| YouTube Channel

पोपूर्यम् (popUryam)

 
कृदन्तरूपमाला
Sanskrit
1 {@“पूरी आप्यायने”@} 2 ‘आप्यायनम् = वृद्धिः।’ इति क्षीरस्वामी।
‘पूरेराप्यायनेऽर्थे स्यात् पूर्यते पूरयेदपि।।’ 3 इति देवः।
पूरकः-रिका, पूरकः-रिका, पुपूरिषकः-षिका, पोपूरकः-रिका
पूरिता-त्री, पूरयिता-त्री, पुपूरिषिता-त्री, पोपूरिता-त्री
-- पूरयन्-न्ती, पूरयिष्यन्-न्ती-ती
-- -- 4 पूर्यमाणः, 5 प्रपूर्यमाणः, पुपूरिषमाणः, पोपूर्यमाणः
पूरिष्यमाणः, पूरयिष्यमाणः, पुपूरिषिष्यमाणः, पोपूरिष्यमाणः
पूः-पूरौ-पूरः
-- -- -- 6 पूर्णम्-पूर्णः-पूर्णवान्, 7 पूर्णः-पूरितः, पुपूरिषितः, पोपूरितः-तवान्
पूरः, 8 पूरणः, पूरः, पुपूरिषुः, पोपूरः
पूरितव्यम्, पूरयितव्यम्, पुपूरिषितव्यम्, पोपूरितव्यम्
पूरणीयम्, पूरणीयम्, पुपूरिषणीयम्, पोपूरणीयम्
पूर्यम्, पूर्यम्, पुपूरिष्यम्, पोपूर्यम्
पूर्यमाणः, पूर्यंमाणः, पुपूरिष्यमाणः, पोपूर्यमाणः
पूरः, पूरः, पुपूरिषः, पोपूरः, पूरितुम्, पूरयितुम्, पुपूरिषितुम्, पोपूरितुम्
9 पूर्तिः 10, पूरणा, पुपूरिषा, पोपूरा
पूरणम्, पूरणम्, पुपूरिषणम्, पोपूरणम्
पूरित्वा, पूरयित्वा, पुपूरिषित्वा, पोपूरित्वा
प्रपूर्य, प्रपूर्य, प्रपुपूरिष्य, प्रपोपूर्य
11 चर्मपूरं स्तृणोति।
उदरपूरं भुङ्क्ते।
12 13 गोष्पदपूरम् 14 गोष्पदप्रम्, सीतापूरं सीताप्रं वा वृष्टो देवः।
15 ऊर्ध्वपूरं पूर्यते।
पूरम् २, पूरित्वा २, पूरम् २, पूरयित्वा २, पुपूरिषम् २, पुपूरिषित्वा २, पोपूरम्
पोपूरित्वा
16 पूरुः।
प्रासङ्गिक्यः
01
=>
(१०३७)
02
=>
(४-दिवादिः-११५१। अक। सेट्। आत्म।)
03
=>
(श्लो। १५०)
04
=>
[पृष्ठम्०८८२+ २७]
05
=>
[[१। ‘णेर्विभाषा’ (८-४-३०) इति सूत्रस्य नेदं लक्ष्यम्। यत्रोपसर्गस्थान्निमित्तात् कृत्स्थस्य नकारस्य णत्वम्, तत्रैव तस्य सूत्रस्य प्रवृत्तिः। अत्र तु धातुस्थान्निमित्तात् रेफरूपात् णत्वमिति ज्ञेयम्। तेन नित्यणत्वमेव।]]
06
=>
[[२। ‘श्वीदितो निष्ठायाम्’ (७-२-१४) इतीण्निषेधः। णत्वम्।]]
07
=>
[[३। ‘वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः’ (७-२-२७) इत्यनेन ण्यन्तादस्मान्निष्ठायां पक्षे अनिट्त्वं निपात्यते। अनिट्पक्षे, णिलुकि णत्वे पूर्णः इति, इट्पक्षे पूरितः इति रूपम्।]]
08
=>
[[४। ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति तच्छीलादिषु कर्तृषु युच्। अनादेशे णत्वे रूपमेवम्। पूरणः = समुद्रः।]]
09
=>
[[५। ‘क्तिन् आबादिभ्यः’ (वा। ३-३-९४) इति क्तिन्
\n\n अप्रत्ययापवादः। ‘तितुत्र--’ (७-२-९) इतीण्निषेधः। पूर्णिः इति तु बाहुलकात् निप्रत्यये णत्वे रूपम्।]]
10
=>
[पूर्णिः]
11
=>
[[६। ‘चर्मोदरयोः पूरेः’ (३-४-३१) इत्यनेन चर्मोदरयोः कर्मणोरुपपदयोः णमुल्प्रत्ययः। पूरयतेः ‘धातुसम्बन्धे प्रत्ययाः’ (३-४-१) इति परिभाषया धातुसम्बन्धे विधा- नात् धात्वन्तरस्य प्रयोगः। एवम् उदरपूरम् इत्यत्रापि ज्ञेयम्।]]
12
=>
[पृष्ठम्०८८३+ २५]
13
=>
[[१। ‘वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम्’ (३-४-३२) इत्यनेन कर्मण्युपपदे, वर्षस्येयत्तायां गम्यमानायाम्, पूरयतेर्णमुल्, ऊकारलोपश्चास्य विकल्पेन भवति। एवम्, ‘मूषिकाबिलपूरम्, मूषिकाबिलप्रं वा वृष्टो देवः।’ इत्यत्रापि णमुल् ज्ञेयः। ‘कूपप्रं वापिकापूरं बर्षति स्माद्य वारिदः। यावता पूर्यते कूपस्तावदित्यवगम्यते।।’ इति प्र। सर्वस्वे।]]
14
=>
[[आ। ‘ददाल भूर्नभो रक्तं गोष्पदप्रं ववर्ष च।’ भ। का। १४। २०।]]
15
=>
[[२। ‘ऊर्ध्वे शुषिपूरोः’ (३-४-४४) इति कर्तृवाचिन्यूर्ध्वे उपपदे णमुल्। ‘कषादिषु यथाविध्यनुप्रयोगः’ (३-४-४६) इति णमुल्प्रयोजकस्यैव धातोरनुप्रयोगः। ‘ऊर्ध्वः सन् पूर्यते कुम्भ ऊर्ध्वपूरं प्रपूर्यते।’ इति प्र। सर्वस्वे।]]
16
=>
[[३। बाहुलकादौणादिके उप्रत्यये रूपमेवम्।]]
1 {@“पॄ पालनपूरणयोः”@} 2 ‘पृणाति पूरणे, श्लौ तु पिपर्ति, णिचि पारयेत्।।’ 3 इति देवः।
4 5 पारकः-रिका, पारकः-रिका, 6 पुपूर्षकः-पिपरिषकः-पिपरीषकः-षिका, 7 पोपुरकः-रिका
परिता-परीता-त्री, पारयिता-त्री, पुपूर्षिता-पिपरिषिता-पिपरीषिता-त्री, पोपुरिता-त्री
8 पिपुरत्-पिपुरतौ-पिपुरतः, पारयन्-न्ती, पुपूर्षन्-पिपरिषन्-पिपरीषन्-न्ती
-- परिष्यन्-परीष्यन्-न्ती-ती, पारयिष्यन्-न्ती-ती, पुपूर्षिष्यन्-पिपरिषिष्यन्- पिपरीषिष्यन्-न्ती-ती
-- -- पारयमाणः, -- पोपूर्यमाणः
-- पारयिष्यमाणः, -- पोपुरिष्यमाणः
पूः-पुरौ-पुरः
-- -- -- 9 पूर्तम्-पूर्तवान्, पारितः, पुपूर्षितः-पिपरिषितः-पिपरीषितः, पोपुरितः-तवान्
परः- 10 पूः 11 12 पारयः, 13 पारयिष्णुः, पुपूर्षुः-पिपरिषुः-पिपरीषुः, पोपुरः
14 परितव्यम्-परीतव्यम्, पारयितव्यम्, पुपूर्षितव्यम्-पिपरिषितव्यम्-पिपरीषितव्यम्, पोपुरितव्यम्
परणीयम्, पारणीयम्, पुपूर्षणीयम्, पिपरिषणीयम्-पिपरीषणीयम्, पोपुरणीयम्
पार्यम्, पार्यम्, पुपूर्ष्यम्-पिपरिष्यम्-पिपरीष्यम्, पोपूर्यम्
ईषत्परः-दुष्परः-सुपरः
-- -- 15 पूर्यमाणः, पार्यमाणः, पुपूर्ष्यमाणः-पिपरिष्यमाणः-पिपरीष्यमाणः, पोपूर्यमाणः
परः, पारः, पुपूर्षः-पिपरिषः-पिपरीषः, पोपुरः
परितुम्-परीतुम्, पारयितुम्, पुपूर्षितुम्-पिपरिषितुम्-पिपरीषितुम्, पोपुरितुम्
पूर्तिः- 16 पूर्णिः, पारणा, पुपूर्षा-पिपरिषा-पिपरीषा, पोपुरा
परणम्, पारणम्, पुपूर्षणम्-पिपरिषणम्-पिपरीषणम्, पोपुरणम्
पूर्त्वा, पारयित्वा, पुपूर्षित्वा-पिपरिषित्वा-पिपरीषित्वा, पोपुरित्वा
प्रपूर्य, प्रपार्य, प्रपुपूर्ष्य-प्रपिपरिष्य प्रपिपरीष्य, प्रपोपूर्य
पारम् २, पूर्त्वा २, पारम् २, पारयित्वा २, पुपूर्षम् -पिपरिषम् -पिपरीषम् २, पुपूर्षित्वा -पिपरिषित्वा -पिपरीषित्वा २, पोपुरम्
पोपुरित्वा
17 पुरुः, 18 पर्व, 19 पुरीषम्, 20 पुरुषः, 21 परुषः, 22 परुः।
23
प्रासङ्गिक्यः
01
=>
(१०५५)
02
=>
(३-जुहोत्यादिः-१०८६। सक। सेट्। पर।)
03
=>
(श्लो। ३६)
04
=>
[पृष्ठम्०८९१+ २८]
05
=>
[[१। ‘इत्वोत्वाभ्यां गुणवृद्धी भवतो विप्रतिषेधेन’ (वा। ७-१-१०२) इति वचनेन वृद्धिरत्र ज्ञेया। एवं तव्यदादिषु गुणोऽपि ज्ञेयः।]]
06
=>
[[२। सन्नन्ते सर्वत्र, ‘इको झल्’ (१-२-९) इति सनः कित्त्वे, ‘श्र्युकः क्किति’ (७-२-११) इति प्राप्तमिण्निषेधं बाधित्वा, ‘इट् सनि वा’ (७-२-४१) इतीड्विकल्पः। इट्पक्षे ‘उदोष्ठ्यपूर्वस्य’ (७-१-१०२) इत्युत्त्वे रपरत्वे, ‘हलि च’ (८-२-७७) इति दीर्घे रूपमेवम्। इडभावपक्षे ‘वॄतो वा’ (७-२-३८) इति इटो दीर्घविकल्पे रूपद्वयम्। तत्र सनः कित्त्वाभावाद् गुणः, अभ्यासे इकारश्चेति ज्ञेयम्। आहत्य रूपत्रयमिति बोध्यम्।]]
07
=>
[[३। यङन्ते सर्वत्र, उत्वरपरत्वाल्लोपयलोपेषु अभ्यासे, ‘गुणो यङ्लुकोः’ (७-४-८२) इति गुणो ज्ञेयः।]]
08
=>
[[४। शतरि, ‘जुहोत्यादिभ्यः--’ (२-४-७५) इति शपः श्लौ, ‘श्लौ’ (६-१-१०) इति द्विर्वचने, श्लोः शित्त्वेन सार्वधातुकत्वात् धातोरुत्वे रपरत्वे, ‘अर्ति- पिपर्त्योश्च’ (७-४-७७) इत्यभ्यासेकारः।]]
09
=>
[[५। ‘श्र्युकः क्किति’ (७-२-११) इति इण्निषेधे, उत्वादिकम्।]]
10
=>
[[६। तच्छीलादिषु कर्तृषु ‘भ्राजभासधुर्विद्युतोर्जिपॄ--’ (३-२-१७७) इति क्विपि उत्वादिषु प्रवृत्तेषु रेफस्य विसर्गे रूपम्।]]
11
=>
[[आ। ‘रथस्य तस्यां पुरि दत्तचक्षुः विद्वान् विदामास शनैर्न यातम्।।’ शि। व। ३। ३२।]]
12
=>
[[७। ण्यन्तादस्मात् ‘अनुपसर्गाल्लिम्पविन्दधारिपारि--’ (३-१-१३८) इति कर्तरि शप्रत्यये तस्य शित्त्वेन सार्वधातुकत्वात् शपि, पररूपे, अयादेशे रूपम्।]]
13
=>
[[८। ‘णेश्छन्दसि’ (३-२-१३७) इति इष्णुच्प्रत्यये, ‘अयामन्ताल्वाय्येत्न्विष्णुषु’ (६-४-५५) इति णेरयादेशः।]]
14
=>
[पृष्ठम्०८९२+ २४]
15
=>
[[१। यकः कित्त्वेन उत्वरपरत्वादिकं ज्ञेयम्।]]
16
=>
[[२। ‘ॠल्वादिभ्यः क्तिन् निष्ठावद् वाच्यः’ (वा। ८-२-४४) इति नकारे, णत्वम्। एतच्च पाक्षिकमिति केचित्।]]
17
=>
[[३। ‘पॄभि--’ (द। उ। १-१०८) इति कुप्रत्ययः। पृणाति, पूर्यते वा इति पुरुः = विस्तीर्णः, लोकश्च।]]
18
=>
[[४। ‘स्नामदिपद्यर्तिपॄ--’ (द। उ। ६-६८) इति वनिप्प्रत्ययः। पृणाति, पिपर्ति पूर्यते वा इति पर्व = अङ्गुल्यग्रम्, पुण्यतिथिश्च।]]
19
=>
[[५। ‘शॄपॄभ्यां कित्’ (द। उ। ९-१०) इतीषन्प्रत्ययः, तस्य कित्त्वं च। पृणाति, पूर्यते वा तेनोदरमिति पुरीषम्।]]
20
=>
[[६। ‘पुरः कुषन्’ (द। उ। ९-१४) इत्यनेन कुषन्प्रत्यये, उत्वादिकम्।]]
21
=>
[[७। ‘पॄकलिभ्यामुषच्’ (द। उ। ९-१५) इत्युषच्प्रत्ययः। पृणाति, पिपर्ति इति वा परुषः = अमृदुः।]]
22
=>
[[८। ‘अर्तिपॄवपि--’ (द। उ। ९-३९) इत्युसिप्रत्ययः। परुः = समुद्रः, राजा च।]]
23
=>
[पृष्ठम्०८९३+ २९]