| YouTube Channel

पृषोदरादि (pRSodarAdi)

 
Shabdartha Kaustubha
Kannada
पृषोदरादि
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಪೃಷೋದರ ಮೊದಲಾದ ಶಬ್ದಗಳುಳ್ಳ ಒಂದು ಗಣ
विस्तारः - > ಗಣದಲ್ಲಿ ಉಕ್ತವಾದ ಶಬ್ದಗಳು ಶಾಸ್ತ್ರಾನುಸಾರವಾಗಿಲ್ಲದಿದ್ದರೂ ಅವನ್ನು ಹಿರಿಯರು ಉಚ್ಚರಿಸಿದಂತೆಯೇ ನಾವೂ ಉಚ್ಚರಿಸಬೇಕು. "पृषोदरादीनि यथोपदिष्टम्" - पा० सू० (६-३-१०९)
Abhyankara Grammar
English
पृषोदरादि a group of words, with irre- gularity in the coalescence of the two constituent members, collect- ed together by Panini and men- tioned together with the word पृषोदर at the head
cf. पृषोदरादीनि यथोपदिष्टम् P.VI. 3. 109
cf. also येषु लोपागमवर्णाविकारः शास्त्रेण विहिताः, दृश्यन्ते तानि, यथोपदिष्टानि साधूनि भवन्ति पृषोदरम् , बलाहकः, जीमूतः, पिशाचः, वृसी, मयूरः, पयोपवसनानाम्, दूढ्यः etc. Kas. on P.VI. 3.109.
वाचस्पत्यम्
Sanskrit
पृषोदरादि “पृषोदरादीनि यथोपदिष्टम्” पा० विहितलोपादिनिमित्ते शब्दगणे गणः पा० ग० सू० उक्तोयथा “पृषोदर पृषोत्थान वलाहक जीमूत श्मशान उलू-खल पिशाच वृषी मयूर” “वर्णागमो वर्णविपर्य्ययश्च द्वौचापरौ वर्णविकारनाशौ धातोस्तदर्थातिशयेन योगस्त-दुच्यते पञ्चविधं निरुक्तम्” एतच्च समासविषयकमेवेतिनियमो प्राचीनकारिकायां हंससिंहादिशब्दाना-मपि पृषोदरादित्वात् सिद्धत्वोक्तेः अस्यार्थः सि० कौ०मनोरमादौ यथा“पृषोदरप्रकाराणि शिष्टैर्यथोच्चारितानि तथैव साधूनिस्युः पृषत् उदरम् पृषोदरम् तलोपः वारि-वाहको वलाहकः पूर्वपदस्य वः उत्तरपदादेश्च लत्वम् ।“भवेद्वर्णागमात् हंसः सिंहो वर्णविपर्य्ययात् गूढोत्माबर्णविकृतेर्वर्णनाशात्पृषोदरम्” दिक्शब्देभ्यस्तीरस्य तार-भावो वा दक्षिणतारम् दक्षिणतीरम् उत्तरतारम्उत्तरतीरम् दुरो दाशनाशदभध्येषूत्त्वमुत्तरपदादेष्टुत्वञ्च ।दुःखेन दाश्यते दूडाशः एवं दुःखेन नाश्यते दुणाशःदुःखेन दभ्यते दूडाभः खल् त्रिभ्यः दम्भेर्नलोपोनिपात्यते दुष्टं ध्यायतीति दूट्यः आतश्चेति कः ।ब्रुवन्तोऽस्यां सीदन्तीति वृषी ब्रुवच्छब्दस्य वृ आदेशः ।सदेरधिकरणे डट् आकृतिगणोऽयम्” हन्तेःपचाद्यचि सुमागमे हंस इति हिंसेस्तु पचाद्यचि ह-कारसकारयोः स्थानव्यत्ययात् सिंह इति गूढोत्मेत्यत्रआकारविकृत्या उकारादेशः पृषोदरमित्यत्र तकारवर्ण-लोपः इत्येवं रीत्या सर्वत्र बोध्यम् एतन्मूलकमेव“लुम्पेदवश्यमः कृत्ये तुम् काममनसोरपि समो वाहितततयोर्मांसस्य पचियुज्घञोरिति” अन्तमिति शेषःकृत्यप्रत्ययान्ते उत्तरपदे अवश्यम्शब्दस्यान्त्यमकारं लुस्पेत् अवश्यसेव्यः तथा कामशब्दमनः शब्दयोःपरतः तुम्शब्दस्यान्तम् हन्तुकामः गन्तुमनाः तुमितिषष्ठ्यर्थे प्रथमा हितततशब्दयोः परतः समोऽन्त्यंमकारम् वा लुम्पेत् सहितः संहितः सततः सन्ततः ।युज्घञ्परपंचिधातौ परे मांसशब्दान्त्याकारं लुम्पेत् ।मांस्पचनः मांसपचनः मांस्पाकः मांसपाक इत्यादि ।”