| YouTube Channel

प्रतितालः (pratitAlaH)

 
Apte
English
प्रतितालः [pratitālḥ], A kind of Tāla in music
कान्तारः समराख्यश्च वकुण्ठो वाञ्छितस्तथा कथिताः शङ्करेणैव चत्वारः प्रतितालकाः Saṁgītasāra.
शब्दकल्पद्रुमः
Sanskrit
प्रतितालः,
पुं,
(प्रतिगतस्तालम् ।) तालविशेषः ।यथा, सङ्गीतदामोदरे ।“कान्तारः समराख्यश्च वैकुण्ठो वाञ्छितस्तथा ।कथिताः शङ्करेणैव चत्वारः प्रतितालकाः
कान्तारो यथा, --कान्तारः प्रतितालस्तु चन्द्रक्रीडे द्रुतद्वयम् ।दशाक्षरपदेनायं शृङ्गारे वर्त्तते रसे
समराख्यो यथा, --लघुद्रुतौ लघुश्चान्ते नृपताल उदाहृतः ।रुद्रसंख्याक्षरपदः समरे वीरके रसे
वैकुण्ठो यथा, --रुद्रत्रयस्तु वैकुण्ठे प्रतिताले समीरितः ।अर्कसंख्याक्षरैः पादो हास्ये त्रिपुटतालके
वाञ्छितो यथा, --वाञ्छितस्तृतीये ताले लघुरेको द्रुतस्तथा ।त्रयोदशाक्षरैर्युक्तो रसेऽद्भुते प्रकीर्त्तितः