| YouTube Channel

प्रतिग्रहः (pratigrahaH)

 
Apte
English
प्रतिग्रहः [pratigrahḥ], 1 Receiving, accepting.
Receiving or accepting a donation
अयाचितोपपन्ने तु नास्ति दोषः प्रतिग्रहे
The right of receiving or accepting a donation.
The right of receiving gifts (which is a peculiar prerogative of Brāhmaṇas)
अध्यापनमध्ययनं यजनं याजनं तथा दानं प्रतिग्रहं चैव ब्राह्मणानामकल्पयत्
Ms.*
1.88
4.86
Y.*
1.118
A gift, present, donation
राज्ञः प्रतिग्रहो$यम्
Ś.*
1
Śi.*
14.35.
A receiver (of a gift).
Kind or friendly reception
प्रतिग्रहाय पाण्डूनां प्रेषयामास कौरवान्
Mb.
* 1.27.12.
Favour, grace.
Marrying
तत्प्रतिग्रहलाभाय जित्वा भूपान् स्वयंवरे Bm. 1.456.
Listening to.
The rear of an army.
A spitting-pot.
The sun near the moon's node.
a chambervessel (for sick persons).
a grasper, seizer
केश- प्रतिग्रहः
=
barber.
Apte 1890
English
प्रतिग्रहः 1 Receiving, accepting.
2 Receiving or accepting a donation.
3 The right of receiving or accepting a donation.
4 The right of receiving gifts (which is a peculiar prerogative of Brāhmaṇas)
Ms. 1. 88
4. 86
Y. 1. 118.
5 A gift, present, donation
राज्ञः प्रतिग्रहोऽयं Ś. 1
Śi. 14. 35.
6 A receiver (of a gift).
7 Kind or friendly reception.
8 Favour, grace.
9 Marrying.
10 Listening to.
11 The rear of an army.
12 A spitting-pot.
13 The sun near the moon's node.
Apte Hindi
Hindi
प्रतिग्रहः
पुं*
- प्रति+ग्रह्+अप्
"ग्रहण करना, स्वीकार करना"
प्रतिग्रहः
पुं*
- प्रति+ग्रह्+अप्
दान ग्रहण करना या स्वीकार करना
प्रतिग्रहः
पुं*
- प्रति+ग्रह्+अप्
दान ग्रहण करने का अधिकार
प्रतिग्रहः
पुं*
- प्रति+ग्रह्+अप्
उपहार ग्रहण करने का अधिकार
प्रतिग्रहः
पुं*
- प्रति+ग्रह्+अप्
"भेंट, उपहार, दान"
प्रतिग्रहः
पुं*
- प्रति+ग्रह्+अप्
ग्रहण करने वाला
प्रतिग्रहः
पुं*
- प्रति+ग्रह्+अप्
सादर स्वागत
प्रतिग्रहः
पुं*
- प्रति+ग्रह्+अप्
"अनुग्रह, शान"
प्रतिग्रहः
पुं*
- प्रति+ग्रह्+अप्
पाणिग्रहण
प्रतिग्रहः
पुं*
- प्रति+ग्रह्+अप्
ध्यान पूर्वक सुननासेना का पिछला भाग
प्रतिग्रहः
पुं*
- प्रति+ग्रह्+अप्
पीक दान
Wordnet
Sanskrit
Synonyms:
स्वीकारः, प्रतिपत्तिः, प्रतिग्रहः, प्रतिग्रहणम्, ग्रहणम्, आवानम्, स्वीकरणम्, अङ्गीकारः
noun
अङ्गीकरणस्य क्रिया।
"विवाहस्य वर्षद्वयानन्तरपि वरुणेन स्वपत्न्याः स्वीकारः कृतः।"
Synonyms:
आदानम्, परिग्रहः, प्रतिग्रहः
noun
अन्यस्मात् ग्रहणस्य क्रिया।
"प्रतिवेशिना सह वस्तूनाम् आदानं प्रदानं प्रचलत्येव।"
शब्दकल्पद्रुमः
Sanskrit
प्रतिग्रहः,
पुं,
(प्रतिग्रहणमिति प्रति + ग्रह +“ग्रहवृदृनिश्चिगमश्च ।” ५८ इतिभावे अप् ।) स्वीकरणम् सैन्यपृष्ठम् (प्रति-गृह्णाति निष्ठीवनादिकमिति प्रति + ग्रह +“विभाषा ग्रहः ।” १४३ इति पक्षेअच् ।) पतद्ग्रहः (प्रतिगृह्यते इति प्रति+ ग्रह + अप् ।) द्विजेभ्यो विधिवद्देयम् तद्-ग्रहः ग्रहभेदः इति मेदिनी हे, ३१
*
ब्राह्मणस्यार्थः प्रतिग्रहार्ज्जितः यथा, --“प्रतिग्रहार्जिता विप्रे क्षत्त्रिये शस्त्रनिर्जिताः ।वैश्ये न्यायार्जिताश्चार्थाः शूद्रे शुश्रूषयार्जिताः
”अयाचितप्रतिग्रहे दोषाभावो यथा, --“अयाचितोपपन्ने तु नास्ति दोषः प्रतिग्रहे ।अमृतं तं विदुर्द्देवास्तस्मात्तन्नैव निर्णुदेत्
*
गुरुभृत्यांश्चोज्जिहीर्षुरर्च्चिष्यन् देवतातिथीन् ।सर्व्वतः प्रतिगृह्णीयात् तु तृप्येत् स्वयं ततः
साधुतः प्रतिगृह्णीयादथवासाधुतो द्विजः ।गुणवानल्पदोषश्च निर्गुणो हि निमज्जति
एवं तस्करवृत्त्या वा कृत्वा भरणमात्मनः ।कुर्य्याद्विशुद्धिं परतः प्रायश्चित्तं द्विजोत्तमः
”इति गारुडे २१५ अध्यायः
*
तीर्थे प्रतिग्रहनिषेधो यथा, --“सुवर्णमथ युक्तात्मा तथैवान्यप्रतिग्रहम् ।स्वकार्य्ये पितृकार्य्ये वा देवताभ्यर्च्चनेऽपि वा
निष्फलं तस्य तत्तीर्थं यावत्तद्धनमश्नुते ।अतस्तीर्थे गृह्णीयात् पुण्येष्वायतनेषु
”इति कौर्म्मे ३३ अध्यायः
*
राजादितः प्रतिग्रहनिषेधो यथा, --“न राज्ञः प्रतिगृह्णीयान्न शूद्रपतितादपि ।न चान्यस्मादशक्तश्च निन्दितान् वर्जयेद-बुधः
”इति कौर्म्मे उपविभागे १५ अध्यायः
*
विद्यारहितस्य प्रतिग्रहनिषेधो यथा, --“हेम भूमिं तिलान् गाश्च अविद्वानाददाति यः ।भस्मीभवति सोऽह्नाय दातुः स्यान्निष्फलञ्च तत्
तस्मादविद्वान्नादद्यादल्पशोऽपि प्रतिग्रहम् ।विषमन्त्रापरिज्ञानी विषेणाल्पेन नश्यति
*
गर्हितप्रतिग्रहादिर्यथा, --“हस्तिकृष्णाजिनाद्यास्तु गर्हिता ये प्रतिग्रहाः ।सद्विप्रास्तान्न गृह्णीयुर्गृह्णन्तस्तु पतन्ति ते
कृष्णाजिनप्रतिग्राही हयानां शुक्रविक्रयी ।नवश्राद्धस्य भोक्ता भूयः पुरुषो भवेत्
*
आपदि गर्हितप्रतिग्रहकर्त्तव्यता यथा, --“प्रोक्तप्रतिग्रहाभावे प्रोक्तायां बृहदापदि ।विप्रोऽश्नन् प्रतिगृह्णन् वा यतस्ततोऽपि नाघभाक्
गुर्व्वादिपोष्यवर्गार्थं देवाद्यर्थञ्च सर्व्वशः ।प्रत्यादद्याद्द्विजो यस्तु भृत्यर्थमात्मनोपि
दधिक्षीराज्यमांसानि गन्धपुष्पाम्बुमत्स्यकान् ।शय्याशनासनं शाकं प्रत्याख्येयं कर्हिचित्
अपि दुष्कृतकर्म्मभ्यः समादद्यादयाचितम् ।पतितेभ्यस्तथान्येभ्यः प्रतिग्राह्यमसंशयम्
*
प्रतिग्रहीतुं शक्तस्य लभ्यमानपरित्यागेन स्वर्गोभवति यथा, --“शक्तः प्रतिग्रहीतुं यो वेदवृत्तः सुसंयतः ।लभ्यमानं गृह्णाति स्वर्गस्तस्य सुनिश्चितम्
*
प्रतिग्रहमृणं वापि याचितं यो यच्छति ।तत्कोटिगुणितग्रस्तो मृतो दासत्वमृच्छति
*
दाता स्मरेद्दानं प्रतिग्राही याचते ।तावुभौ नरकं यातौ दाता चैव प्रतिग्रही
*
वदन्ति कवयः केचिद्दानप्रतिग्रहौ प्रति ।प्रत्यक्षं लिङ्गमेवेह दातृयाचकयोर्ब्बलम्
दातृहस्तो भवेदूर्द्ध्वमधस्तिष्ठेत् प्रतिग्रही ।यद्दानं प्रतिगृह्णीयात् प्रतिग्राही ब्रजत्यधः
*
प्रतिग्रहप्रकारो यथा, --“भूमेः प्रतिग्रहं कुर्य्याद्भूमिं कृत्वा प्रदक्षिणम् ।करे गृह्य तथा कन्यां दासदास्यौ तथा द्विजाः
करं हि हृदि विन्यस्य धर्म्म्यो ज्ञेयः प्रतिग्रहः ।आरुह्य गजस्योक्तः कर्णे चाश्वस्य कीर्त्तितः
तथा चैकशफानाञ्च सर्व्वेषामविशेषतः ।प्रतिगृह्णीत गां शृङ्गे पुच्छे कृष्णाजिनं तथा
आरण्याः पशवः सर्व्वे ग्राह्याः पुच्छे विचक्षणैः ।प्रतिग्रहमथोष्ट्रस्य आरुह्यैव तु पादुके
ईशायान्तु रथो ग्राह्यश्च्छत्रे दण्डन्तु धारयेत् ।द्रुमाणामथ सर्व्वेषां मूले न्यस्तकरो भवेत्
आयुधानि समादाय तथा भूष्य विभूषणम् ।धर्म्मध्वजौ तथा स्पृष्ट्वा प्रविश्य तथा गृहम्
अवतीर्य्य तु सर्व्वाणि जलस्थानानि चैव हि ।उपविश्य शय्यायां स्पर्शयित्वा करेण वा
द्रव्याण्यन्यान्यथादाय स्पृष्ट्वा वा ब्राह्मणं पठेत् ।कन्यादाने तु पठेद्द्रव्याणि पृथक् पृथक्
प्रतिग्रहा द्विजश्रेष्ठ तत्रैवान्तर्भवन्ति ते ।द्रव्याणामथ सर्व्वेषां द्रव्यसंश्रयणान्नरः
वाचयेज्जलमादाय करेण प्रतिग्रहम् ।प्रतिग्रहस्य यो धर्म्मं जानाति द्विजो विधिम्
द्रव्यस्तैन्यसंयुक्तो नरकं प्रतिपद्यते ।अथापि हि प्रवक्ष्यामि विधिं सर्व्वं विशेष-णात्
*
वाजिप्रदानेन प्रतिग्रहे वादातृग्रहीत्रोरपि येन पुण्यम् ।स्वर्गं प्रजायेत शृणुध्वमेतत्गृहीतयोर्वै विधिवद्द्विजेन्द्र
कुर्य्यादसौ पञ्चदिनानि पूर्व्वंपञ्चोपचारैर्युतविष्णुपूजाम् ।कुष्माण्डमन्त्रैर्घृतदुग्धहोमंयद्ग्राम इत्यादि मरुत्त्वतीयम्
सोङ्कारपूर्व्वादिभिरन्वितं तंप्रत्येकमष्टौ जुहुयाद्द्विजेन्द्रः ।सूर्य्येण मन्त्रेण तद्वदष्टौषष्ट्या प्रयुक्तं त्रिशतं जुहोति
कुर्य्याच्च गायत्त्रिजपं सहस्रंपश्चात् प्रगृह्यं तुरगं द्विजाग्र्यः ।तद्वत्तथात्मानमयं नयेद्धिदातापि चैतद्व्रतमाविदध्यात्
द्बिजाग्र्यवत् प्राक्तनपापशुद्ध्यैद्बावप्यमू सूर्य्यजनं लभेताम्
”इति बृहत्पाराशरे अध्यायः
*
अपि विष्णुधर्म्मोत्तरे ।“बीजानां मुष्टिमादाय रत्नान्यादाय सर्व्वतः ।वस्त्रं दशान्तमादद्यात् परिधाय तथा पुनः
आरुह्योपानहौ चैव यानमारुह्य पादुके ।प्रतिग्रहीता सावित्रीं सर्व्वत्रैव प्रकीर्त्तयेत्
ततस्तु सार्द्धं द्रव्येण तस्य द्रव्यस्य दैवतम् ।समापयेत्ततः पश्चात् कामस्तुत्या प्रतिग्रहम्
विधिं धर्म्म्यमथो ज्ञात्वा यस्तु कुर्य्यात् प्रतिग्रहम् ।दात्रा सह तरत्येव नानादुर्गाण्यसौ द्विजः
”ब्रह्मपुराणे ।“ब्राह्मणः प्रतिगृह्णीयात् वृत्त्यर्थं साधुतस्तथा ।अव्यश्वमपि मातङ्गतिललौहांश्च वर्ज्जयेत्
कृष्णाजिनतिलग्राही भूयः पुरुषो भवेत्
शय्यालङ्कारवस्त्रादि प्रतिगृह्य मृतस्य ।नरकान्न निवर्त्तन्ते धेनुं तिलमयीं तथा
”तथा ।“ब्रह्महत्या सुरापानमपि स्तेयं तरिष्यति ।आतुराद्यद्गृहीतन्तु तत् कथं वै तरिष्यति
”एतदादिद्रव्यदानं प्रतिग्रहीतुर्दोषजनकम्
*
एतदनिच्छवे विद्यादिरहितत्वेनासमर्थाय चदातुरपि दोषजनकमाह दक्षः ।“न केवलं हि तद्याति शेषमस्य नश्यति ।”तद्दत्तद्रव्यम् अतएव याज्ञवल्क्यः ।“विद्यातपोभ्यां हीनेन तु ग्राह्यः प्रतिग्रहः ।ग्रह्णन् प्रदातारमधो नयत्यात्मानमेव
”अधो नरकम्
*
एतद्दानप्रतिग्रहोत्तरमुक्त-तपोजपादिभिरात्मतरणक्षमाय स्वेच्छया प्रति-गृह्णते दानं दोषाय इत्याह विष्णुः ।“एतानि प्रतिगृह्णाति स्वेच्छयाभ्यर्थितो तु ।तस्मै दाने दोषोऽस्ति यस्त्वात्मानन्तु तारयेत्
”तारणप्रकारमाह हारीतः ।“मणिवासोगवादीनां प्रतिग्रहे सावित्र्यष्टसहस्रंजपेत्
*
देवलः ।“प्रतिग्रहं समर्थो हि कृत्वा विप्रो यथाविधि ।निस्तारयति दातारमात्मानञ्च स्वतेजसा
”स्कान्दे ।“वेदाङ्गपारगो विप्रो यदि कुर्य्यात् प्रतिग्रहम् ।न पापेन लिप्येत पद्मपत्रमिवाम्भसा
”महाभारते ।“तीर्थे प्रतिगृह्णीयात् पुण्येष्वायतनेषु ।निमित्तेषु सर्व्वेषु प्रमत्तो भवेन्नरः
”प्रतिग्रहसमर्थस्य तदकरणे फलाधिक्यं यथा ।याज्ञवल्क्यः ।“प्रतिग्रहसमर्थो हि नादत्ते यः प्रतिग्रहम् ।ये लोका दानशीलानां तानाप्नोति पुष्क-लान्
”अपवादमाह एव ।“कुशाः शाकं पयो मत्स्या गन्धाः पुष्पं दधिक्षितिः ।मांसं शय्यासनं धानाः प्रत्याख्येयं वारि
”अन्यच्च ।“शय्यां गृहान् कुशान् गन्धानपः पुष्पं मणीन्दधि ।मत्स्यान् धानाः पयो मांसं शाकञ्चैव निर्णुदेत्
”मणीन् विषादिनिवारकान् ।“एधोदकं फलं मूलमन्नमभ्युद्धृतञ्च यत्
”अभ्युद्धृतमभ्यर्थ्य दत्तम् ।“सर्व्वतः प्रतिगृह्णीयात् मध्वथोभयदक्षिणाम्
”किमिति प्रत्याख्येयमित्याह मनुः ।“अयाचिताहृतं ग्राह्यमपि दुष्कृतकर्म्मणः ।अन्यत्र कुलटाषण्डपतितेभ्यस्तथा द्विषः
”प्रतिग्रहमात्रे प्रयोगसारे ।“प्रतिग्रहं गृह्णीयादात्मभोगविधित्सया ।देवतातिथिपूजार्थं यत्नाद्धनमुपार्ज्जयेत्
”अङ्गिराः ।“कुटुम्बार्थे द्बिजः शूद्रात् प्रतिगृह्णीत याचितम् ।क्रत्वर्थमात्मने चैव हि याचेत कर्हिचित्
”यज्ञार्थं याचने निन्दामाह याज्ञवल्क्यः ।“चाण्डालो जायते यज्ञकरणाच्छूद्रभिक्षितात्
”इति शुद्धितत्त्वम्