| YouTube Channel

प्रगृहय्य (pragRhayya)

 
Kridanta Forms
Sanskrit
गृह (गृ꣡ह॒ ग्रहणे - चुरादिः - सेट्)
ल्युट् = गृहणम्
अनीयर् = गृहणीयः - गृहणीया
ण्वुल् = गृहकः - गृहिका
तुमुँन् = गृहयितुम्
तव्य = गृहयितव्यः - गृहयितव्या
तृच् = गृहयिता - गृहयित्री
क्त्वा = गृहयित्वा
ल्यप् = प्रगृहय्य
क्तवतुँ = गृहितवान् - गृहितवती
क्त = गृहितः - गृहिता
शानच् = गृहयमाणः - गृहयमाणा
कृदन्तरूपमाला
Sanskrit
1 {@“गृह ग्रहणे”@} 2 “ण्यन्तस्य ग्रहणे गृहेर्गृहयते, तत्रानदन्ताद् गृहेः भूवादेः शपि गर्हते, श्नि तु पदे गृह्णात्यगृह्णीत च।
गर्हेर्वा णिचि निन्दनार्थविषये गर्हेत् तथा गर्हयेद् भूवादेः शपि कुत्सनार्थविषये गर्हेर्भवेद् गर्हते।।” 3 इति देवः।
4 5 गृहकः-हिका, 6 जिगृहयिषकः-षिका
गृहयिता-त्री, जिगृहयिषिता-त्री
7 गृहयमाणः, जिगृहयिषमाणः
गृहयिष्यमाणः, जिगृहयिषिष्यमाणः
8 प्रघृट्-प्रघृड्-प्रगृहौ-प्रगृहः
-- गृहितम्-तः- 9 तवान्, जिगृहयिषितः-तवान्
गृहः, 10 गृहयालुः, 11 जिगृहयिषुः
गृहयितव्यम्, जिगृहयिषितव्यम्
गृहणीयम्, जिगृहयिषणीयम्
गृहयम्, जिगृहयिष्यम्
ईषद्गृहः-दुर्गृहः-सुगृहः
-- गृहयमाणः, जिगृहयिष्यमाणः
गृहः, जिगृहयिषः
गृहयितुम्, जिगृहयिषितुम्
12 गृहणा, जिगृहयिषा
गृहणम्, जिगृहयिषणम्
गृहयित्वा, जिगृहयिषित्वा
13 प्रगृहय्य, प्रजिगृहयिष्य
14 गृहम् २, गृहयित्वा २, जिगृहयिषम्
जिगृहयिषित्वा २।
प्रासङ्गिक्यः
01
=>
(४२५)
02
=>
(१०-चुरादिः-१८९९। सक। सेट्। अदन्तः, आगर्वीयः)
03
=>
(श्लो। १९४)
04
=>
[पृष्ठम्०४१६+ २६]
05
=>
[[१। अस्य धातोरदन्तत्वादल्लोपस्य स्थानिवद्भावेन लघूपधगुणो न। एवं सर्वत्र।]]
06
=>
[[२। ण्यन्तात् सनि णेरयादेशे, ‘सन्यतः’ (७-४-७९) इतीत्त्वे ‘जिगृहयिषकः’ इति रूपम्।]]
07
=>
[[३। ‘आ गर्वादात्मनेपदिनः’ (गणसूत्रं चुरादौ) इति ण्यन्तादात्मनेपदमेव।]]
08
=>
[[४। ‘हो ढः’ (८-२-३१) इति ढत्वे पदान्तत्वनिमित्तकः भष्भावः। स्थानिवत्त्वं तु ‘पूर्वत्रासिद्धे न--’ (वा। १-१-५७) इति निषेधान्न।]]
09
=>
[[आ। ‘तच्चाकर्ण्य सरोषमुत्पदयते स्मोत्तुङ्गगञ्चं हरिः प्रोत्तिष्ठन् असिचर्मणी गृहितवान् कंसोऽपि मृग्योऽसताम्।’ धा। का। ३-५८।]]
10
=>
[[५। ‘स्पृहिगृहिपतिदयि--’ (३-२-१५८) इति ताच्छीलिक आलुच्। ‘अयामन्ताल्वा- य्येत्न्विष्णुषु च’ (६-४-५५) इति णेरयादेशः।]]
11
=>
[[B। ‘दीनधीः तपसा हिमशैले दृक्पथं पुरहराद् गृहयालोः। आददे वरमथो विजयौ द्वावन्तरेण युधि पाण्डवरोधम्।।’ चम्पूभारते ५-७९।]]
12
=>
[[६। ‘ण्यासश्रन्थो युच्’ (३-३-१०७) इति युच् स्त्रियाम्।]]
13
=>
[[७। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
14
=>
[पृष्ठम्०४१७+ २१]