पोष्यपुत्र (poSyaputra)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiपोष्यपुत्रः
पोष्य-पुत्रः -
गोद लोया हुआ पुत्र
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Shabdartha Kaustubha
Kannadaपोष्यपुत्र
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಸಲಹಿದ ಮಾತ್ರದಿಂದ ಪುತ್ರನಾಗಿರುವವನು
व्युत्पत्तिः - > पोष्यः पुत्रः
विस्तारः - > ಇವನು ದತ್ತುಪುತ್ರ. ಪುತ್ರಸಂತಾನವಿಲ್ಲದವನು ತನ್ನ ವಂಶಾಭಿವೃದ್ಧಿಗಾಗಿಯೂ ಮತ್ತು ಉತ್ತರಾದಿಕ್ರಿಯಾದಿಗಳಿಗಾಗಿಯೂ ಯೋಗ್ಯನಾದವನನ್ನು ಸ್ವೀಕಾರ ಮಾಡಿಕೊಳ್ಳಬೇಕು. "अपुत्रेण सुतः कार्यो यादृक् तादृक् प्रयत्नतः । पिण्डोदकक्रियाहेतोर्नामसङ्कीर्तनाय च ॥"
शब्दकल्पद्रुमः
Sanskritपोष्यपुत्त्रः, (पोष्यः पुत्त्रः । पोष्यत्वेनैव पुत्त्रत्वंप्राप्त इत्यर्थः ।) पालनादिना सुतत्वप्राप्तःयथा, ब्रह्मवैवर्त्ते गणपतिखण्डे १४ अध्याये ।“अधुना कृत्तिकानाञ्च षण्णां तत्पोष्यपुत्त्रकः ।तन्नाम चक्रुस्ताः प्रेम्णा कार्त्तिकश्चेति कौतु-कात् ॥
”अथ तस्य व्यवस्था ।“तत्राह मनुः ।‘अपुत्त्रेण सुतः कार्य्यो यादृक् तादृक् प्रयत्नतः ।पिण्डोदकक्रियाहेतोर्नामसंकीर्त्तनाय च ॥
’अत्रिश्च ।‘अपुत्रेणैव कर्त्तव्यः पुत्त्रप्रतिनिधिः सदा ।पिण्डोदकक्रियाहेतोर्यस्मात्तस्मात् प्रयत्नतः ॥
’शौनकः ।‘अपुत्त्रो मृतपुत्त्रो वा पुत्त्रार्थं समुपोष्य च ॥
’इति । तेन पुत्त्रोत्पत्त्या ।‘ज्येष्ठेन जातमात्रेण पुत्त्री भवति मानवः ।पितॄणामनृणश्चैव स तस्माल्लब्धुमर्हति ॥
’इति मनुवचनावगत ऋणपरिहारेऽपि तत्पुत्त्र-मरणे पिण्डोदकाद्यर्थं पुनः पुत्त्रकरणमावश्यकम् ।अत्र पुत्त्रपदं पौत्त्रप्रपौत्त्रयोरप्युपलक्षणम् । तयो-रपि पिण्डदातृत्ववंशकरत्वाविशेषात् । अन्यथासत्यपि पौत्त्रे मृतपुत्त्रस्य निर्निमित्तपुत्त्रपरि-ग्रहापत्तिरतः पुत्त्रपौत्त्रप्रपौत्त्ररहितस्यैव पुत्त्री-करणमवगम्यते ॥
* ॥
स्त्रिया भर्त्तुरनुज्ञयातदधिकारः । यथाह वशिष्ठः । ‘न स्त्री पुत्त्रंदद्यात् प्रतिगृह्णीयाद्वा अन्यत्रानुज्ञानाद्भर्त्तुः ।’इति ॥
* ॥
प्रतिनिधिरिति स च क्षेत्रजादि-रेकादशविधः । यथाह मनुः ।‘क्षेत्रजादीन् सुतानेतानेकादश यथोदितान् ।पुत्त्रप्रतिनिधीनाहुः क्रियालोपान्मनीषिणः ॥
’बृहस्पतिः ।‘पुत्त्रास्त्रयोदश प्रोक्ता मनुना येऽनुपूर्व्वशः ।सन्तानकारणं तेषामौरसः पुत्त्रिका तथा ॥
आज्यं विना यथा तैलं सद्भिः प्रतिनिधीकृतम् ।तथैकादश पुत्त्रास्तु पुत्त्रिकौरसयोर्व्विना ॥
’तत्रापि कलौ न सर्व्वेषामभ्यनुज्ञानम् ।‘अनेकधा कृताः पुत्त्रा ऋषिभिर्यैः पुरातनैः ।न शक्यास्तेऽधुना कर्त्तुं शक्तिहीनतया नरैः ॥
’इति वचनात् ॥
‘दत्तौरसेतरेषान्तु पुत्त्रत्वेन परिग्नहः ।’इत्याद्यभिधाय ।‘इमान् धर्म्मान् कलियुगे वर्ज्ज्यानाहुर्म्मनीषिणः ।’इति दत्तकेतरप्रतिनिधिनिषेधात् ॥
* ॥
अतोदत्तकविधिर्विविच्यते । तत्र शौनकः ।‘ब्राह्मणनां सपिण्डेषु कर्त्तव्यः पुत्त्रसंग्रहः ।तदभावेऽसपिण्डे वा अन्यत्र तु न कारयेत् ॥
’सपिण्डेष्विति सामान्यश्रवणात् समानासमान-गोत्रेष्वित्यर्थः । तथा च सपिण्डाभावेऽसपिण्डःसगोत्रस्तदभावे भिन्नगोत्रोऽपि ग्राह्य इत्याहशाकलः ।‘सपिण्डापत्यकञ्चैव सगोत्रजमथापि वा ।अपुत्त्रको द्विजो यस्मात् पुत्त्रत्वे परिकल्पयेत् ॥
समानगोत्रजाभावे पालयेदन्यगोत्रजम् ।दौहित्रं भागिनेयञ्च मातृष्वसृसुतं विना ॥
’ इतिअन्यत्र तु न कारयेदिति ब्राह्मणातिरिक्त-क्षत्त्रियादिरसमानजातीयो दत्तको व्यावर्त्त्यते ।यदाह मनुः ।‘माता पिता वा दद्यातां यमद्भिः पुत्त्रमापदि ।सदृशं प्रीतिसंयुक्तं स ज्ञेयो दत्त्रिमः सुतः ॥
’आपदि पुत्त्रप्रतिग्रहीतुरपुत्त्रत्वे सदृशं सजा-तीयं । व्यक्तमाह वृद्धयाज्ञवल्क्यः ।‘सजातीयः सुतो ग्राह्यः पिण्डदाता स ऋक्थ-भाक् ।तदभावे विजातीयो वंशमात्रकरः स्मृतः ॥
’ग्रासाच्छादनमात्रन्तु स लभेत तदृक्थिन इति ।दौहित्रं भागिनेयञ्चेति दौहित्रभागिनेयनिषेधःशूद्रातिरिक्तविषयः । तथा च शौनकः ।‘क्षत्त्रियाणां स्वजातौ च गुरुगोत्रसमेऽपि वा ।वैश्यानां वैश्यजातेषु शूद्राणां शूद्रजातिषु ॥
सर्व्वेषामेव वर्णानां जातिष्वेव न चान्यतः ।दौहित्रो भागिनेयश्च शूद्रैस्तु क्रियते सुतः ॥
ब्राह्मणादित्रये नास्ति भागिनेयः सुतः क्वचित् ॥
’जातिष्वेव न चान्यत इति नियमः सजातीय-सम्भवे विजातीयनिषेधार्थः । अन्यथा प्रागुक्त-कात्यायनविरोधः स्यात् ॥
* ॥
तत्रापि सन्नि-हितसपिण्डेषु सति भ्रातृपुत्त्रे स एव पुत्त्रीकार्य्यइत्याह मनुः ।‘सर्व्वेषामेकजातानामेकश्चेत् पुत्त्रवान् भवेत् ।सर्व्वे ते तेन पुत्त्रेण पुत्त्रिणो मनुरब्रवीत् ॥
’बृहस्पतिः ।“यद्येकजाता बहवो भ्रातरश्च सहोदराः ।एकस्यापि सुते जाते सर्व्वे ते पुत्त्रिणः स्मृताः ॥
”इति । अत्र वचनद्वयेऽपि भ्रातृसुते च पुत्त्र-प्रतिनिधितया कथञ्चित् सम्भवत्यन्यो न प्रतिनिधिः कार्य्य इत्यवगम्यते ॥
* ॥
भर्त्तृवंशमन्तरेणचास्या वंशान्तरासम्भवेन तस्यैव स्ववंशकरत्व-ञ्चेत् यतः समस्तस्यापि पुत्त्रप्रयोजनस्य सम्भवेनसति सपत्नीपुत्त्रे न दत्तकाद्युपादानम् ॥
* ॥
केन पुत्त्रो देय इत्याह शौनकः ।‘नैकपुत्त्रेण कर्त्तव्यं पुत्त्रदानं कदाचन ।बहुपुत्त्रेण कर्त्तव्यं पुत्त्रदानं प्रयत्नतः ॥
’द्विपुत्त्रस्यापि पुत्त्रदाने अपरपुत्त्रनाशे वंश-विच्छेदमाशङ्क्याह बहुपुत्त्रेणेति । स्त्रियास्तुजीवति भर्त्तरि तदनुमते प्रोषिते मृते वा तद-नुज्ञां विनापि । यथा वशिष्ठः । ‘न स्त्री पुत्त्रंदद्यात् प्रतिगृह्णीयाद्वा अन्यत्रानुज्ञानाद्भर्त्तुः ।’इति । अनुमतिश्चाप्रतिषेधेऽपि भवति । अप्रति-षिद्धं परमनुमतं भवतीतिन्यायात् ॥
* ॥
निर-पेक्षदानमाह याज्ञवल्क्यः ।‘दद्यान्माता पिता वा यं स पुत्त्रो दत्तको भवेत् ॥
’तथा ‘मातापितृभ्यामुत्सृष्टस्तयोरन्यतरेण वेति ॥
’अथ पुत्त्रपरिग्रहविधिमाह शौनकः ।‘शौनकोऽहं प्रवक्ष्यामि पुत्त्रसंग्रहमुत्तमम् ।अपुत्त्रो मृतपुत्त्रो वा पुत्त्रार्थं समुपोष्य च ॥
’उपोष्य ग्रहणात् पूर्व्वदिने कृतोपवासः । वृद्ध-गोतमः ।‘वाससी कुण्डले दत्त्वा उष्णीषं चाङ्गुलीयकम् ।आचार्य्यं धर्म्मसंयुक्तं वैष्णवं वेदपारगम् ॥
मधुपर्केण संपूज्य राजानञ्च द्बिजान् शुचीन् ॥
’राज्ञो विप्रकृष्टत्वे ग्रामस्वामिनम् । ‘बन्धूनाहूयसर्व्वांस्तु ग्रामस्वामिनमेव च । इतिस्मरणात् ।द्विजानिति बहुत्वं त्रित्वपर्य्यवसितं कपिञ्जल-न्यायात् ।‘वर्हिः कुशमयञ्चैव पालाशञ्चेध्ममेव च ।एतानाहृत्य बन्धूंश्च ज्ञातीनाहूय यत्नतः ॥
बन्धूनन्नेन सम्भोज्य ब्राह्मणांश्च विशेषतः ।अग्न्याधानादिकं तत्र कृत्वाज्योत्पवनान्तकम् ॥
दातुः समक्षं गत्वा च पुत्त्रं देहीति याचयेत् ।दाने समर्थो दातास्मै यो यज्ञेनेति पञ्चभिः ॥
’दद्यादिति शेषः । बन्धून् आत्ममातृपितृबन्धून् ।ज्ञातीन् सपिण्डान् । तथा ।‘देवस्यत्वेतिमन्त्रेण हस्ताभ्यां परिगृह्य च ।अङ्गादङ्गेत्यृचं जप्त्वा आघ्राय शिशुमूर्द्धनि ।वस्त्रादिभिरलङ्कृत्य पुत्त्रच्छायावहं सुतम् ॥
’पुत्त्रच्छाया पुत्त्रसादृश्यं नियोगादिना स्वयमुत्-पादनयोग्यवमिति यावत् । तथा ।‘नृत्यगीतैश्च वाद्यैश्च स्वस्तिशब्दैश्च संयुतम् ।गृहमध्ये तमाधाय चरुं कृत्वा विधानतः ॥
यस्त्वाहृतेत्यृचा चैव तुभ्यमग्ने त्यृचैकया ॥
सोमो दददित्येताभिः प्रत्यचं पञ्चभिस्तथेति ।’वृद्धगौतमः ।‘पायसं तत्र साज्यञ्च शतसंख्यञ्च होमयेत् ।प्रजापते न त्वदेतानित्युद्दिश्य प्रजापतिम् ॥
’इति ॥
वशिष्ठः । ‘पुत्त्रं प्रतिगृहीष्यन् बन्धूनाहूय राजनिनिवेद्य निवेशनस्य मध्ये व्याहृतिभिर्हुत्वा अदूर-बान्धवं बन्धुसन्निकृष्टमेव गृह्णीयात् । सन्देहेचोत्पन्ने दूरबान्धवं शूद्रमिव स्थापयेत् । विज्ञा-यते ह्येकेन बहूं स्त्रायत इति ।’ निवेशनं गृहम् ।सन्देह इति दूरावस्थितबान्धवस्यात्यन्तदेश-भाषाविप्रकर्षादिना कुलशीलादिसन्देहो भव-त्येव तथात्वे निर्णयपर्य्यन्तं न व्यवहरेत् तत्रहेतुरेकेनेति । बन्धून् पित्रादीन् । एतदन्यतर-विधिरावश्यकः ॥
* ॥
ततश्च शौनकः ।‘दक्षिणां गुरवे दद्याद्यथाशक्ति द्विजोत्तमः ।नृपो राज्यार्द्धमेवाथ वैश्यो वित्तशतत्रयम् ।शूद्रः सर्व्वस्वमेवापि अशक्तश्चेद्यथाबलम् ॥
’राज्यार्द्धमर्द्धराज्योत्पन्नमेकवर्षीयद्रव्यम् । प्रद-द्यादर्द्धराज्योत्थमेकवर्षाहृतं धनमिति वृद्धगौतम-स्मरणात् । उत्तममध्यमाधमभेदेन वित्तानांसुवर्णरजतताम्राणामिति ज्ञेयम् ।‘शतत्रयं नाणकानां सौवर्णमथ राजतम् ।प्रदद्यात्ताम्रमथवा उत्तमादिव्यवस्थया ॥
’इति वृद्धगौतमस्मरणात् ॥
सर्व्वस्वमेकवर्षभृतिलब्धमिति यावत् ॥
* ॥
तैत्तिरीयाणान्तु विधिविशेषमाह बौधायनः ।अथ पुत्त्रपरिग्रहविधिं व्याख्यास्यामः । प्रति-ग्रहीष्यन्नुपकल्पयते द्वे वाससी द्वे कुण्डले अङ्गु-लीयकमाचार्य्यञ्च वेदपारगं कुशमयं वर्हिः-पर्णमयमिध्ममित्यथ बन्धूनाहूय निवेशनस्य मध्येराजनि निवेद्य परिषदि वागारमध्ये ब्राह्मणंवागालम्भेन उपवेश्य पुण्याहस्वस्तिऋद्धिमितिवाचयित्वा यद्देवयजनोल्लेखप्रभृति आप्रणी-ताभ्यः कृत्वा दातुः समक्षं गत्वा मे पुत्त्रं देहीतिभेक्षेत् ददानीतीतर आह तं परिगृह्णीतधर्म्माय त्वा परिगृह्णामि सन्तत्यै त्वा परिगृह्णा-मीत्यथैनं वस्त्रकुण्डलादिभिरलङ्कृत्य परिधान-प्रभृत्यग्निमुखं कृत्वा पक्त्वा जुहोति यस्त्वा हृदाकीरिणा मन्यमान इति पुरोऽनुवाक्यमनुद्ययस्यैवं सुकृते जातवेद इति याज्यया जुहोतिअथ व्याहृतिभिर्हुत्वा स्विष्टिकृत्प्रभृति सिद्ध-माधेनुवरप्रदानात् दक्षिणां ददात्येते च वाससीएते कुण्डले एतच्चाङ्गुरीयकमेवं त्वौरस उत्प-द्यते तुरीयभागे सम्भवतीति आहस्म बौधायनइति ॥
* ॥
एवमुक्तविध्यभावे परिगृहीतस्यतु विवाहोचितधनमात्रभागित्वं न त्वंशभागि-त्वमित्यग्रे वक्ष्यते । तथा च मनुः ।‘गोत्रऋक्थे जनयितुर्न हरेद्दत्त्रिमः सुतः ।गोत्रऋक्थानुगः पिण्डो व्यपैति ददतः स्वधेति ॥
’एतेन दातृधने दानादेव पुत्त्रत्वनिवृत्तिद्वारादत्त्रिमस्य स्वत्वनिवृत्तिर्द्दातृगोत्रनिवृत्तिश्च भव-तीत्युच्यते । तथा च गोत्रादिनिवृत्तेरेव दर्शनात्संस्कुर्य्यात् स्वसुतान् पितेति स्मरणात् ग्रहणा-नन्तरसम्भाव्यमाना एव दत्तकस्य संस्काराःप्रतिग्रहीत्रा कार्य्या न पुनर्जनकेन कृतपूर्व्वाअपि निवर्त्तनीयाः ॥
* ॥
यदि च तत्पूर्व्व-भाविनोऽपि संस्कारा जनकेन न कृतास्तदाबीजगर्भदोषनाशावश्यकत्वेन क्रमानुरोधेन चप्रतिग्रहीत्रैव ते समाधेयाः ॥
* ॥
एवमुप-नयनमात्रकरणेऽपि प्रतिग्रहीतुर्दत्तकपुत्त्रसिद्धिः ।‘अन्यशाखोद्भवो दत्तः पुत्त्रश्चैवोपनायितः ।स्वगोत्रेण स्वशाखोक्तविधिना स स्वशाखभाक् ॥
’इति वशिष्ठस्मरणात् ॥
एतच्चाष्टमाब्दरूपतन्मुख्यकालाभ्यन्तरवर्त्ति-परिग्रहे बोध्यम् । अन्यथा मुख्यकाले अधिकार-योग्यत्वाभावे गौणकाले अनधिकारान्न तत्सिद्धि-रिति ॥
* ॥
अत्र च जनकप्रतिग्रहीत्रोरुभयो-रपि पुत्त्राभिसन्धाने सति दत्तकस्य द्व्यामुष्या-यणत्वेनोभयगोत्रभागित्वं विशेषतो वक्ष्यते ।‘चूडाद्या यदि संस्कारा निजगोत्रेण वै कृताः ।दत्ताद्यास्तनयास्ते स्युरन्यथा दास उच्यते ॥
’एवञ्च चूडाद्या इत्यतद्गुणसंविज्ञानबहु-ब्रीहिणा द्विजातीनामुपनयनलाभः शूद्रस्यविवाहलाभः ॥
* ॥
तथा पैठीनसिः । अथदत्तकक्रीतकृत्रिमपुत्त्रिकापुत्त्राः परपरिग्रहेणा-र्षेण येऽत्र जातास्तेऽसङ्गतकुलीना द्व्यामुष्या-यणा भवन्तीति । आर्षेण ऋष्युक्तेन परि-ग्रहेण । जनकग्रहीत्रोः स्वीकारेण द्व्यासुष्या-यणा भवन्तीत्यर्थः ॥
* ॥
अथ तत्कर्त्तृक-श्राद्धनिर्णयः । तत्र पितुः सपिण्डीकरणान्त-षोडशश्राद्धे दत्तकस्य पूर्व्वगृहीतत्वेऽपि सत्यौ-रसे नाधिकारः । औरसे पुनरुत्पन्ने तेषु ज्यैष्ठंन विद्यते । इति देवलेन ज्येष्ठत्वप्रतिषेधात् ।‘पिण्डदोऽशहरश्चैषां पूर्व्वाभावे परः परः ।’इति याज्ञवल्क्यवचनाच्च । अन्यत्र सर्व्वत्रौरस-वत् । क्षयाहे तु विशेषो यथा जातूकर्णः ।‘औरसक्षेत्रजौ पुत्त्रौ विधिना पार्व्वणेन तु ।प्रत्यब्दमितरे कुर्य्युरेकोद्दिष्टं सुता दश ॥
’इतरे दत्तकादयः ॥
* ॥
अथ दत्तकाशौचादि-निर्णयः । तत्र शुद्धदत्तकस्य तु जनककुले पर-स्परमशौचं नास्त्येव गोत्रनिवृत्त्याशौचनिवृत्ते-रर्थसिद्धव्वात् । द्व्यामुष्यायणस्य तु उभयत्रैवा-शौचमिति । ब्रह्मपुराणे ।‘दत्तकश्च स्वयं दत्तः कृत्रिमः क्रीत एव च ।अपविद्धाश्च ये पुत्त्रा भरणीयाः सदैव ते ॥
भिन्नगोत्राः पृथक्पिण्डाः पृथग्वंशकराःस्मृताः ।जनने मरणे चैव त्र्यहाशौचस्य भागिनः ॥
’पराशरः ।‘भिन्नगोत्रः सगोत्रो वा नीतः संस्कृत्य चेच्छया ।जनने मरणे तस्य त्र्यहाशौचं विधीयते ॥
’तथा ।‘औरसं वर्जयित्वा च सर्व्ववर्णेषु सर्व्वदा ।क्षेत्रजादिषु पुत्त्रेषु जातेषु च मृतेषु च ।अशौचन्तु त्रिरात्रं स्यात् समानमिति निश्चयः ॥
’अथ दत्तकविभागः । मनुः ।‘पुत्त्रान् द्वादश यानाह नृणां स्वायम्भुवो मनुः ।तेषां षड्बन्धुदायादाः षडदायादबान्धवाः ॥
औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च ।गूढोत्पन्नोऽपबिद्धश्च दायादा बान्धवास्तु षट् ॥
कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा ।स्वयं दत्तश्च शौद्रश्च षडदायादबान्धवाः ॥
’बौधायनः ।‘औरसं पुत्त्रिकापुत्त्रं क्षेत्रजं दत्तकृत्रिमौ ।गूढञ्चैवापविद्धञ्च रिक्थभाजः प्रचक्षते ॥
कानीनञ्च सहोढञ्च क्रीतं पौनर्भवन्तथा ।स्वयं दत्तं निषादञ्च गोत्रभाजः प्रचक्षते ॥
’औरस पुत्त्रिकापुत्त्र-क्षेत्रज-कानीन-गूढोत्पन्ना-पविद्ध-सहोढ-पौनर्भव-दत्तक-स्वयमुपागत-कृतक-क्रीतानभिधाय देवलः ।‘एते द्वादश पुत्त्रास्तु सन्तत्यर्थमुदाहृताः ।आत्मजाः परजाश्चैव लब्धा यादृच्छिकास्तथा ॥
तेषां षड्बन्धुदायादाः पूर्व्वेऽन्ये पितुरेव षट् ।विशेषं वापि पुत्त्राणामानुपूर्व्वी विशिष्यते ॥
सर्व्वे ह्यनौरसस्यैते पुत्त्रा दायहराः स्मृताः ।औरसे पुनरुत्पन्ने तेषु ज्यैष्ठं न विद्यते ॥
तेषां सवर्णा ये पुत्त्रास्ते तृतीयांशभागिनः ।हीनास्तमुपजीवेयुर्ग्रासाच्छादनसम्भृताः ॥
’ * ॥
वशिष्ठः । तस्मिंश्चेत् प्रतिगृहीते औरस उत्-पद्यते स चतुर्थभागभागी यदि नाभ्युदयिकेषुप्रथुक्तं स्यात् । स प्रतिगृहीतपुत्त्रः आभ्युदयि-केषु यज्ञादिषु यदि औरसेन प्रयुक्तं न स्यात्प्रभूतं धनमिति शेषः । अतश्च दत्तकग्रहणा-नन्तरमौरसोत्पत्तौ तदौरसचतुर्थांशविधिर्वशि-ष्ठोक्तो दत्तकविषयो ज्ञेयः । तथा देवलकात्या-यनवचने तृतीयांशग्रहणविधिरित्युत्कृष्टगुण-दत्तकविषयो वाच्यः ।‘उपपन्नो गुणैः सर्व्वैः पुत्त्रो यस्य हि दत्त्रिमः ।स हरेतैव तदृकथं सम्प्राप्तोऽप्यन्यगोत्रतः ॥
’इति मनुवचनैकवाक्यत्वात् । गुणैर्जातिविद्या-चारैः । तथा केनापि मुनिना दत्तकस्य बन्धु-दायादत्वमन्येन चादायादत्वमुक्तं तत् गुणवद-गुणवद्भेदेन समाधेयं एवं दत्तकस्य धनग्रहणादौमुनिभेदेन पूर्व्वापरोक्तिवैषम्यं गुणागुणविवेके-नापास्तं एतेनौरसस्य भ्रात्रादिधने येनैव भ्रातृ-त्वादिना सम्बन्धेन अधिकारित्वं तादृशेनैवसम्बन्धेन तादृशदत्तकस्यापि यथासम्भवमुचि-तांशभागित्वमवघेयम् । एवं धनिनः पुत्त्रान्तर-सत्त्वे मृतपितृकदत्तकपौत्त्रस्यापि दत्तको-चितांशभागित्वम् । तदसत्त्वे सर्व्वहरत्वमपीति ।न च पौत्त्रस्य स्वपितृयोग्यांशभागित्वं नियमात्दत्तकग्रहीतुः पितामहौरससत्त्वे तादृशपितृव्य-तुल्यस्यैवांशस्य तद्योग्यत्वात् दत्तकपौत्त्रःपितृव्यतुल्यमेवांशं लभतामिति वाच्यम् । पुत्त्र-कस्य दत्तकत्वे चतुर्थांशः पौत्त्रस्य तु तथात्वेसमानांश इति वैषम्यात् । ततश्च स्वसमान-रूपस्य पितुर्यादृशांशः शास्त्रसिद्धस्तस्यैवस्वपितृयोग्यांशतेति यथोक्तमेव साधु । एवंरीतिः प्रपौत्त्रेऽप्यनुस्मर्त्तव्येति ॥
* ॥
‘औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च ।गूडोत्पन्नोऽपविद्धश्च भागार्हास्तनया इमे ॥
कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा ।स्वयंदत्तश्च दासश्च षडिमे पुत्त्रपांसनाः ॥
अभावे पूर्व्वपूर्व्वेषां परान् समभिषेचयेत् ।पौनर्भवं स्वयंदत्तं दासं राज्ये न योजयेत् ॥
’तथा ।‘न क्षेत्रजादींस्तनयान् राजा राज्येऽभिषेचयेत् ।पितॄणां शोधयेन्नित्यमौरसे तनये सति ॥
’ इति ।एतावता प्रबन्धेनाभिहितो योऽयं क्षेत्रजदत्त-कादीनामौरसेन सह विभागप्रकारः स तुशूद्रस्य न सम्भवति तस्य तु ।‘दास्यां वा दासदास्यां वा यः शूद्रस्य सुतोभवेत् ।सोऽनुज्ञातो हरेदंशमिति धर्म्मो व्यवस्थितः ॥
’इति मनुवचनेन जातोऽपि दास्यां शूद्रेणकामतोऽशहरो भवेत् ।‘मृते पितरि कुर्य्युस्तं भ्रातरस्त्वर्द्धभागिनम् ।अभ्रातृको हरेत् सर्व्वं दुहितणां सुतादृते ॥
’इति याज्ञवल्क्येन च दासीपुत्त्रस्याप्यौरसेनसमांशाभिधानेन पितुरनन्तरं भ्रातृरहितस्यतस्यैव दौहित्रेण सह विभागदर्शनेन च दण्डा-पूपायितं सति पितरि क्षेत्रजदत्तकादीना-मौरसेन समांशोऽसति तु तदर्द्धांशः अन्यशा यत्रच क्षत्रजदत्तकादीनामौरसचतुर्थांशित्वं तत्रतदपेक्षया अत्यन्तविप्रकृष्टाधिकारस्य दासी-पुत्त्रस्यौरससमांशित्वमिति महद्वैषम्यं स्यात्एवं सत्सु क्षेत्रजादिषु सम्नोश्च पत्नीकन्ययो-र्दौहित्राधिकारे कॢप्ताधिकारविधिवाधापत्ति-स्तेन दौहित्रपर्य्यन्ताधिकारिशृङ्खलायां तदेक-तमे सत्यपि न दासीपुत्त्रस्य सर्व्वहरत्वं किन्तुतत्समांशः । अतएव ।‘दत्तपुत्त्रे यथा जाते कदाचित्त्वौरसो भवेत् ।पितुर्वित्तस्य सर्व्वस्य भवेतां समभागिनौ ॥
’इत्यपि वचनं शूद्रविषय एव योजनीयम् ॥
* ॥
अथान्धपङ्गुप्रभृतिपुत्त्राणां धनानधिकारितयातदौरसक्षेत्रजयोरेव पितामहधनभागित्वश्रुतेर्नतद्गृहीतदत्तकपुत्त्रादेः पितामहधनाधिकारःकिन्तु भरणमात्रं अन्धादिभार्य्याणां भरणविधा-नेन तद्भरणस्य दण्डापूपायितत्वात् । तथा अन्ध-पङ्ग्वादीननधिकारिपुत्त्रानभिधायाह ।‘औरसक्षेत्रजास्त्वेषां निर्द्दोषा भागहारिणः ।अपुत्त्रयोषितश्चैषां भर्त्तव्याः साधुवृत्तयः ॥
सुताश्चैषां प्रभर्त्तव्या यावन्न भर्त्तृसात् कृताः ॥
’एवं दत्तकग्रहणानन्तरोत्पन्नौरसेन सह दत्त-कस्य विभागदर्शनात् सत्यौरसे गृहीतस्य तुनांशभागित्वमिति । तथा विधानं विना परि-गृहीतस्यापि नांशभागित्वमित्याह ।‘तस्मिन् जाते सुते दत्ते न कृते च विधानके ।तत्सुतस्तस्य वित्तस्य यः स्वामी पितुरञ्जसा ॥
’मनुः ।‘अविधाय विधानं यः परिगृह्णाति पुत्त्रकम् ।विवाहविधिभाजं तं न कुर्य्याद्धनभाजनम् ॥
’इति ।अन्यजातीयदत्तकस्यापि नांशभागित्वमित्याह‘यदि स्यादन्यजातीयो गृहीतोऽपि सुतः क्वचित् ।अंशभाजं न तं कुर्य्यात् शौनकस्य मतं हि तत् ॥
’इत्युक्तप्रायमित्यास्तां विस्तारः ॥
” इति दत्तक-चन्द्रिका ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
