| YouTube Channel

पोगण्डः (pogaNDaH)

 
Wordnet
Sanskrit
Synonyms:
विकलाङ्ग, अपोगण्डः, पोगण्डः
adjective
यस्य अङ्गानि विकलानि सन्ति।
"लोहयानस्य दुर्घटनायाम् श्यामः विकलाङ्गः अभवत्।"
शब्दकल्पद्रुमः
Sanskrit
पोगण्डः,
पुं,
(पुनातीति पू + विच् पौः शुद्धोगण्डो यस्य ।) दशवर्षीयबालकः यथा, --“रोगी वृद्धस्तु पोगण्डः कुर्व्वन्त्यन्यैर्व्रतं सदा
”इति प्रायश्चित्ततत्त्वे ब्रह्मपुराणम्
पोगण्डः, त्रि, (पौः गण्ड एकदेशोऽस्य ।) अपो-गण्डः स्वभावतो न्यूनाधिकाङ्गः ऊनविंश-त्यङ्गुलीकैकविंशत्यङ्गुलीकादिजनः यथा ।पोगण्डो विकलाङ्गे स्यादिति हलायुधः ।पोगण्डो विकलाङ्गकः इति रत्नकोषः इत्य-मरटीकायां भरतः