| YouTube Channel

प्रजननं (prajananaM)

 
शब्दकल्पद्रुमः
Sanskrit
प्रजननं,
क्ली,
(प्रजायतेऽनेनेति प्र + जन् + ल्युट् ।)योनिः (यथा, सुश्रुते २३ ।“स्किक्पायुप्रजननललाटगण्डौष्ठपृष्ठकर्णफल-कोषोदरजत्रुमुखाभ्यन्तरसंस्थाः सुखरोपणीय-व्रणाः
प्र + जन् + भावे ल्युट् ।) जन्म ।इति मेदिनी ने, १९१
(यथा, राजतर-ङ्गिण्याम् ६१ ।“वेधाः परां धुरमुपैति परीक्षकाणा-मिक्षोः फलप्रजननेन कृतश्रमो यः
”धात्रीकर्म्म यथा, सुश्रुते शारीरस्थाने १०अध्याये “ततः कृतोपधाने मृदुविस्तीर्णेशयने स्थितामाभुग्नसक्थीमुत्तानामशङ्कनीया-श्चतस्रः स्त्रियः परिणतवयसः प्रजननकुशलाःकर्त्तितनखाः परिचरेयुरिति
”) प्रगमः इतिविश्वः
(यथा, महाभारते १२० ३७ ।“तस्मात् प्रहेष्याम्यद्य त्वां हीनः प्रजननात्स्वयम् ।सदृशात् श्रेयसो वा त्वं विद्ध्यपत्यं यशस्विनि !
”प्रजनयतीति प्र + जन + ल्युः प्रजोत्पादके, त्रि यथा, वाजसनेयसंहितायाम् १९ ४८ ।“इदं हविः प्रजननं मेऽस्तु
”)