| YouTube Channel

प्रचेताः (pracetAH)

 
Wordnet
Sanskrit
Synonyms:
प्रचेताः
noun
पौराणिकः ऋषिविशेषः।
"कथानुसारेण प्रचेताः वाल्मिकेः पिता आसीत्।"
Synonyms:
वरुणः, प्रचेताः, पाशी, यादसांपतिः, अप्पतिः, यादःपतिः, अपांपतिः, जम्बुकः, मेघनादः, जलेश्वरः, परञ्जयः, दैत्यदेवः, जीवनावासः, नन्दपालः, वारिलोमः, कुण्डली, रामः, सुखाशः, कविः, केशः
noun
एका वैदिकी देवता या जलस्य अधिपतिः अस्ति इति मन्यते।
"वेदेषु वरुणस्य पूजनस्य विधानम् अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
प्रचेताः, [स्]
पुं,
(प्रचेततीति प्र + चित +असुन् ।) वरुणः इत्यमरः ६४
(यथा, रघौ ८० ।“हविषे दीर्घसत्रस्य सा चेदानीं प्रचेतसः ।भुजङ्गपिहितद्वारं पातालमधितिष्ठति
”मुनिविशेषः (यथा, मनौ ३५ ।“मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ।प्रचेतसं वशिष्ठञ्च भृगुं नारदमेव
”प्रकृष्टं चेतोऽस्य ।) प्रकृष्टहृदि, त्रि इतिमेदिनी
प्राचीनवर्हिराजपुत्त्रः यथा, --“प्राचीनवर्हिर्भगवान् सर्व्वशस्त्रभृतांवरः ।समुद्रतनयायां वै दश पुत्त्रानजीजनत्
प्रचेतसस्ते विख्याता राजानः प्रथितौजसः
”इति कौर्म्मे १२ अध्यायः
अपि ।“प्राचीनवर्हिस्तत्पुत्त्रः पृथिव्यामेकराड्बभौ ।उपयेमे समुद्रस्य लवणस्य वै सुताम्
तस्मात् सुषाव सामुद्री दश प्राचीनवर्हिषः ।सर्व्वे प्रचेतसो नाम धनुर्व्वेदस्य पारगाः
अपृथग्धर्म्मचरणास्तेऽतप्यन्त महत्तपः ।दश वर्षसहस्राणि समुद्रसलिले शयाः
प्रजापतित्वं संप्राप्य भार्य्या तेषाञ्च मारिषा ।अभवद्भयशापेन तस्यां दक्षोऽभवत् ततः
”इति गारुडे अध्यायः
(पकृष्टज्ञानयुक्ते, त्रि यथा, ऋग्वेदे २३ ।“देवाश्चित् ते असुर्य्यप्रचेतसो बृहस्पते यज्ञियंभागमानशुः
”“हे बृहस्पते ! प्रचेतसः प्रकृष्टज्ञानास्ते त्वदीयादेवाश्चिद् देवा अपि ।” इति तद्भाष्येसायनः
)