| YouTube Channel

प्रकरणं (prakaraNaM)

 
Apte 1890
English
प्रकरणं 1 Treating, explaining, discussing.
2 (a) A subject, topic, department, a subject (of representation)
कतमत्प्रकरणमाश्रित्य Ś. 1. (b) A head or subject of treatment. (c) A province or department.
3 A section, chapter or any smaller division of a work.
4 An opportunity, occasion.
5 An affair, a matter.
6 An introduction, prologue.
7 Relation.
8 Doing much or well.
9 A species of drama with invented or fictitious plot
as the मृच्छकटिक, मालतीमाधव, पुष्पभूषित &c. The S. D. thus defines it:
भवेत् प्रकरणे वृत्तं लौकिकं कविकल्पितं शृंगारोंऽगी नायकस्तु विप्रोऽमात्योऽथवा वणिक् सापायधर्मकामार्थपरो धीरप्रशांतकः 511.
शब्दकल्पद्रुमः
Sanskrit
प्रकरणं,
क्ली,
(प्रक्रियते अस्मिन्निति प्र + कृ +आधारे ल्युट् ।) प्रस्तावः (वृत्त्रान्तः इत्यमरः ।३ ६३
यथा, महाभारते २०४ २१ ।“एतत्प्रकरणं राजन्नधिकृत्य युधिष्ठिर ! ।पतिव्रतानां नियतं धर्म्मञ्चावहितः शृणु
”)अभिनेयप्रकारः रूपकभेदः इति हेमचन्द्रः
ग्रन्थसन्धिः इति त्रिकाण्डशेषः
पादः सतु एकार्थावच्छिन्नसूत्रसमूहः इति मुग्धबोध-टीकायां दुर्गादासः
(नाटकोक्तप्रकरणंतद्भेदादिर्यथा, साहित्यदर्पणे २४० -- २४१ ।“भवेत् प्रकरणे वृत्तं लौकिकं कविकल्पितम् ।शृङ्गारोऽङ्गी नायकस्तु विप्रोऽमात्योऽथवाबणिक्
सापायधर्म्मकामार्थपरो धीरप्रशान्तकः
विप्रनायकं यथा मृच्छकटिकम् अमात्यनायकंमालतीमाधवम् बणिङ्नायकं पुष्पभूषितम् ।नायिका कुलजा क्वापि वेश्या क्वापि द्वयंक्वचित् ।तेन भेदास्त्रयस्तस्य तत्र भेदस्तृतीयकः
कितवद्यूतकारादिविटचेटकसङ्कुलः
कुलस्त्री पुष्पभूषिते वेश्या तु रङ्गदत्ते द्बेअपि मृच्छकटिके अस्य नाटकप्रतिकृतित्वात्शेषं नाटकवत्
”)