| YouTube Channel

पौष्यः (pauSyaH)

 
Wordnet
Sanskrit
Synonyms:
पौष्यः
noun
एकः राजपुत्रः - करवीरपुरस्य राज्ञः पुत्रः
"महाभारते पौष्यस्य उल्लेखः कृतः"
शब्दकल्पद्रुमः
Sanskrit
पौष्यः,
पुं,
(पूष्णोऽपत्यमिति पूषन् + ष्यञ् ।)पूषपुत्त्रः करवीरपुरस्य राजा तस्यपुत्त्रः शिवांशजश्चन्द्रशेखरः यथा, --“पूष्णः पुत्त्रोऽभवत् पौष्यः सर्व्वशास्त्रार्थपारगः ।स पुत्त्रहीनो राजाभूत् पौष्यो नृपतिसत्तमः
ततः पुत्त्रार्थिनं भूपं प्रसन्नो वृषभध्वजः ।ब्रह्मदत्तफलं हस्ते कृत्वेदं तमुवाच
इदं फलं ब्रह्मदत्तं विभज्य नृपते ! त्रिधा ।भोजयेस्ताः स्वजायास्त्रं प्रहृष्टः शुद्धमानसः
ततः फले स्वयं देवः प्रविवेश वृषध्वजः ।तत्क्षणात्तत् फलं भूतं त्रिभागं स्वयमेव हि
ततः समुचिते काले प्राप्ते ताभिस्तु भक्षितम् ।तत् फलं नृपशाद्र्दूल ! गर्भाश्चाप्याहिताः शुभाः
सम्पूर्णे गर्भकाले तु गर्भेभ्यः समजायत ।खण्डत्रयं पृथक् राजा यथा भर्गेण भाषितम्
तच्च खण्डत्रयं पौष्यो यथास्थानं नियोज्य ।एकं पिण्डं चकाराशु तत्र पुत्त्रो व्यजायत
तस्य नामाकरोद्राजा ब्राह्मणैः स्वैः पुरोहितैः ।चन्द्रशेखर इत्येवं कान्त्या चन्द्रमसः समः
ब्रह्मावर्त्ताह्वये रम्ये करवीराह्वये पुरे ।दृशद्वतीनदीतीरे राजा भूत्वा मुमोद
”इति कालिकापुराणे ४६ अध्यायात् सङ्कलितः
(नृपभेदः तु गुरुदक्षिणार्थमागताय उत-ङ्काय कुण्डले दत्तवान् यथा, महाभारते ।१ ११२ ।“तमुतङ्कं पौष्यः प्रत्युवाच भगवंश्चिरेण पात्र-मासाद्यते भवांश्च गुणवानतिथिस्तदिच्छे श्राद्धंकर्त्तुं क्रियतां क्षण इति
एतद्बिशेषविवरणन्तुतत्रैव द्रष्टव्यम्
)