| YouTube Channel

पैतृकभूमिः (paitRkabhUmiH)

 
शब्दकल्पद्रुमः
Sanskrit
पैतृकभूमिः,
स्त्री,
(पैतृकी पितृसम्बन्धिनीभूमिः ।) पितृसम्बन्धिस्थानम् तस्या माहात्म्यंयथा, --श्रीभगवानुवाच ।“भवांश्च यादवैः सार्द्धं प्रविश द्वारकापुरीम् ।मत्पित्रा मातृभिः सार्द्धं माहेन्द्रे क्षणे नृप !
उग्रसेन उवाच ।वासुदेव यास्यामि भूमिं तां पैतृकीं पुनः ।सर्व्वतीर्थपरां शुद्धां दैवे कर्म्मणि पैतृके
पारक्ये भूमिदेशे पितॄणां निर्व्वपेत्तु यः ।तद्भूमिस्वामिपितृभिः श्राद्धकर्म्म निहन्यते
पितॄणां निष्फलं श्राद्धं देवानामपि पूजनम् ।किञ्चित्फलप्रदञ्चैव सम्पूर्णं पैतृके स्थले
पुत्त्रपौत्त्रकलत्रेभ्यः प्राणेभ्यः प्रेयसी सदा ।दुर्ल्लभा पैतृकी भूमिः पितुर्मातुर्गरीयसी
तत् शस्यञ्च पवित्रञ्च दैवे कर्म्मणि पैतृके ।क्रीतञ्च तदृते दानं परदत्तमशुद्धकम्
म्रियते पैतृकीभूम्यां तीर्थतुल्यफलं लभेत् ।गङ्गाजलसमं पूतं पितृखातोदकं हरे
तत्र स्नात्वा जले पूते गङ्गास्नानफलं लभेत् ।पितॄणां तर्पणं तत्र पवित्रं देवपूजनम्
पैतृकी जन्मभूमिश्चेत् फलं तद्द्विगुणं लभेत् ।पैतृकीभूमितुल्या दानभूमिः सतामपि
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १०३ अध्यायः