| YouTube Channel

पै (pai)

 
शब्दसागरः
English
पै r. 1st cl. (पायति) To dry, to wither.
Yates
English
पै पायति 1.
a. To dry.
Wilson
English
पै r. 1st cl. (पायति) To dry, to wither.
Apte
English
पै [pai], 1
P.
(पायति) To dry, wither.
Apte 1890
English
पै {c1c} P. (पायति) To dry, wither.
Monier Williams Cologne
English
पै
cl.
1.
P.
पायति, to dry, wither,
Dhātup.
xxii, 23.
Monier Williams 1872
English
पै पै, cl. 1. P. पायति, पायितुम्, to dry,
wither.
Benfey
English
पै पै, i. 1., Par. To dry or wither.
Apte Hindi
Hindi
पै
भ्वा* पर* - -
"सूखना, मुरझाना"
L R Vaidya
English
pE {% vi. 1P (pres. पायति) %} To dry, to wither.
Kridanta Forms
Sanskrit
पै (पै॒ शोषणे - भ्वादिः - अनिट्)
ल्युट् = पानम्
अनीयर् = पानीयः - पानीया
ण्वुल् = पायकः - पायिका
तुमुँन् = पातुम्
तव्य = पातव्यः - पातव्या
तृच् = पाता - पात्री
क्त्वा = पात्वा
ल्यप् = प्रपाय
क्तवतुँ = पातवान् - पातवती
क्त = पातः - पाता
शतृँ = पायन् - पायन्ती
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
पै
मूलधातुः:
धात्वर्थः:
शोषणे
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
परस्मैपदी
रूपम्:
पायति
अनुबन्धादिविशेषः:
ऐकारान्तः
धातुप्रदीपः
Sanskrit
पै
मानकरूपान्तरम् - ओँवै
ओवै शोषणे
- पायति पायात् पपौ पास्यति अपासीत् पिपासति वायति ववौ वानम् आवाययति ।। 924, 925 ।।
Wordnet
Sanskrit
Synonyms:
परिम्लै, जॄ, परिशुष्, पै, प्रग्लै, प्रतिशुष्, प्रम्लै, विम्लै, विशुष्, शुष्
verb
पुष्प-पत्र-क्षुपादीनां उच्छुष्कीभवनानुकूलः व्यापारः।
"अत्युष्णतया केचन क्षुपाः पर्यम्लायन्।"
शब्दकल्पद्रुमः
Sanskrit
पै, शोषे इति कविकल्पद्रुमः
(भ्वा०-पर०-सक०-अनिट् ।) पायति धान्यमातपेन इतिदुर्गादासः
वाचस्पत्यम्
Sanskrit
पै शोषे
भ्वा०
पर०
सक०
अनिट् पायति अपासीत् पपौ
क्षीरतरङ्गिणी
Sanskrit
पै
मानकरूपान्तरम् - ओँवै
ओवै शोषणे
- पायति पिबादेशो (द्र0 7378) नेष्यते इह पा पाने (1657) पिबति अदादौ-पा रक्षणे (249) पाति वायति ओदितश्च ( 8254) इति निष्ठानत्वम् वानं शुष्कम् कृवापा (उ0 11) इति वायुः अदादौ वा गतिगन्धनयोः (243) वाति चुरादौ वा गतिसुखसेवनयोः (10268) वापयति 890, 891
धातुवृत्तिः
Sanskrit
पै
मानकरूपान्तरम् - ओँवै
ओवै (अर्थः) शोषणे
( पायति पपौ ) "पाघ्रा'' इत्यत्र नास्य ग्रहणम् पारूपस्य लाक्षणिकतृवात् एजन्तोपदेशसामर्थ्यादशिति पारूपस्य भेदाभावात् ( पपौ पाता पास्यति पायतु अपायत् पायेत्, आशिषि पायात् ) "वुमास्थ' इतीत्वं तद्विशेष "एर्लिङि''इत्ये त्वं चास्य भवति, पारूपस्य लाक्षणिकतृवात् अत एव"गातिस्था''इति सिज्लुग्विधावपि अस्याग्रहणात् ( अपासीदिति ) भवति ( पिपासति पापयते ) "ई हल्यघोः'' इत्यभ्यस्ताश्रयमीत्वं ङित्सार्वधातुकविषयमितीह भवति ( पापाति पापेति ) ईटि गुणः, ( पापीतः ) "ई हल्यघोः'' इति ङित्सार्वधातुकपरत्वादीत्वम् ( पापति ) "श्नाभ्यस्तयोः'' इत्यालोपः लङि ( अपापेत् अपापात्, अपापीताम् ) इत्यादि "सिजभ्यंस्त'' इति नित्यं जस्भावे ( अपापुः ) "लङः शाकटयनस्यैव'' इति विकल्पो नेति धयतावुक्तम् आशिषि लिङि आद्धधातुकतृवात् "ई हल्यघोः'' इतीत्वाभावात् ( पापायादिति भवति ) "घुमास्था'' इति ईत्वमस्य नेति प्रागेवोक्तं, ( पाययति ) "शच्छासाह्वाव्यासवेषां युक्'' इति णौ युगागमः तत्र लाक्षणिकपारूपस्य ग्रहणमिति वृत्तिन्यासपदमञ्जर्यादिषु ( पीत्वापानं ) सरः पा इति पानार्थ इहाग्रे रक्षणार्थोऽदादौ ( वायति ववौ ) इत्यादि, पायतिवत् णौ ( वाययति शिरः ) आत्वे युक् "वो विधूनने जुक्'' इति अत्र "वा गतिगन्धनयोः'इत्यदादिकस्यैव ग्रहणं तस्यैव विधूनने वृत्तिसम्भवादिति व्याख्यातारः "शाच्छासा'' इति युक्तु तत्रैव वाइति निर्देशात्"वेञ् तन्तुसन्तान'इत्यग्रे पठिष्यमाणस्यैव, त्वस्य प्रसजति (वानं)तु फलम्, ओदित्त्वान्नम् 905
कृदन्तरूपमाला
Sanskrit
1 {@“पै शोषणे”@} 2 ‘पाने पिबति, रक्षायां पाति, पायति शोषणे।।’ 3 इति देवः।
4 पायकः-यिका, 5 पायकः-यिका, पिपासकः-सिका, 6 पापायकः-यिका
पाता-पात्री, पाययिता-त्री, पिपासिता-त्री, पापायिता-त्री
7 पायन्-न्ती, पाययन्-न्ती, पिपासन्-न्ती
-- पास्यन्-न्ती-ती, पाययिष्यन्-न्ती-ती, पिपासिष्यन्-न्ती-ती
-- 8 व्यतिपायमानः, पाययमानः, व्यतिपिपासमानः, पापायमानः
व्यतिपास्यमानः, पाययिष्यमाणः, व्यतिपिपासिष्यमाणः, पापायिष्यमाणः, पाः-पौ-पः
-- -- -- 9 10 पातम्-तः, पायितः, पिपासितः, पापायितः-तवान्
11 पायः, 12 सुपः, पायः, पिपासुः, पापः
पातव्यम्, पाययितव्यम्, पिपासितव्यम्, पापायितव्यम्
पानीयम्, पायनीयम्, पिपासनीयम्, पापायनीयम्
पेयम्, पाय्यम्, पिपास्यम्, पापाय्यम्
13 ईषत्पानःदुष्पानः-सुपानः
-- -- पायमानः, पाय्यमानः, पिपास्यमानः, पापाय्यमानः
पायः, पायः, पिपासः, पापायः
पातुम्, पाययितुम्, पिपासितुम्, पापायितुम्
पातिः, 14 सुपा, पायना, पिपासा, पापाया
पानम्, पायनम्, पिपासनम्, पापायनम्
पात्वा, पाययित्वा, पिपासित्वा, पापायित्वा
प्रपाय, प्रपाय्य, प्रपिपास्य, प्रपापाय्य
पायम् २, पात्वा २, पायम् २, पाययित्वा २, पिपासम् २, पिपासित्वा २, पापायम्
पापायित्वा २।
प्रासङ्गिक्यः
01
=>
(१०६२)
02
=>
(१-भ्वादिः-९२०। अक। अनि। पर।)
03
=>
(श्लो। ५)
04
=>
[[१। ‘आतो युक् चिण्कृतोः’ (७-३-३३) इति युगागमः। एवं घञ्प्रत्यये, णमुलि युगागमो ज्ञेयः।]]
05
=>
[[२। ‘शाच्छासाह्वाव्यावेपां युक्’ (७-३-३७) इति ण्यन्ते सर्वत्र युगागमः। आदन्त- लक्षणपुगागमस्यापवादः। सूत्रेऽत्र लाक्षणिकस्यापि पाधातोरस्य ग्रहणम् इति व्याख्यातारः।]]
06
=>
[[३। ‘गापोर्ग्रहणे इण्पिबत्योर्ग्रहणम्’ (वा। २-४-७७) इति वचनात् ईत्वबिधायके सूत्रे यङन्ते, नास्य ग्रहणमिति क्तप्रत्ययादिषु ईत्वमस्य धातोर्नेति ज्ञेयम्। तेनैवं रूपम्।]]
07
=>
[[४। ‘-- अशिति’ (६-१-४५) इत्युक्तत्वादात्त्वं न। तेन शतरि आयादेशे रूपमेवम्।]]
08
=>
[[५। कर्मव्यतीहारे शानच्। एवं सन्नन्तेऽपि प्रकृतेरात्मनेपदनिमित्तमेव शानज्निमित्तमिति ज्ञेयम्।]]
09
=>
[पृष्ठम्०८९६+ २५]
10
=>
[[आ। ‘अपातमाल्यं शयितं सुवानकाशत्विषि स्ताततनौ फणीन्द्रे।।’ धा। का। २-३२।]]
11
=>
[[१। आदन्तलक्षणे णप्रत्यये युगागमे रूपमेवम्।]]
12
=>
[[२। ‘आतश्चोपसर्गे’ (३-१-१३६) इति कर्तरि कप्रत्ययः।]]
13
=>
[[३। ईषदाद्युपपदेषु, ‘आतो युच्’ (३-३-१२८) इति खलपवादो युच्। अनादेशः।]]
14
=>
[[४। स्त्रियां भावादौ, ‘आतश्चोपसर्गे’ (३-३-१०६) इत्यङ्।]]
Burnouf
French
*पै पै [पायामि 4] autre forme de पा 1.