| YouTube Channel

पौष्टिकं (pauSTikaM)

 
शब्दकल्पद्रुमः
Sanskrit
पौष्टिकं,
क्ली,
(पुष्ट्यै वृद्ध्यै हितमिति पुष्ठि +ठञ् ।) क्षौरसमये गात्राच्छादनवस्त्रविशेषः ।कावाइ इति भाषा
अस्य गुणाः धनचिह्न-त्वम् आयुष्यत्वम् शुचित्वम् रूपविराजन-त्वञ्च इति राजवल्लभः
धन्यं धनचिह्रम् ।बल्यमिति वा पाठः पुष्टिर्धनजनादीनां वृद्धि-रित्यभिधीयते तद्धेतुभूत्रं कर्म्म इति दुर्ग-भञ्जः
(पुष्टिहिते, त्रि यथा, महाभारते ।१२ २९६ २९ ।“सतां वृत्तमधिष्ठाय निहीनानुज्जिहीर्षवः ।मन्त्रवर्ज्जं दुष्यन्ति कुर्व्वाणाः पौष्ठिकीःक्रियाः
”)