| YouTube Channel

पेप्लीय्यम् (peplIyyam)

 
कृदन्तरूपमाला
Sanskrit
1 {@“प्ली गतौ”@} 2 प्वादिः, ल्वादिश्च।
‘ल्वी--’ इति क्षीरस्वामी पपाठ।
‘-- वरणे’ इति इति केचित्।
मैत्रेयादयस्त्वमुं पठन्ति।
इति मा।
धा।
वृत्तावुक्तम्।
प्लायकः-यिका, प्लायकः-यिका, पिप्लीषकः-षिका, पेप्लीयकः-यिका
प्लेता-त्री, प्लाययिता-त्री, पिप्लीषिता-त्री, पेप्लीयिता-त्री
3 प्लिनन्- 4 न्ती, प्लाययन्-न्ती, पिप्लीषन्-न्ती
-- प्लेष्यन्-न्ती-ती, प्लाययिष्यन्-न्ती-ती, पिप्लीषिष्यन्-न्ती-ती
-- -- प्लाययमानः, प्लाययिष्यमाणः, -- पेप्लीयमानः, पेप्लीयिष्यमाणः
सुप्लीः-सुप्लियौ-सुप्लियः
-- -- 5 प्लीनम्-प्लीनः-प्लीनवान्, प्लायितः, पिप्लीषितः, पेप्लीयितः-तवान्
प्लयः, प्लायः, पिप्लीषुः, पेप्लियः
प्लेतव्यम्, प्लाययितव्यम्, पिप्लीषितव्यम्, पेप्लीयितव्यम्
प्लयनीयम्, प्लायनीयम्, पिप्लीषणीयम्, पेप्लीयनीयम्
प्लेयम्, प्लाय्यम्, पिप्लीष्यम्, पेप्लीय्यम्
ईषत्प्लयः-दुष्प्लयः-सुप्लयः
-- -- प्लीयमानः, प्लाय्यमानः, पिप्लीष्यमाणः, पेप्लीय्यमानः
प्लयः, प्लायः, पिप्लीषः, पेप्लीयः
प्लेतुम्, प्लाययितुम्, पिप्लीषितुम्, पेप्लीयितुम्
6 प्लीनिः, प्लायना, पिप्लीषा, पेप्लीया
प्लयनम्, प्लायनम्, पिप्लीषणम्, पेप्लीयनम्
7 प्लीत्वा, प्लाययित्वा, पिप्लीषित्वा, पेप्लीयित्वा
संप्लीय, संप्लाय्य, प्रपिप्लीष्य, प्रपेप्लीय्य
प्लायम् २, प्लीत्वा २, प्लायम् २, प्लाययित्वा २, पिप्लीषम् २, पिप्लीषित्वा २, पेप्लीयम्
पेप्लीयित्वा २।
प्रासङ्गिक्यः
01
=>
(१०८१)
02
=>
(९-क्र्यादिः-१५०३। सक। अनि। पर।)
03
=>
[[१। ‘क्र्यादिभ्यः’ (३-१-८१) इति श्ना विकरणप्रत्ययः। ‘श्नाऽभ्यस्तयोरातः’ (६-४-११२) इत्याकारलोपे ‘प्वादीनां ह्रस्वः’ (७-३-८०) इति ह्रस्वे रूपमेवम्।]]
04
=>
[[आ। ‘पार्श्बे लिनन् गजमचोदयदुन्मदान्धमञ्लीनशक्तिमतिघोरजवं प्लिनन्तम्।।’ धा। का। ३। ८।]]
05
=>
[[२। ‘ल्वादिभ्यः’ (८-२-४४) इति निष्ठानत्वम्।]]
06
=>
[[३। ‘ॠल्वादिभ्यः क्तिन् निष्ठावद्वाच्यः’ (वा। ८-२-४४) इति क्तिनस्तकारस्य नकारे रूपमेवम्।]]
07
=>
[पृष्ठम्०९०९+ २७]