| YouTube Channel

प्यायः (pyAyaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“ओ प्यायी वृद्धौ”@} 2 प्रायेणायमाङ्पूर्वः।
प्यायकः-यिका, प्यायकः-यिका, 3 पिप्यायिषकः-षिका, 4 पेपीयकः-यिका
प्यायिता-त्री, प्याययिता-त्री, पिप्यायिषिता-त्री, पेपीयिता-त्री
-- 5 आप्याययन्-न्ती
आप्याययिष्यन्-न्ती-ती
-- आप्यायमानः, आप्याययमानः, पिप्यायिषमाणः, पेपीयमानः
आप्यायिष्यमाणः, आप्याययिष्यमाणः, पिप्यायिषिष्यमाणः, पेपीयिष्यमाणः
6 सुप्याः-सुप्यौ-सुप्यः
-- -- -- 7 पीनः-पीनवान्, 8 आप्यानः 9 -प्रप्यानः 10, 11 आपीनम् 12 13, प्यायितः, पिप्यायिषितः, पेपीयितः-तवान्
प्यायः, 14 प्यायिता 15, 16 पिप्यिवान्, 17 18 आपीः, प्यायः, पिप्यायिषुः, पेप्यः
प्यायितव्यम्, प्याययितव्यम्, पिप्यायिषितव्यम्, पेपीयितव्यम्
19 प्रप्यायनीयम्, प्रप्यायनीयम्, पिप्यायिषणीयम्, पेपीयनीयम्
आप्याय्यम्, प्याय्यम्, पिप्यायिष्यम्, पेपीय्यम्
ईषत्प्यायः-दुष्प्यायः-सुप्यायः
-- -- प्याय्यमानः, प्याय्यमानः, पिप्यायिष्यमाणः, पेपीय्यमानः
आप्यायः, प्यायः, पिप्यायिषः, पेपीयः
आप्यायितुम्, आप्याययितुम्, पिप्यायिषितुम्, पेपीयितुम्
20 प्याया, 21 आप्यायना, पिप्यायिषा, पेपीया
आप्यायनम्, 22 प्रप्यायनम्, पिप्यायिषणम्, पेपीयनम्
प्यायित्वा, प्याययित्वा, पिप्यायिषित्वा, पेपीयित्वा
आप्याय्य, प्रप्याय्य, प्रपिप्यायिष्य, प्रपेपीय्य
प्यायम् २, प्यायित्वा २, प्यायम् २, प्याययित्वा २, पिप्यायिषम् २, पिप्यायिषित्वा २, पेपीयम्
पेपीयित्वा २।
प्रासङ्गिक्यः
01
=>
(१०६४)
02
=>
(१-भ्वादिः-४८८। अक। सेट्। आत्म।)
03
=>
[[१। सन्नन्तात् ण्वुलि, अभ्यासे हलादिशेषे, इडागमे रूपम्।]]
04
=>
[[२। यङन्ते सर्वत्र, ‘लिड्यङोश्च’ (६-१-२९) इति पीभावे, द्विर्वचने अभ्यासे गुणश्चेति ज्ञेयम्।]]
05
=>
[[३। चित्तवत्कर्तृकत्वे परस्मैपदमेव। अचित्तवत्कर्तृकत्वे तु आत्मनेपदमेव।]]
06
=>
[[४। क्विपि वलि लोपे रूपमेवम्।]]
07
=>
[[५। ‘प्यायः पी’ (६-१-२८) इति विकल्पेन प्रकृतेः पीभावः। ‘श्वीदितो निष्ठायाम्’ (७-२-१४) इतीण्निषेधः। ‘ओदितश्च’ (८-२-४४) इति निष्ठानत्वम्।]]
08
=>
[[६। ‘प्यायः पी’ (६-१-२८) इत्यत्र व्यवस्थितविभाषाश्रयणात्, सोपसर्गात् पीभावो न। तेनात्र वलि लोपे निष्ठानत्वे रूपं ज्ञेयम्।]]
09
=>
[[आ। ‘यदाप्यानं हिमोस्रेण भनक्त्युपवनं कपिः।।’ भ। का। ९। २।]]
10
=>
(चन्द्रमाः)
11
=>
[[७। ‘आङ्पूर्वादन्धूधसोरिति वक्तव्यम्’ (वा। ६-१-२८) इति वचनात् अन्धूधसो- र्विशेष्ययोः आङुपसृष्टादस्माद्धातोः पीभावे निष्ठानत्वे रूपं ज्ञेयम्।]]
12
=>
[[B। ‘आपीनभारोद्वहनप्रयत्नात् गृष्टिर्गुरुत्वाद् वपुषो नरेन्द्रः।’ रघुवंशे २। १८।]]
13
=>
(अन्धूः, ऊधो वा)
14
=>
[[८। धातोर्यकारान्तत्वेन ‘न यः’ (३-२-१५२) इति युचो निषेधात्, तच्छीलादिषु कर्तृषु औत्सर्गिकः ‘तृन्’ (३-२-१३५) इति तृन्नेव।]]
15
=>
[[C। ‘नावैत्याप्यायितारं किं कमलानि रविं कपिः।’ भ। का। ७। १७।]]
16
=>
[[९। लिटः क्वसौ, ‘लिड्यङोश्च’ (६-१-२९) इति पी भावे, ‘वस्वेकाजाद्घसाम्’ (७-२-६७) इतीडागमे यणादेशे रूपम्।]]
17
=>
[पृष्ठम्०८९८+ २५]
18
=>
[[१। ‘अन्येभ्योऽपि दृश्यते’ (३-२-१७८) इत्यत्र बाहुलकात् ‘ध्याप्योः सम्सारणं च’ (भाष्यम्) इति वचनात् आङ्पूर्वादस्मात् क्विपि, सम्प्रसारणे, ‘लोपो व्योर्वलि’ (६-१-६६) इति यलोपे रूपमेवमिति प्र। सर्वस्वे। प्रकृतसूत्रे ‘ध्यायतेः सम्प्रसारणं च’ इत्येव भाष्ये दृश्यते। ‘भट्टपादसम्मतोऽयं पाठः स्यात् दाक्षिणात्यः साधुः।’ इति प्र। स। टीका (पु। ६८)।]]
19
=>
[[२। उपसर्गस्थान्निमित्तात् परस्य अच उत्तरस्य कृत्स्थस्य नकारस्य ‘न भाभूपूकमि- गमिप्यायीवेपाम्’ (८-४-३४) इति णत्वनिषेधः।]]
20
=>
[[३। ‘गुरोश्च हलः’ (३-३-१०३) इति स्त्रियाम् अकारप्रत्ययः।]]
21
=>
[[आ। ‘छायाविशेषैः प्रचितैस्तदर्हामाप्यायनामारचयन्ति वृक्षाः।।’ या। अ। १८। ६७।]]
22
=>
[[४। ‘ण्यन्तभादीनामुपसंख्यानम्’ (वा। ८-४-३४) इति ण्यन्तादुपसर्गस्थान्निमित्तात् परस्य कृत्स्थस्य नस्य णत्वनिषेधः।]]
1 {@“प्यैङ् वृद्धौ”@} 2 प्यायकः-यिका, प्यापकः-पिका, पिप्यासकः-सिका, पाप्यायकः-यिका
प्याता-त्री, प्यापयिता-त्री, पिप्यासिता-त्री, पाप्यायिता-त्री
-- प्यापयन्-न्ती, प्यापयिष्यन्-न्ती-ती
-- 3 प्यायमानः, 4 प्यापयमानः, पिप्यासमानः, पाप्यायमानः
प्यास्यमानः, प्यापयिष्यमाणः, पिप्यासिष्यमाणः, पाप्यायिष्यमाणः
प्याः-प्यौ-प्यः
-- -- 5 प्यानम्- 6 नः, प्यानवान्, प्यापितः, पिप्यासितः, पाप्यायितः-तवान्
7 आप्यायः, 8 पीवा- 9 पीवरी, प्यापः, पिप्यासुः, पाप्यः
प्यातव्यम्, प्यापयितव्यम्, पिप्यासितव्यम्, पाप्यायितव्यम्
प्यानीयम्, प्यापनीयम्, पिप्यासनीयम्, पाप्यायनीयम्
प्येयम्, प्याप्यम्, पिप्यास्यम्, पाप्याय्यम्
10 ईषत्प्यानः-दुष्प्यानः-सुप्यानः
-- -- प्यायमानः, प्याप्यमानः, पिप्यास्यमानः, पाप्याय्यमानः
प्यायः, प्यापः, पिप्यासः, पाप्यायः
प्यातुम्, प्यापयितुम्, पिप्यासितुम्, पाप्यायितुम्
प्यातिः, 11 आप्या, प्यापना, पिप्यासा, पाप्याया
प्यानम्, प्यापनम्, पिप्यासनम्, पाप्यायनम्
प्यात्वा, प्यापयित्वा, पिप्यासित्वा, पाप्यायित्वा
प्रप्याय, प्रप्याप्य, प्रपिप्यासिष्य, प्रपाप्याय्य
प्यायम् २, प्यात्वा २, प्यापम् २, प्यापयित्वा २, पिप्यासम् २, पिप्यासित्वा २, पाप्यायम्
पाप्यायित्वा २। 12
प्रासङ्गिक्यः
01
=>
(१०६५)
02
=>
(१-भ्वादिः-९६४। अक। अनि। आत्म।)
03
=>
[पृष्ठम्०८९९+ २५]
04
=>
[[१। अचित्तवत्कर्तृकत्वे शानच्। चित्तवत्कर्तृकत्वे तु ‘अणावकर्मकात्--’ (१-३-८८) इति ण्यन्ताच्छतैव।]]
05
=>
[[२। ‘संयोगादेरातो धातोर्यण्वतः’ (८-२-४३) इति निष्ठानत्वे रूपम्।]]
06
=>
[[आ। ‘दयस्व मां देव कृपाम्बुशीत प्यानौजसा त्रातजगत्त्रयं त्वाम्।’ धा। का। २। ३७।]]
07
=>
[[३। ‘श्याऽऽद्--’ (३-१-१४१) इत्यादिना कर्तरि णप्रत्यये युगागमः।]]
08
=>
[[४। ‘आतो मनिन्--’ (३-२-७४) इत्यनेन बाहुलकात् क्वनिप्प्रत्यये, ‘ध्याप्योः सम्प्रसारणं च’ (भाष्यम्-३-२-१७८) इति प्रक्रियासर्वस्वानुसारिभाष्य- वाक्येन सम्प्रसारणे रूपम्। स्त्रियाम्, ‘वनो च’ (४-१-७) इति ङीब्रेफौ भवतः।]]
09
=>
[[B। ‘जघ{??}मलघुपीवरोरु कृच्छ्रादुरुनिबिरीसनितम्बभारखेदि।’ शि। व। ७। २०।]]
10
=>
[[५। ईषदाद्युपपदेषु, ‘आतो युच्’ (३-३-१२८) इति युच्प्रत्ययः। खलोऽप्रवादः।]]
11
=>
[[६। ‘आतश्चोपसर्गे’ (३-३-१०६) इत्यङ्।]]
12
=>
[पृष्ठम्०९००+ २४]