| YouTube Channel

पृष्ठमर्म्मन् (pRSThamarmman)

 
वाचस्पत्यम्
Sanskrit
पृष्ठमर्म्मन्
न०
त० सुश्रुतोक्ते पृष्ठस्थमर्मभेदे तत्रोक्तोयथा“अत ऊर्द्धपृष्ठमर्माण्यनुव्याख्यास्यामः तत्र पृष्ठवंश-मुभयतः प्रतिश्रोणीकाण्डमस्थिनी कटीकतरुणे नाममर्मणी तत्र शीणितक्षयात् पाण्डुर्बिवर्णो हीन-रूपश्च म्रियते पार्श्वजघनबहिर्भागे पृष्ठवंशमुभयतोनातिनिम्ने कुकुन्दरे नाम मर्मणी तत्र स्पर्शाज्ञान-मधःकाये चेष्टोपघातश्च श्रोणीकाण्डयोरुपर्य्याशया-च्छादनौ पार्श्वान्तरप्रातबद्धौ नितम्बौ नाम तत्राधःकायशोषो दौर्बल्यात्तु मरणम् अधःपार्श्वान्तरप्रतिवद्धौजघनपार्श्वमध्ययोस्तिर्य्यगूर्द्धञ्च जघनात् पार्श्वसन्धीनाम तत्र लोहितपूर्णकोष्ठतया म्रियते स्तनमूलादुभ्र-यतः पृष्ठवंशस्य वृहती नाम तत्र शोणितातिप्रवृत्तिनिमित्तैरुपद्रवैर्म्रियते पृष्ठोपरि पृष्ठघंशमुभयतस्त्रिक-सम्बद्धे अंसफलके नाम तत्र बाह्वोः स्वापः शोषो वा ।बाहुमूर्द्ध्वग्रीवामध्येऽंसपीठस्कन्धनिबन्धनावंसौ नाम तत्रस्तब्धवाहुता एवमेतानि चतुर्दश पृष्ठमर्माणि व्या-ख्यातानि”