| YouTube Channel

पेयं (peyaM)

 
शब्दकल्पद्रुमः
Sanskrit
पेयं,
क्ली,
(पीयते यदिति पा पाने + कर्म्मणियत् “ईद्यति ।” ६५ इति आतईत् ततो गुणः ।) जलम् इति मेदिनी ये, ३९
दुग्धम् इति शब्दचन्द्रिका
अष्टविधा-न्नान्तर्गतान्नविशेषः यथा, --“भोज्यं पेयं तथा चूष्यं लेह्यं खाद्यञ्च चर्वणम् ।निष्पेयञ्चैव भक्ष्यं स्यादन्नमष्टविधं स्मृतम्
”इति राजनिर्धण्टः
पातव्ये, त्रि इति मेदिनी ये, ३९
(यथा, महाभारते १४ ४४ १० ।“सर्व्वेषां भक्ष्यभोज्यानामन्नं परममुच्यते ।द्रवाणाञ्चैव सर्व्वेषां पेयानामाप उत्तमाः
”)