| YouTube Channel

पौनर्भवः (paunarbhavaH)

 
Apte Hindi
Hindi
पौनर्भवः
पुं*
- पुनर्भू+अञ्
"पुनर्विवाहिता विधव का पुत्र, प्राचीन हिन्दु-धर्मशास्त्र में स्वीकृत बारह पुत्रों में से एक "
पौनर्भवः
पुं*
- -
स्त्री का दूसरा पति
शब्दकल्पद्रुमः
Sanskrit
पौनर्भवः,
पुं,
(पुनर्भुवोऽपत्यमिति पुनर्भू +“अनृष्यानन्तर्य्ये विदादिभ्योऽञ् ।” ।१०४ इति अञ् ।) द्वादशविधपुत्त्रान्तर्गत-पुत्त्रविशेषः इति जटाधरः
पुनर्भूपुत्त्रः ।स तु भर्त्तृपरित्यक्तविधवयोरन्येनोत्पादितः ।तस्य लक्षणं यथा, --“वा पत्या वा परित्यक्ता विधवा वा स्वयेच्छया ।उत्पादयेत् पुनर्भूत्वा पौनर्भव उच्यते
”इति मानवे १७५
“येति या भर्त्त्रा परित्यक्ता मृतभर्त्तृका वास्वेच्छया अन्यस्य पुनर्भार्य्या भूत्वा यमुत्पादयेत्स उत्पादकस्य पौनर्भवः पुत्त्र उच्यते ।” इतितट्टीकायां कुल्लूकभट्टः
*
भर्त्तृविशेषः ।अक्षतयोन्योर्भर्त्तृपरित्यक्तविधवयोः पौनर्भवेनभर्त्त्रा सह विवाहविधिः एवं कौमारं पति-मुत्सृज्यान्यमाश्रित्यपुनरागतायास्तेन कौमा-रेण भर्त्त्रा सह विवाहविधिर्यथा, --“सा चेदक्षतयोनिः स्याद्गतप्रत्यागतापि वा ।पौनर्भवेन भर्त्त्रा सा पुनः संस्कारमर्हति
”इति मानवे १७६
“सा चेदिति सा स्त्री यद्यक्षतयोनिः सतीअन्यमाश्रयेत्तदा तेन पौनर्भवेन भर्त्त्रा पुनर्व्विवा-हाख्यं संस्कारमर्हति यद्वा कौमारं पतिमुत्-सृज्यान्यमाश्रित्य पुनस्तमेव प्रत्यागता भवतितदा तेन कौमारेण भर्त्त्रा पुनर्व्विवाहाख्यंसंस्कारमर्हति ।” इति तट्टीकायां कुल्लूकभट्टः
*
कन्याविशेषे, स्त्री सप्तविधपौनर्भवाः कन्यावर्ज्जनीयाः यथा, --“सप्त पौनर्भवाः कन्या वर्ज्जनीयाः कुलाधमाः ।वाचा दत्ता मनोदत्ता कृतकौतुकमङ्गला
उदकस्पर्शिता या या पाणिगृहीतिका ।अग्निं परिगता या पुनर्भूप्रभवा या ।इत्येताः काश्यपेनोक्ता दहन्ति कुलमग्निवत्
कृतकौतुकमङ्गला बद्धकङ्कणा उदकस्पर्शिताउदकपूर्व्वं दत्तेति रत्नाकरः ।” इत्युद्वाह-तत्त्वम्