| YouTube Channel

प्रकृष्टं (prakRSTaM)

 
शब्दकल्पद्रुमः
Sanskrit
प्रकृष्टं, त्रि, (प्रकृष्यते इति प्र + कृष + क्त ।)प्रकर्षयुक्तम् तत्पर्य्यायः मुख्यम् प्रमुखम् ३प्रवर्हम् वर्य्यम् वरेण्यम् प्रवरम् पुरो-गम् अनुत्तरम् प्राग्रहरम् १० प्रवेकम् ११प्रधानम् १२ अग्रेसरम् १३ उत्तमम् १४अग्रम् १५ ग्रामणीः १६ अग्रणीः १७ अग्रि-मम् १८ जात्यम् १९ अग्र्यम् २० अनुत्तमम् २१अनवरार्द्ध्यम् २२ प्रेष्ठम् २३ परार्द्ध्यम् २४परम् २५ इति हेमचन्द्रः ७४
(यथा, मनुः १७० ।“यदा प्रकृष्टा मन्येत सर्व्वास्तु प्रकृतीर्भृशम् ।अत्युच्छ्रितं तथात्मानं तदा कुर्व्वीत विग्रहम्
”आकृष्टम् यथा, देवीभागवते ८२ ।“रथाङ्गेन तदा च्छिन्ने विष्णुना प्रभविष्णुना ।जघनोपरि वेगेन प्रकृष्टे शिरसी तयोः
”)