| YouTube Channel

प्रख्यः (prakhyaH)

 
शब्दकल्पद्रुमः
Sanskrit
प्रख्यः, त्रि, (प्रख्यातीति प्र + ख्या ख्यातौ +कः ।) उत्तरपदे तुल्यार्थवाचकः यथा, --“स्युरुत्तरपदे प्रख्यः प्रकारः प्रतिमो निभः
”इति हेमचन्द्रः
(यथा, महाभारते २०८ ३१ ।“द्विपक्षगरुडप्रख्यैर्द्वारैः सौधैश्च शोभितम् ।गुप्तमभ्रचयप्रख्यैर्गोपुरैर्म्मन्दरोपमैः
”श्रेष्ठः यथा, तत्रैव १२ २०४ ।“ज्ञानमुत्पद्यते पुंसां क्षयात् पापस्य कर्म्मणः ।यथादर्शतले प्रख्ये पश्यत्यात्मानमात्मनि
”)