्यं सर्व्वालाभे परं परम् ॥
ग्राम्याणान्तु भवेद्ग्राम्यमारण्यानामरण्यजम् ।यवाभावे तु गोधूमास्तथा वेणुयवादयः ॥
हविष्ये गोघृतं ग्राह्यं तदलाभे तु माहिषम् ।आजं वा तदलाभे तु साक्षात्तैलं प्रयुज्यते ॥
तैलाभावे ग्रहीतव्यं तैलजं तिलसम्भवम् ॥
’तैलजं तिलसम्भवं तैलभृष्टतिलपिष्टम् ।‘तदभावे तु सस्नेहं कौसुम्भं सर्षपोद्भवम् ॥
वृक्षस्नेहोऽथ वा ग्राह्यः पूर्व्वाभावे परः परः ।तदभावे गवादीनां क्रमात् क्षीरं विधीयते ॥
तदलाभे दधि ग्राह्यमलाभे तिल इष्यते ।यत्र मुख्यं दधि क्षीरं तत्रापि तदलाभतः ॥
अजादेः क्षीरदध्यादि तदलाभे तु गोघृतम् ।मुख्यासन्नोऽथवा ग्राह्यः कार्य्यकारणसन्ततौ ॥
अतएव घृताभावे पूर्व्वं दधि ततः पयः ॥
’तथा ।‘सर्व्वत्र गौणकालेषु कर्म्मचोदितमाचरेत् ।प्रायश्चित्तं वाहृतिभिर्हुत्वा कर्म्म समाचरेत् ॥
’मात्स्ये ।‘घृतं न लभ्यते यत्र शुष्कक्षीरेण होमयेत् ।क्षीरस्य च दधि ज्ञेयं मधुनश्च गुडो भवेत् ॥
’आयुर्व्वेदेऽपि ।‘मधु यत्र न विद्येत तत्र जीर्णगुडो भवेत् ॥
’पैठीनसिः । ‘काण्डमूलपर्णपुष्पफलप्ररोहरस-गन्धादीनां सादृश्येन प्रतिनिधिं कुर्य्यात् । सर्व्वालाभे यवः प्रतिनिधिर्भवति ।’ काण्डं नालंप्ररोहोऽङ्कुरः । ‘सर्व्वालाभे यव’ इति कल्पतरुः ॥
अवयव इति नारायणोपाध्यायाः ॥
शान्ति-दीपिकायां नारदीयपञ्चरात्रम् ।‘अभावे चैव धातूनां हरितालं प्रशस्यते ।बीजानामप्यलाभे तु यव एको विधीयते ॥
ओषधीनामलाभे तु सहदेवा प्रशस्यते ।रत्नानामप्यलाभे तु मुक्ताफलमनुत्तमम् ॥
लौहानामप्यलाभे तु हेमपात्रं प्रकल्पयेत् ।’लौहानां तैजसमात्राणाम् । न्यायप्राप्तप्रति-निधिमधिकृत्य जैमिनिः ।‘न देवताग्निशब्दक्रियाणामिति ।’ अस्यार्थः ।देवताया अग्नेश्च आहवनीयादेः शब्दस्यमन्त्रस्य क्रियायाः प्रजाद्यदृष्टार्थकर्म्मणश्चादृष्ट-मात्रार्थकत्वेन आरादुपकारकत्वान्न प्रति-निधिः । व्रीह्यादीनान्तु सन्निपत्योपकारकाणांपुरोडाशसाधनं दृष्टमेव प्रयोजनमिति तत्रप्रतिनिधिरुचित इत्युक्तम् ।” इत्येकादशी-तत्त्वम् ॥
* ॥
“आरब्धकार्त्तिकादिस्नाने तुव्याध्यादिनासामर्थ्ये पुत्त्रादिभिः प्रतिनिधिनाकारयितव्यं नानुकल्पविधिना नित्यस्नान एवतद्विधानादिति ।” इति मलमासतत्त्वम् ॥
* ॥
स्वयंकरणासामर्थ्ये अन्यद्बारा । यथा, -- “दक्षः ।‘स्वयं होमे फलं यच्च तदन्येन न जायते ।ऋत्विक् पुत्त्रो गुरुर्भ्राता भागिनेयोऽथ विट्-पतिः ।एभिरेव हुतं यत्तु तद्धुतं स्वयमेव हि ॥
’विट्पतिर्ज्जामाता । एवञ्च ऋत्विगादीतरत्रफलन्यूनता ॥
* ॥
अत्राशौचाशङ्कया बोधन-दिनात् पूर्व्वं शुचितत्कालजीवित्वरूपाधिकारा-भावेऽपि यद्वरणादिकं क्रियते तत् कर्म्मकालेतस्य नारदोक्तस्वयं प्रवर्त्तनवत् प्रवर्त्तनाय न तुतदार्नीं प्रतिनिधीयते । अथवा ।‘निःक्षिप्याग्निं स्वदारेषु परिकल्प्यर्त्विजन्तथा ।प्रवसेत् कार्य्यवान् विप्रो वृथैव न चिरं वसेत् ॥
’इति छन्दोगपरिशिष्टवदन्यत्रापि प्रतिनिधी-यते । एवं वरणं विनापि क्वचिद्यदि ऋत्विक्प्रवर्त्तते तथापि तत्कर्म्मसिद्धिः । दक्षिणा चतस्मै शुचिकाले दातव्येति । तथा च नारदः ।‘ऋत्विक् च त्रिविधो दृष्टः पूर्व्वैर्जुष्टः स्वयंकृतः ।यदृच्छया वा यः कुर्य्यादार्त्विज्यं प्रीतिपूर्व्वकम् ॥
’यदृच्छया स्वेच्छया ।” इति तिथ्यादितत्त्वम् ॥
वाचस्पत्यम्
Sanskritप्रतिनिधि प्रतिरूपं निधीयते तुल्यरूपतया स्वाप्यतेपति + नि + धा--कि । १ प्रतिरूपे तुल्यरूपे अमरः ।बैदिककर्माङ्गद्रव्यादीनां सुख्यानामलाभे २ तुल्यरूपत-यान्यस्मिन् निधीयमाने । कुत्र प्रतिनिधिर्भवति कुत्र वान मवति तत्सर्वं विशेषसहितं कात्या० श्रौ० १४ कण्डि-कायां व्यवस्थापितं यस्य संक्षिप्तार्थस्यु कात्यायनशब्दे१८६५ पृष्ठादो दर्शितः । तदनुसारेण स्मार्त्तादिसम्मत-व्यवस्था प्रदर्श्यते तत्र एकादशीतत्त्वे उक्तं यथास्कन्दपुराणम् “पुत्रञ्च विनियोपेतं भनिनीं भ्रातर-न्तथा । एपामभाव एवान्य ब्राह्मणं विनियोजयेत्” ।नरुडपुराणम् “भार्य्या भर्तृव्रतं कुर्य्याद्भार्य्यायाश्च पति-स्तथा । असामर्थ्य द्वयोस्ताभ्यां व्रतभङ्गो न जायते” ।वराहपुराणे “पितृमातृपतिभ्रातृस्वसृगुर्वादिभूभुजाम् ।अदृष्टार्थसुपोवित्वा स्वयश्च फलभाम् भवेत्” । अत्रैवविषये कात्यायनः “दक्षिणा नात्र कर्त्तव्या शुश्रूषा वि-हिता च सा” ननु प्रतिनिधौ ममेह शर्म इत्यादिमन्त्र-स्थफलं कुत्रान्वेतु इति चेत् प्रधान एव । तथाच शारी-रकभाष्ये श्रुतिः “यां वे काञ्चन यज्ञ आशिवमाशासतेयजमानायेव तामाशासते इति होवाच” इति । ब्राह्मणसुर्वस्वे यजमानायेत्यत्र यजमानखेति पाथः । सरलायांसूत्रं “यां वै काञ्चन ऋत्विगाशिषमाशास्ते सा यजमा-नस्यैवेति” । अत्र ऋत्विग्यजमानपदे प्रतिनिधिप्रधानपरेआकाङ्क्षितत्वात् । अतएव प्रतिनिधिपुत्रादिना “आयान्तुनः पितरः” इत्यादिरनूह एव षठ्यते वाक्यस्य काल्पनिक-त्वान्न तथेति । कालमाधवीये “काम्ये प्रतिनिधिर्नास्तिनित्ये नैमित्तिके हि सः । काम्येषुपक्रमादूर्द्ध्वमन्ये प्रति-निधिं विदुः” यथा नित्यं नैमित्तिकञ्च प्रतिनिधिना-प्युपक्रम्य कारयेत् काम्ये तु स्वसामर्थ्यं परीक्ष्य स्वय-मेवोपक्रम्य कुर्य्यात् । असामर्थ्ये उपक्रमादूर्द्ध्वं प्रति-निधिनापि कारयेत् । एतच्च श्रौतकाम्यपरं स्मार्त्त-काम्यन्तु अन्यद्वाराप्युपक्रम्य कार्य्यम् । तथा च पराशर-भाष्ये शातातपः “श्रौतं कर्म स्वयं कुर्य्यादन्योऽपि स्मार्त्त-माचरेत् । अशक्तौ श्रौतमप्यन्यः कुर्य्यादाचारमन्ततः” ।अन्तत उपक्रमात् परतः । एतच्च काम्येऽपि प्रतिनिधि-विधायक नैमित्तिकमात्रपरत्वे श्रौतस्मार्त्तभेदोपादानव्यर्थं स्यात् तयोरविशेषादेव प्रतिनिधिलाभात् । अतएव भारतपाठादौ तथा समाचारः । स्मृत्यर्थसारे “ना-भावस्य प्रतिनिधिरभावान्तरमिष्यते” । सजातीयत्वे-ऽप्यभावान्तरमभावस्य प्रतिनिघिर्नेष्यते । भावस्तु कदा-चिद्यथोपवासादौ ब्राह्मणभोजनादीति । “नापिप्रतिनिधातव्यं निषिद्धं वस्तु कुत्रचित् । श्रोत्रिया-णामभोज्य यद्द्रव्यं हि तदशेषतः । ग्राह्यं प्रति-निधित्वेन होमकार्य्ये न कुत्रचित् । द्रव्यं वैकल्पिकंकिञ्चिद् यत्र सङ्कल्पितं भवेत् । तदभावे सदृग् ग्राह्यंन तु वैकल्पिकान्तरम् । उपात्ते तु प्रतिनिधौ सुख्या-र्थो लभ्यत यदि । तत्र मुख्यमनादृत्य गौणेनैव समा-पयेत् । संस्काराणामयोग्योऽपि मुख्य एव हि लभ्यते ।न तु संस्कारयोम्योऽन्यो गृह्यते प्रतिरूपकः । मुख्येकार्य्यासमर्थे तु लब्धेऽप्येतस्य नादरः । प्रतिरूपक-मादाय शक्तमेवोपजायते । कार्य्यैरूपैस्तथा पत्रैः क्षीरैःपुष्पैस्तथा फलैः । गन्धै रसैः सदृग् ग्राह्यं पूर्वालाभेषरं परम् । ग्राम्याणान्तु मवेद्ग्राम्यमारण्यानामर-ण्यजम् । यवालाभे तु गोघूमास्तथा रेणुयवादयः ।हविष्ये गोर्घृतं ग्राह्यं तदभावेऽपि माहिषम् । आजंवा तदभावे तु साक्षात्तैलं प्रयुज्यते । तैलाभावे ग्रही-तव्यं तैलजं तिलसम्भवम्” । तलजं तैलभृष्टं तिल-सम्भवम तिलपिष्टादि । “तदभावे तृ सस्नेहं कौ-सुम्भं सर्षपोद्भवम् वृक्षस्नेहस्तथा ग्राह्यः पूर्वाभावेपरः परः । तदभावे गवादीनां क्रमात् क्षीरं विधीयते ।तदभावे दधि ग्राह्यमलाभे तिल इष्यते । यत्र मुख्यंदधि क्षीरं तत्रापि तदलाभतः । अजादेः क्षीरदध्यादितदभावेऽपि गोघृतम् । मुख्यासन्नोऽथ वा ग्राह्यः कार्य्य-कारणसन्ततौ” । अत एव धृताभावे पूर्वं दधि ततःपयः । तथा “सर्वत्र गौणकालेषु कर्मचोदितमाचरेत् ।प्रायश्चित्तं व्याहृतिभिर्हुत्वा कर्म समाचरेत्” । मत्स्य-सूक्ते “घृतं न लभ्यते यत्र शुष्कक्षीरेण होमयेत् ।क्षीरस्य च दधि ज्ञेयं मधुनश्च गुडी भवेत्” । आयुर्वेदे-ऽपि “मधु यत्र न लभ्येत तत्र जीर्णो गुडो भवेत्” ।काण्डमूलपर्णपुष्पफलप्ररोहरसगन्धादीनां सादृश्येन प्रति-निधिं कुर्य्यात् । सर्वाभावे यवप्रतिनिधिर्भवतीति” काण्डंनालं प्ररोहोऽङ्कुरः । सर्वालाभे यव इति कल्पतरुःअवयव इति नारायणोपाध्यायः । शान्तिदीपिकायांनारदीयपञ्चरात्रम् “अभावे चैव धातूनां हरितालंविधीयते । वीजानामप्यभावे तु यव एकः प्रशस्यते ।ओषधीनामभावे तु सहदेवी प्रशस्यते । रत्नानामप्य-भावे तु मुक्तः फलमनुत्तमम् । लौहानामप्यभावे तु हेम-पात्रं प्रकल्पयेत्” । लौहानां तैजसपात्राणाम् । न्याय-प्राप्तप्रतिनिधिमधिकृत्य जैमिनिः “न देवताग्निशब्द-क्रियाणामिति” । अस्यार्थः देवताया अग्नेश्च आहव-नीयादेः शब्दस्य मन्त्रस्य क्रियाया प्रयाजाद्यदृष्टार्थ-कर्मणश्चादृष्टमात्रार्थकत्वेनारादुपकारकत्वान्न प्रतिनिधिः, व्रीह्यादीनान्तु सन्निपत्योपकारकाणां पुरोडाशसा-धनं दृष्टमेव प्रयोजनमिति तत्र प्रतिनिधिरुचितइत्युक्तम् । परिशिष्टम् “मुख्यकाले तु मुख्यञ्चेत् साधनंनैव लभ्यते । तत्कालद्रव्ययोः कस्य गौणता मुख्यतापिवा” । तत्र भरद्वाजः “मुख्यकालमुषाश्रित्य गौण-मप्यस्तु साधनम् । न मुख्यद्रव्यलाभेन गौणकालप्रती-क्षणम् । गौणेषु तेषु कालेषु कर्म चोदितमारभेत् ।प्रायश्चित्तप्रकरणप्रोक्तां निन्कृतिमाज्वरेत्” । उत्तरमतंसिद्धान्तमिति केचित् । तदभिप्रायकं मीमांसाषष्ठाध्याय-सूत्रम् । “पौर्वापर्य्येऽपि पूर्वदौर्बल्यं प्रकृतिवदिति” ।ज्योतिष्टोमेऽन्योन्यं सम्बध्य यज्ञशालातो बहिर्निर्गच्छतामृत्विजां विच्छेदबिमित्तं प्रायश्चित्तं श्रूयते यद्युद्गाताविच्छिन्द्य द्दक्षिणेन यजेत यदि प्रतिहर्त्ता सर्वस्वदक्षिणे-नेति” । तत्र उद्गातृप्रतिहोत्रोः क्रमेण विच्छेदे विरुद्ध-प्रायचित्तयोः ससुच्चयासम्भवात् । किं पूर्वं कार्य्यम् उतवा परमिति संशये हि अनुपजातबिरोधात् पूर्वमितिपूर्वपक्षे राद्धान्तः पौर्वापर्य्ये सति निमित्तयोः पूर्व-स्यैव निमित्तस्य दौर्बल्यम् । उत्तरस्य पूर्वनिरपेक्षस्यतद्बाधकतया उदितत्वात् पूर्वोदयकाले उत्तरस्याग्राह्य-त्वेन पूर्वेण बाध्यत्वायोगात् । उक्तं हि “पूर्वं परम-जातत्वादवाधित्वैव जायते । परस्यानन्यथोत्पादादुक्त-बाधेन सम्भवः” इति प्रकृतिवदिति यथा हि प्रकृतौक्लप्तोपकाराः कुशाः प्रथममतिदेशेन विकृतावुपकाराका-ङ्क्षिण्यां प्राप्ताः कल्प्योपकारतया चरमभाविभिरमिशरैर्निरपेक्षैर्बाध्यन्ते तद्वदिति । अत एव शारीरकभाष्य-टीकायां वाचस्पतिमिश्राः “ज्येष्ठत्वञ्चानापेक्षितस्यबाध्यत्वे हेतुर्न बाधकत्वे रजतज्ञानस्य ज्यायसः शुक्ति-ज्ञानेन कनीयसा बाधदर्शनात् तदनपबाधने तद्बाधात्म-नस्तस्योत्पत्तेरनुत्पत्तेः तथाच “पूर्वापरबलीयस्त्वं तत्रनाम प्रतीयताम् । अन्योन्यनिरपेक्षाणां यत्र जन्मधियांभवेत्” इति । यदि च पूर्ववचनस्य पूर्वपक्षत्वे वैयर्थ्यंस्यात् अत उभयवचनार्थौ विवक्षणीयौ तदा विषयभेदेनव्यवस्थापनीयौ । तथाहि यत्राष्टकाश्राद्धादौ कालान्तराभावस्तत्र तत्कालानुरोघाद्विहितद्रव्यालाभेऽपि प्रति-निहितद्रव्यमादाय मुख्यकाल एव तत्करणं न तु वच-नानुपात्तस्वेच्छाकल्प्यगौ णकालप्रतीक्षणम् । तथाच छ-न्दोगपरिशिष्टम् “स्थालीपाकं पशुस्थाने कुर्य्याद्यद्यानुकल्पिकम् । श्रपयेत्तं सवत्सायास्तरुण्यागोःपयस्यनु” इत्यादि । यत्राव्दिकश्राद्धादौ कृष्णैकादश्या-दिगौणकालोऽस्ति तत्र मृताहादावन्नाद्यभावे तदनुरो-धेन उपवासादिरूपं प्रायश्चित्तं कृत्वा गौणकाले तत्क्रर्त्तव्यम् । तथाच लघुहारीतः “एकोद्दिष्टन्तु कर्त्तव्यंपाकेनैव सदा स्वयम् । अभावे पाकपात्राणां तदहसमुपोषणम्” । तथाच छन्दोगपरिशिष्टम् “संस्काराअतिपत्येरन् स्वकालाच्चेत् कथञ्चन । हुत्वैतदेव कुर्वीतये तूपनयनादधः” । यत्र तु विनिगमकवचनाभाबस्तत्रयद्यपि क्रियायाः प्राधान्यात् कालो द्रव्यं द्वयमपि गुण-भूतमेव तथाप्युभयोपसंहारासामर्थ्ये द्रव्यादरः कालस्यसूर्य्यादिक्रियाघटितस्य कर्त्रधीनत्वाभावाद्वर्जनीयत्वसिद्धिःअसन्निधिकत्वान्निमित्तत्वमात्रेण बहिरङ्गत्वात् । कालस्यनिमित्तत्वं व्यक्तं भविष्ये “अतः कालं प्रवक्ष्यामि निमित्तंकर्मणामिह” । द्रव्यस्य तु यागस्वरूपनिर्वाहकत्वेना-भ्यर्हितत्वात् कर्मणः कारकत्वेनान्तरङ्गत्वच्च । पुत्रादि-प्रतिनिध्यभावे तु ब्रह्मवैवर्त्तः “उपवासासमर्थश्चेदेकंविघ्रन्तु भोजयेत् । तावद्धनानि वा दद्याद् यद्भक्ताद्-द्विगुणं भवेत् । सहस्रसम्मितां देवीं जपेद्वा प्राणसंय-मान् । कुर्य्याद्द्वादशसंख्याकान् यथाशक्ति व्रते नरः” ।देवीं गायत्रीम् । अत्र चान्द्रायणादौ परिसंख्या ।काश्यपपञ्चरात्रे “मच्छयने मदुत्थाने मत्पार्श्वपरिवर्त्तने ।फलमूलजलाहारी हृदि शल्यं ममार्पयेत् । अत्र योदीक्षितः कश्चिद्वैष्णवो भक्तितत्परः । निर्निमित्तमदी-क्षायां न च क्षद्व्याधिपीडितः । अन्नं वा यदि भुञ्जीतसूलं फलसथापि वा । अषराधमहं तस्य न क्षमामितु कश्यप! । क्षिपामि नरके घोरे हृच्छल्यं मम जायते” ।निमित्तं प्रारब्धचान्द्रायणादिव्रतविरोध इत्यादि, दीक्षायांचरुशेषप्राशनस्य विहितत्वाददोक्षायामित्युक्तम् । क्षुद्-व्याधिना पीडितः सर्वमेतत्प्रदर्शनमात्रं शक्तौ निर्वि-रोध इत्यर्थः । अन्नादिकमप्युपलक्षणमिति जीमूतवाहनः । अत्र निमित्तं प्रारब्धचान्द्रायणादीति यदुक्तंतन्न चान्द्रायणादौ भोजनस्यावश्यकत्वाभावात् किन्तुनिमित्तं रविवाराद्युपवासपारणं जलपानरूपं दीक्षाया-मपि चरुप्राशनं घ्राणरूपम् अन्यथा “पुरोडाशोऽपिसोमो वा संप्राप्ते हरिवासरे । अभक्ष्येण समः प्रोक्तःकिं पुनश्चाशनक्रिया” इति नारदीयं विरुध्येत । तद्घ्रा-णस्य भोजनरूपतामाह कालादर्शे श्रुतिः “पित्रमाघ्रेयंतन्नैवं प्राशितं नबति” इति पित्र्यमुपलक्षणम् आ-काङ्क्षाया अवशिष्टत्वात् । तेनैकादश्यां तदुभयोर्जलपारणंचरुशेषघ्राणञ्च कृत्वा उपबासः कार्य्यः” ।आरब्धकार्त्तिकादिस्नाने तु व्याधादिनाऽसामार्थ्ये पुत्रा-दिभिः प्रतिनिधिना कारयितव्यं नानुकल्पविधिना नित्य-स्नान एव तद्विधिनादिति” इति मल० त० । स्वयं करणाऽ-सामर्थ्ये अत्यद्वारा कारयितव्यं यथा दक्षः “स्वयं होमेफलं यच्च तदन्येन न जायते । ऋत्विक् पुत्रो गुरुर्भ्राताभागिनेयोऽथ विट्पतिः । एभिरेव हुतं यत्तु तद्धुतंस्वयमेव हि” विट्पतिर्जामाना । एवञ्च ऋत्विगादीतरत्रफवन्यूनता । अत्राशौचाशङ्कया बोधनदिनात् पूर्वंशुचितत्कालजीवित्वरूपाधिकाराभावेऽपि यद्वरणादिकंक्रियते तत्कर्मकाले तस्य नारदोक्तस्वयंप्रवर्त्तनवत् प्रव-र्त्तनाय न तु तदानीं प्रतिनिधीयते अथ वा “निःक्षि-प्याग्निं स्वदारेषु परिकल्प्यर्त्विजन्तथा । प्रवसेत् कार्य-वात विप्रो वृथैव न चिरं वसेत्” इति छन्दोगपरिशिष्टवदन्यत्रापि प्रतिनिघीयते एवं वरणं विनापि क्वचिद्-यदि ऋत्विक् प्रवर्त्तते तथापि तत्कर्मसिद्धिः । दक्षिणाच तस्मै शुकिकाले दातव्येति तथा च नारदः “ऋत्विक्च त्रिविधो दृष्टः पूर्वैर्जुष्टः स्वर्यंकृतः । यदृच्छया वायः कुर्य्यादार्त्विज्यं प्रीतिपूर्वकम्” यदृच्छया स्वेच्छया”ति० त० । परार्थस्नाने स्वयमशक्तौ कुशमयवतिमूर्त्तिस्नानेऽपिफलविशेषः प्रा० त० उक्तो यथा “प्रतिकृतिं कुशमयींकृत्वा तीर्थवारिषु मज्जयेत् । यमुद्दिश्य निमज्जेत सोऽ-ष्टभागं फलं लभेत् । मातरं पितरं वापि भातरंसुहृदं गुरुम् । यमुद्दिश्य निमज्जेत द्वादशांशं फलंलभेत्” । “अपुत्रेणैव कर्त्तव्यः पुत्रप्रतिनिधिः सदा ।पिण्डोदकक्रियाहेतोर्यस्मात्तस्मात् प्रयत्नतः” दत्तकमी० ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
