| YouTube Channel

प्रच्छः (pracchaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“छो छेदने”@} 2 3 छायकः-यिका, 4 छायकः-यिका, 5 चिच्छासकः-यिका, 6 चाच्छायकः-यिका
छाता-त्री, छाययिता-त्री, चिच्छासिता-त्री, चाच्छायिता-त्री
7 छ्यन्-न्ती, छाययन्-न्ती, चिच्छासन्-न्ती
-- छास्यन्-न्ती-ती, छाययिष्यन्-न्ती-ती, चिच्छासिष्यन्-न्ती-ती
-- -- छाययमानः, छाययिष्यमाणः, --चाच्छायमानः, चाच्छायिष्यमाणः
8 काष्ठच्छाः-काष्ठच्छौ-काष्ठच्छाः
-- -- 9 10 छितम्-छितः-छितवान् छायितः, चिच्छासितः, चाच्छायितः-तवान्
छातम्-छातः-छातवान् छायितः, चिच्छासितः, चाच्छायितः-तवान्
11 काष्ठच्छः, 12 छायः, 13 काष्ठप्रच्छायः, 14 प्रच्छः, छायः, चिच्छासुः, 15 चाच्छः
छातव्यम्, छाययितव्यम्, चिच्छासितव्यम्, चाच्छायितव्यम्
छानीयम्, छायनीयम्, चिच्छासनीयम्, चाच्छायनीयम्
16 छेयम्, छाय्यम्, चिच्छास्यम्, चाच्छाय्यम्
17 ईषच्छानः-दुश्छानः-सुच्छानः
-- -- छायमानः, छाय्यमानः, चिच्छास्यमानः, चाच्छाय्यमानः
छायः, छायः, चिच्छासः, चाच्छायः
छातुम्, छाययितुम्, चिच्छासितुम्, चाच्छायितुम्
छातिः-छितिः, 18 आच्छा-छायना, चिच्छासा, चाच्छाया
छनम्, छायनम्, चिच्छासनम्, चाच्छायनम्
छात्वा-छित्वा, छाययित्वा, चिच्छासित्वा, चाच्छायित्वा
19 प्रच्छाय, प्रच्छाय्य, प्रचिच्छास्य, प्रचाच्छाय्य
20 छायम्२, छात्वा २, छित्वा २, छायम्२, छाययित्वा २, चिच्छासनम् २, चिच्छासित्वा २, चाच्छायम्
चाच्छायित्वा
21 इति यप्रत्ययः।
छ्यति, छायते वा इति छाया = प्रतिरूपम्।]] छाया, 22 इति गक्प्रत्ययः।
छ्यति इति छागः = अजः।]] छागः।
प्रासङ्गिक्यः
01
=>
(५७७)
02
=>
(४-दिवादिः-११४६। सक। अनि। पर।)
03
=>
[[१। ‘आदेच उपदेशेऽशिति’ (६-१-४५) इत्यात्वे, ‘आतो युक् चिण्कृतोः’ (७-३-३३) इति युगागमः। एवं णप्रत्यये, घञि, णमुलि बोध्यम्।]]
04
=>
[[२। णौ परतः आत्वे, ‘शाच्छासाह्वाव्यावेपां युक्’ (७-३-३७) इति पुगपवादः युगागमः। एवं ण्यन्ते सर्वत्र ज्ञेयम्।]]
05
=>
[[३। सनि, ‘सन्यङोः’ (६-१-९) इति द्वित्वे, ‘अभ्यासविकारेषु बाध्याबाधकभावो नास्ति’ (परिभाषा-६८) इति वचनात् पूर्वं ह्रस्वः। अनन्तरं ‘सन्यतः’ (७-४-७९) इतीत्वे, तुकि, श्चुत्वे चिच्छासकः इति रूपम्। एवं सन्नन्ते सर्वत्र प्रक्रिया ज्ञेया।]]
06
=>
[[४। अत्रापि, अभ्यासविकारेषु बाध्यबाधकभावाभावेन पूर्वमभ्यासह्रस्वे, ‘दोर्घोऽकितः’ (७-४-८३) इति दीर्घे, ‘दीर्घात्’ (६-१-७५) इति तुकि श्चुत्वे चाच्छायकः इति रूपम्। एवं यङन्ते सर्वत्र प्रक्रिया बोध्या।]]
07
=>
[[५। शतरि, आत्वाभावे, ‘दिवादिभ्यः--’ (३-१-६९) इति विकरणप्रत्यये श्यनि, ‘ओतः श्यनि’ (७-३-७१) इति ओकारस्य लोपे रूपम्। स्त्रियाम्, ‘शपूश्यनो- नित्यम्’ (७-१-८१) इति नित्यं नुम्।]]
08
=>
[[६। आत्वे, ‘क्विप् च’ (३-२-७६) इति कर्मण्युपपदे क्विपि रूपम्।]]
09
=>
[पृष्ठम्०५४७+ २७]
10
=>
[[१। ‘शाच्छोरन्यतरस्याम्’ (७-४-४१) इति तकारादौ किति प्रत्यये परतः इत्वविकल्पः। तेन रूपद्वयम्। एवं, क्तिनि, क्त्वाप्रत्यये ज्ञेयम्।]]
11
=>
[[२। ‘आतोऽनुपसर्गें कः’ (३-२-३) इति कर्मण्युपपदे कः। ‘आतो लोप इटि च’ (६-४-६४) इत्याकारलोपः।]]
12
=>
[[३। ‘श्याऽऽद्व्यधाश्रु--’ (३-१-१४१) इति कर्तरि णप्रत्यये युगागमः।]]
13
=>
[[४। उपसर्गसमभिव्याहारात्, कप्रत्ययाभावे, ‘कर्मण्यण्’ (३-२-१) इत्यणि युगागमे रूपम्।]]
14
=>
[[५। ‘आतश्चोपसर्गे’ (३-१-१३६) इति कर्तरि कप्रत्ययः। आकारलोपः।]]
15
=>
[[६। यङन्तात् पचाद्यचि (३-१-१३४), ‘न धातुलोप--’ (१-१-४) इति सूत्रस्य प्रत्याख्यानपक्षे, अकारस्य पृथगल्लोपे ‘यङोऽचि च’ (२-४-७४) इति यकारमात्रस्य लुकि, अकारलोपस्य स्थानिवद्भावेन, अजाद्यार्धधातुकङित्परकत्वात् ‘आतो लोप इटि च’ (६-४-६४) इत्याकारलोपे रूपम्।]]
16
=>
[[७। ‘अचो यत्’ (३-१-९७) इति यति, ‘ईद्यति’ (६-४-६५) इति आकारस्य ईकारे गुणः।]]
17
=>
[[८। ‘आतो युच्’ (३-३-१२८) इति ईषदाद्युपपदेषु खलपवादो युच्।]]
18
=>
[[९। ‘आतश्चोपसर्गें’ (३-३-१०६) इति स्त्रियां भावादावङ्।]]
19
=>
[[१०। ‘अन्तरङ्गानपि विधीन् बहिरङ्गो ल्यब् बाधते’ (परिभाषा-५५) इति वचनात् पूर्वं ल्यबादेशः। तादिकित्प्रत्ययपरकत्वाभावात् वैकल्पिकमित्त्वं प्रवर्तते।]]
20
=>
[पृष्ठम्०५४८+ २५]
21
=>
[[१। ‘माच्छाससिसूभ्यो यः’ [द। उ। ८-१२]
22
=>
[[२। ‘छापूञ्खडिभ्यो गक्’ [द। उ। ३-६९]
1 {@“प्रच्छ ज्ञीप्सायाम्”@} 2 किरादिः।
3 प्रच्छकः-च्छिका, प्रच्छकः-च्छिका, 4 पिपृच्छिषकः-षिका, 5 परीपृच्छकः-च्छिका
6 प्रष्टा-प्रष्ट्री, प्रच्छयिता-त्री, पिपृच्छिषिता-त्री, परीपृच्छिता-त्री
7 पृच्छन्-न्ती-ती, प्रच्छयन्-न्ती, पिपृच्छिषन्-न्ती
-- 8 प्रक्ष्यन्-न्ती-ती, प्रच्छयिष्यन्, पिपृच्छिषिष्यन्-न्ती-ती
-- 9 सम्पृच्छमानः, 10 आपृच्छमानः, 11 प्रच्छयमानः, 12 आपिपृच्छिषमाणः, संपिपृच्छिषमाणः, परीपृच्छ्यमानः
सम्प्रक्ष्यमाणः-आप्रक्ष्यमाणः, प्रच्छयिष्यमाणः, आपिपृच्छिषिष्यमाणः- सम्पिपृच्छिषिष्यमाणः, परीपृच्छिष्यमाणः
13 14 प्राट्, शब्दप्राट्-प्राड्-प्राशौ-प्राशः
-- -- 15 पृष्टम्-पृष्टः-पृष्टवान्, प्रच्छितः, पितृच्छिषितः, परीपृच्छितः-तवान्
प्रच्छः, प्रच्छः, 16 पिपृच्छिषुः, परीपृच्छः
प्रष्टव्यम्, प्रच्छयितव्यम्, पिपृच्छिषितव्यम्, परीपृच्छितव्यम्
प्रच्छनीयम्, प्रच्छनीयम्, पिपृच्छिषणीयम्, परीपृच्छनीयम्
प्रच्छ्यम्, प्रच्छ्यम्, पिपृच्छिष्यम्, परीपृच्छ्यम्
ईषत्प्रच्छः-दुष्प्रच्छः-सुप्रच्छः
-- -- पृच्छ्यमानः, प्रच्छ्यमानः, पिपृच्छिष्यमाणः, परीपृच्छ्यमानः
प्रच्छः, 17 प्रश्नः, प्रच्छः, पिपृच्छिषः, परीपृच्छः
प्रष्टुम्, प्रच्छयितुम्, पिपृच्छिषितुम्, परीपृच्छितुम्
पृष्टिः, 18 पृच्छा, प्रच्छना, पिपृच्छिषा, परीपृच्छा
प्रच्छनम्, प्रच्छनम्, पिपृच्छिषणम्, परीपृच्छनम्
पृष्ट्वा, प्रच्छयित्वा, पिपृच्छिषित्वा, परीपृच्छित्वा
19 आपृच्छ्य, सम्प्रच्छ्य, प्रपिपृच्छिष्य, प्रपरीपृच्छ्य
प्रच्छम् २, पृष्ट्वा २, प्रच्छम् २, प्रच्छयित्वा २, पिपृच्छिषम् २, पिपृच्छिषित्वा २, परीपृच्छम्
परीपृच्छित्वा २। 20
प्रासङ्गिक्यः
01
=>
(१०६६)
02
=>
(६-तुदादिः-१४१३। सक। अनि। पर।)
03
=>
[[१। ‘प्रछ’ इत्येव धातुः। तत्र, ‘छे च’ (६-१-७३) इति ह्रस्वस्य तुकि, तस्य श्चुत्वेन चकारः सर्वत्र ज्ञेयः।]]
04
=>
[[२। सन्नन्तात् ण्वुलि, ‘किरश्च पञ्चभ्यः’ (७-२-७५) इतीडागमे, ‘रुदविदमुषग्रहि- स्वपिप्रच्छः संश्च’ (१-२-८) इति सनः कित्त्वे, ‘ग्रहिज्यावयिव्यधिवष्टि- विचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च’ (६-१-१६) इति सम्प्रसारणे षत्वे रूपम्। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
05
=>
[[३। यङन्ते सर्वत्र यङ्निमित्तकं सम्प्रसारणं भवति। पश्चात् ‘रीगृत्वत इति वक्तव्यम्’ (वा। ७-४-९०) इति रीक् अभ्यासस्य।]]
06
=>
[[४। तृचि, ‘व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः’ (८-२-३६) इति षत्वे, ‘ष्टुना ष्टुः’ (८-४-४१) इति ष्टुत्वे रूपम्। एवं तव्यदादिष्वपि ज्ञेयम्।]]
07
=>
[[५। शतरि, ‘तुदादिभ्यः--’ (३-१-७७) इति विकरणप्रत्ययः शः। तस्य सार्व- धातुकत्वेन ङिद्वद्भावात् सम्प्रसारणे रूपमेवम्। एवं शानजन्तेऽपि प्रक्रिया ज्ञेया।]]
08
=>
[[६। स्यप्रत्यये, ‘व्रश्च--’ (८-२-३६) इत्यादिना षत्वे, ‘षढोः कः सि’ (८-२-४१) इति षकारस्य ककारे, षत्वे रूपमेवम्।]]
09
=>
[[७। ‘विदिप्रच्छिस्वरतीनामुपसंख्यानम्’ (वा। १-३-२९) इति वार्तिकेन सम्पूर्वकादस्मा- दात्मनेपदं, शानच् भवति।]]
10
=>
[[८। ‘आङि नुप्रच्छ्योरुपसंख्यानम्’ (वा। १-३-२१) इति आंङ्पूर्वकादस्माच्छानच्।]]
11
=>
[[आ। ‘कृतगुरुतरहारच्छेदमालिङ्ग्य पत्यौ परिशिथिलितगात्रे गन्तुमापृच्छमाने।’ शि। व। ११। ३८।]]
12
=>
[[९। ‘पूर्ववत् सनः’ (१-३-६२) इति संपूर्वकात्, आङ्पूर्वकाच्च सन्नन्तेऽपि शानच्।]]
13
=>
[पृष्ठम्०९०१+ २५]
14
=>
[[१। ‘क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजु श्रीणां दीर्घोऽसम्प्रसारणं च’ (वा। ३-२-१७८) इत्यनेन क्विपि दीर्घेऽसंप्रसारणे विहिते सति, ‘च्छ्वोः शूडनुनासिके च’ (६-४-१९) इति क्विब्निमित्तके शकारे, तस्य षत्वे जश्त्वे चर्त्वे रूपमेवम्।]]
15
=>
[[२। क्तप्रत्यये सम्प्रसारणादिकं सर्वं यथायथमूह्यम्।]]
16
=>
[[आ। ‘उक्तं पिपृच्छिषूणां वो मा स्म भूत सुषुप्सवः।।’ भ। का। ७। ९८।]]
17
=>
[[३। भावेऽकर्तरि कारके, ‘यजयाचयतविच्छप्रच्छरक्षो नङ्’ (३-३-९०) इति नङ्प्रत्ययः। ‘च्छ्वोः शूड्--’ (६-४-१९) इति सतुक्कस्य छकारस्य शकारः। ‘प्रश्ने चासन्नकाले’ (३-२-११७) इति सूत्रकारनिर्देशप्रामाण्यात् सम्प्रसारणं भवति। ‘शात्’ (८-४-४४) इति निषेधात् श्चुत्वं न।]]
18
=>
[[४। भिदादेः (३-३-१०४) आकृतिगणत्वात् अङि, सम्प्रसारणे पृच्छा इति रूपमिति आत्रेयादीनां मतमिति मा। धा। वृत्तिः।]]
19
=>
[[५। ल्यपि, सम्प्रसारणे रूपमेवम्। ‘च्छ्वोः शूठ्--’ (६-४-१९) इति शकारादेशो भवति, ल्यपो बहिरङ्गत्वात्।]]
20
=>
[पृष्ठम्०९०२+ २६]