| YouTube Channel

प्रचरीचृत्य (pracarIcRtya)

 
कृदन्तरूपमाला
Sanskrit
1 {@“चृती हिंसाग्रन्थनयोः”@} 2 ‘-- श्रन्थनयोः’ इति सिद्धान्तकौमुदीपाठः।
श्रन्थनम् = विस्रंसनम्।
3 चर्तकः-र्तिका, चर्तकः-र्तिका, 4 चिचर्तिषकः-षिका, चिचृत्सकः-त्सिका, 5 चरीचृतकः-तिका
6 चर्तिता-त्री, चर्तयिता-त्री, चिचर्तिषिता-चिचृत्सिता-त्री, चरीचृतिता-त्री
7 चृतन्-न्ती-ती, चर्तयन्-न्ती, चिचर्तिषन्-चिचृत्सन्-न्ती
-- 8 चर्तिष्यन्-चर्त्स्यन्-न्ती-ती, चर्तयिष्यन्-न्ती-ती, चिचर्तिषिष्यन्-चिचृत्सिष्यन्-न्ती-ती
-- -- चर्तयमानः, चर्तयिष्यमाणः, -- चरीचृत्यमानः, चरीचृतिष्यमाणः
चृत्-चृतौ-चृतः
-- -- -- 9 चृत्तम् 10 -चृत्तः-चृत्तवान्, चर्तितः, चिचर्तिषितः-चिचृत्सितः, चिरीचृतितः-तवान्
11 चृतः, चर्तः, चिचर्तिषुः-चिचृत्सुः, चरीचृतः
चर्तितव्यम्, चर्तयितव्यम्, चिचर्तिषितव्यम्-चिचृत्सितव्यम्, चरीचृतितव्यम्
चर्तनीयम्, चर्तनीयम्, चिचर्तिषणीयम्-चिचृत्सनीयम्, चरीचृतनीयम्
12 चर्त्यम्, चर्त्यम्, चिचर्तिष्यम्-चिचृत्स्यम्, चरीचृत्यम्
ईषच्चर्तः-दुश्चर्तः-सुचर्तः
-- -- 13 चृत्यमानः, चर्त्यमानः, चिचर्तिष्यमाणः-चिचृत्स्यमानः, चरीचृत्यमानः
चर्तः, चर्तः, चिचर्तिषः-चिचृत्सः, चरीचृतः
चर्तितुम्, चर्तयितुम्, चिचर्तिषितुम्-चिचृत्सितुम्, चरीचृतितुम्
चृत्तिः, चर्तना, चिचर्तिषा-चिचृत्सा, चरीचृता
चर्तनम्, चर्तनम्, चिचर्तिषणम्-चिचृत्सनम्, चरीचृतनम्
चर्तित्वा, चर्तयित्वा, चिचर्तिषित्वा-चिचृत्सित्वा, चरीचृतित्वा
प्रचृत्य, प्रचर्त्य, प्रचिचर्तिष्य-प्रचिचृत्स्य, प्रचरीचृत्य
चर्तम् २, चर्तित्वा २, चर्तम् २, चर्तयित्वा २, चिचर्तिषम् २-चिचृत्सम् २, चिचर्तिषित्वा २-चिचृत्सित्वा २, चर्डीचृतम्
चरीचृतिता २।
प्रासङ्गिक्यः
01
=>
(५५३)
02
=>
(६-तुदादिः-१३२४। सक। सेट्। पर।)
03
=>
[[२। ‘पुगन्तलघूपधस्य च’ (७-३-८६) इति गुणः। एवं क्ङिद्भिन्ने सर्वत्र लघूपधगुणो बोध्यः। एवं ण्यन्ते सर्वत्र गुणो ज्ञेयः।]]
04
=>
[[३। ‘सेऽसिचि कृतचृतछृदतृदनृतः’ (७-२-५७) इति सन इड्विकल्पः। इट्पक्षे, लघूपधगुणे चिचर्तिषकः इति रूपम्। इडभावपक्षे, ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वात् गुणः। एवं सन्नन्ते सर्वत्र रूपद्वयं ज्ञेयम्।]]
05
=>
[[४। ‘रीगृदुपधस्य च’ (७-४-९०) इति यङन्तेऽभ्यासस्य रीगागमः। एवं यङन्ते सर्वत्र रीगागमो बोध्यः। यकाराकारयोः, ‘यस्य हलः’ (६-४-४९) इति लोपेना- पहारः।]]
06
=>
[पृष्ठम्०५२७+ २४]
07
=>
[[१। ‘तुदादिभ्यः--’ (३-१-७७) इति शः। तस्य ङिद्वद्भावादङ्गस्य गुणो न। स्त्रियाम्, ‘आच्छीनद्योर्नुम्’ (७-१-८०) इति नुम्विकल्पः।]]
08
=>
[[२। ‘सेऽसिचि कृतचृत--’ (७-२-५७) इति इड्विकल्पः। तेन रूपद्वयम्।]]
09
=>
[[३। ‘श्वीदितो निष्ठायाम्’ (७-२-१४) इतीण्णिषेधः। यद्यपि सकारादावार्धधातुके, ‘सेऽसिचि कृतचृत--’ (७-२-५७) इत्यनेन इड्विकल्पनात्, ‘यस्य विभाषा’ (७-२-१५) इत्यनेन निष्ठायामिण्णिषेधः सिद्धः तथापि, धातोरीदित्करणेन, ‘यस्य विभाषा’ (७-२-१५) इति प्राप्तस्येण्णिषेधस्यानित्यत्वं बोध्यते। तेन, धावितम्, पतितः इत्यादिषु निष्ठायाम् इड्घटितरूपसिद्धिः। आद्ये, ‘धावु’ धातोरुदित्त्वेन, क्त्वायां विकल्पितेट्कत्वेन निष्ठायाम्, ‘यस्य विभाषा’ (७-२-१५) इतीण्णिषेधेन भाव्यम्। अन्त्ये, ‘तनिपतिदरिद्रातिभ्यः सनो वा इड् वक्तव्यः’ (वा। ७-४-५४) इति पतधातोस्सनि विकल्पितेट्कत्वात्, निष्ठायां इण्णिषेधो न्याय्यः। अनित्यत्वेन समाधेयम्। ‘द्वितीयाश्रितातीतपतित- गतात्यस्तप्राप्तापन्नैः’ (२-१-२४) इत्यत्र पतित इति निपातनमप्यस्यैवानुकूलम्।]]
10
=>
[[आ। ‘पीयूषोभितहेमकुम्भविशुभद्वक्षोजशुम्भत्तमा दृब्धस्रग्धरचृत्तकैश्यविधितां शोभां जुडन्त्योऽजुनन्।’ धा। का। २-७५।]]
11
=>
[[४। ‘इगुपधज्ञा--’ (३-१-१३५) इति कर्तरि कप्रत्ययः।]]
12
=>
[[५। ‘ऋदुपधाच्चाकॢपिचृतेः’ (३-१-११०) इत्यत्र ‘अचृतेः’ इति पर्युदासात् ‘ऋहलोर्ण्यत्’ (३-१-१२४) इति ण्यति ‘चर्त्यम्’ इति भवति।]]
13
=>
[पृष्ठम्०५२८+ २१]