| YouTube Channel

पोप्रुथकः-थिका (popruthakaH-thikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“प्रोथृ पर्याप्तौ”@} 2 ‘प्रोथति = सूदति’ इति ‘प्रोथदश्वो यवसे--’ 3 इति मन्त्रव्याख्यायां व्याख्यानात्, ‘अपप्रोथ दुन्दुभे दुच्छुनाम्--’ 4 इत्यत्र, ‘अपप्रोथ = मारय--’ इति व्याख्यानाच्च भट्टभास्करमते हिंसार्थकोऽयं धातुः इति मा।
धा।
वृत्तिदर्शनाज्ज्ञायते।
“--पर्याप्तिगतौ’ इत्यपि क्वचिदर्थनिर्देशः कृतः।
‘अपप्रोथनम् = हुङ्करणम्।’ इति क्षुरे।” इत्यपि मा।
धा।
वृत्तिः।
‘शब्दार्थोऽपि।
अपपूर्वस्तु मारणे हुङ्करणे वा’ इति धा।
का।
व्याख्याने 5।
भाष्यप्रदीपोद्योतात् 6 नायं धातुरिति ज्ञायते।
प्रोथकः-थिका, प्रोथकः-थिका, पुप्रोथिषकः-पुप्रुथिषकः-षिका, पोप्रुथकः-थिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककेपतिवत् 7 ज्ञेयानि।
8 प्रोथः = अश्वादीनां नासारज्जुः।
प्रासङ्गिक्यः
01
=>
(१०७९)
02
=>
(१-भ्वादिः-८६७। सक। सेट्। उभ।)
03
=>
(तैत्ति। सं। ४। ४। ३। ३)
04
=>
(तैत्तिरीय- संहिता ४। ६। ६। ७)
05
=>
(२। २५)
06
=>
(१-४-५६)
07
=>
(२६१)
08
=>
[[२। ‘हलश्च’ (३-३-१२१) इति संज्ञायां करणे घञ्।]]