| YouTube Channel

पौत्त्रः (pauttraH)

 
शब्दकल्पद्रुमः
Sanskrit
पौ(त्र)त्त्रः,
पुं,
(पुत्त्रस्यापत्यम् पुत्त्र + “अनृष्या-नन्तर्य्ये विदादिभ्योऽञ् ।” १०४ इतिअञ् ।) पुत्त्रस्य पुत्त्रः नाति इति भाषा
तत्पर्य्यायः नप्ता इति हेमचन्द्रः
यथा, --“पुत्त्रेण लोकाञ्जयति पौत्त्रेणानन्त्यमश्नुते ।अथ पुत्त्रस्य पौत्त्रेण व्रध्नस्याप्नोति पिष्टपम्
”इति दायभागधृतमनुशङ्खलिखितवशिष्ठहारीत-वचनम्