| YouTube Channel

पेशकः-शिका (pezakaH-zikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“पिश अवयवे”@} 2 मुचादिः।
अवयवे = अवयवक्रियायामित्यर्थः।
अयं दीपनायामपि वर्तते।
‘त्वष्टा रूपाणि पिंशतु--’ ऋ।
वे।
3, ‘नक्षत्रेभिः पितरो द्यामपिंशन्।’ ऋ।
वे।
4 इत्यादिषु दीपनार्थे दर्शनात्।
पेशकः-शिका, पेशकः-शिका, पिपिशिषकः-पिपेशिषकः-षिका, पेपिशकः-शिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककेटतिवत् 5 ज्ञेयानि।
शतरि-- 6 पिंशन्-ती, इति रूपम्।
प्रासङ्गिक्यः
01
=>
(१००१)
02
=>
(६-तुदादिः-१४३७। अक। सेट्। पर।)
03
=>
(१०-१८४-१)
04
=>
(१०-६८-११)
05
=>
(१९०)
06
=>
[[१। शतरि, तुदादित्वात् शप्रत्यये, ‘शे मुचादीनाम्’ (७-१-५९) इति नुमि रूपमेवम्।]]