| YouTube Channel

प्रचण्डः (pracaNDaH)

 
शब्दकल्पद्रुमः
Sanskrit
प्रचण्डः,
पुं,
(प्रकर्षेण चण्डः उग्रगुणत्वात् ।)श्वेतकरवीरः इति मेदिनी
(वत्सप्रीनाम-नृपतेः सुनन्दागर्भजातः पुत्त्रभेदः यथा, मार्कण्डेये ११८ ।“वलीवलाकश्चण्डश्च प्रचण्डश्च सुविक्रमः
”)
प्रचण्डः, त्रि, (प्रकर्षेण चण्डः ।) दुर्व्वहः दुर्धर्षः ।प्रगल्भः (यथा, आर्य्यासप्तशत्याम् ३३० ।“नाहं वदामि सुतनु त्वमशीला वा प्रचण्ड-चरिता वा ।प्रेमस्वभावसुलभं भयमुदयति मम तु हृदयस्य
”)प्रतापी इति मेदिनी नानार्थरत्नमाला
(यथा, भागवते २१ ।“ततः प्रादुष्कृतं तेजः प्रचण्डं सर्व्वतोदिशम् ।प्राणापदमभिप्रेक्ष्य विष्णुं जिष्णुरुवाच
”)