| YouTube Channel

प्रकीर्णः (prakIrNaH)

 
शब्दकल्पद्रुमः
Sanskrit
प्रकीर्णः,
पुं,
(प्रकीर्य्यते दुर्गन्धमनेनेति प्र + कॄ +क्तः ।) पूतिकरञ्जः इति राजनिर्घण्टः
प्रकीर्णः, त्रि, (प्रकीर्य्यते स्मेति प्र + कॄ + क्तः ।)विक्षिप्तः विस्तृतः यथा, --“प्रकीर्णभाण्डामनवेक्ष्यकारिणींसदैव भर्त्तुः प्रतिकूलवादिनीम् ।परस्य वेश्माभिरतामलज्जा-मेवंविधां स्त्रीं परिवर्ज्जयामि
”इति लक्ष्मीचरित्रम्
नानाप्रकारमिश्रितः यथा, --“प्रकीर्णः पुष्पाणां हरिचरणयोरञ्जलिरयम्
”इति वेणीसंहारः