| YouTube Channel

पृथुः (pRthuH)

 
Apte Hindi
Hindi
पृथुः
पुं*
- -
अग्नि का नाम
पृथुः
पुं*
- -
एक राजा का नाम
पृथुः
स्त्री*
- -
अफीम
Wordnet
Sanskrit
Synonyms:
पृथिवी, भूः, भूमिः, अचला, अनन्ता, रसा, विश्वम्भरा, स्थिरा, धरा, धरित्री, धरणी, क्षौणी, ज्या, काश्यपी, क्षितिः, सर्वसहा, वसुमती, वसुधा, उर्वी, वसुन्धरा, गोत्रा, कुः, पृथ्वी, क्ष्मा, अवनिः, मेदिनी, मही, धरणी, क्षोणिः, क्षौणिः, क्षमा, अवनी, महिः, रत्नगर्भा, सागराम्बरा, अब्धिमेखला, भूतधात्री, रत्नावती, देहिनी, पारा, विपुला, मध्यमलोकवर्त्मा, धारणी, गन्धवती, महाकान्ता, खण्डनी, गिरिकर्णिका, धारयित्री, धात्री, अचलकीला, गौः, अब्धिद्वीपा, इडा, इडिका, इला, इलिका, इरा, आदिमा, ईला, वरा, आद्या, जगती, पृथुः, भुवनमाता, निश्चला, श्यामा
noun
मर्त्याद्यधिष्ठानभूता।
"पृथिवी पञ्चमम् भूतम्"
Synonyms:
पृथुः
noun
कश्चित् सूर्यवंशीयः राजा।
"पृथुः रामस्य पूर्वजः आसीत्।"
शब्दकल्पद्रुमः
Sanskrit
पृथुः,
पुं,
(प्रथते विख्यातो भवतीति प्रथ +“प्रथिम्रदिभ्रस्जां संप्रसारणं सलोपश्च ।उणा० २९ इति कुः सम्प्रसारणञ्च ।)त्रेतायुगे सूर्य्यवशीयपञ्चमनृपः वेणनृपस्यदक्षिणकरमथनाज्जातः प्रजारञ्जनात् आद्येराजापाधिं प्राप्तः यथा, --“अथ ते ऋषयः सर्व्वे प्रसन्नमनसस्ततः ।गतकल्मषमेवं तं जातं वेणं नृपोत्तमम्
ममन्थुर्दक्षिणं पाणिं तस्यैव महात्मनः ।मथिते तस्य पाणौ सञ्जातं स्वेदमेव हि
पुनर्ममन्थुस्ते विप्रा दक्षिणं पाणिमेव ।स्वकरात् पुरुषो जज्ञे द्वादशादित्यसन्निभः
तप्तकाञ्चवर्णाङ्गो दिव्यमाल्याम्बरावृतः ।दिव्याभरणशोभाङ्गो दिव्यगन्धानुलेपनः
मुकुटेन सुवर्णेन कुण्डलाभ्यां विराजते
महाकायो महाबाहू रूपेणाप्रतिमो भुवि ।खड्गबाणधरो धन्वी कवची महाप्रभः
सर्व्वलक्षणसम्पन्नः सर्व्वालङ्कारभूषितः ।तेजसा रूपभावेन साक्षादग्निरिव ज्वलन्
आद्यमाजगवं नाम धनुर्गृह्य महावरम् ।इन्द्रो दिवि यथा भाति भुवि वेणात्मजस्तथा
तस्मिन् जाते महाभागे देवाश्च ऋषयोऽमलाः ।उत्सवं चक्रिरे सर्व्वे वेणस्य तनयं प्रति
दीप्यमानः स्ववपुषा वर्णैरेव महामतिः ।शरांश्च दिव्यान्रक्षार्थं कवचञ्च महाप्रभम्
ददाविन्द्रः सहस्राक्षो मालाञ्चाम्लानपुष्पिकाम्
जाते तस्मिन्महाभागे पृथौ वीरे महात्मनि
संप्रहृष्टानि भूतानि समस्तानि द्विजोत्तमाः ।सर्व्वतीर्थानि तोयानि पुण्यानि विविधानि
स्थावराणि चराण्येव अभ्यषिञ्चन्नराधिपम् ।महावीरं प्रजापालं पृथुमेवं द्विजोत्तमाः
पृथुं वैण्यं वड्रराज्ये अभिषिक्तं चराचरैः ।देवैर्विप्रैस्तथा सर्व्वैरभिषिक्तो महामनाः
राज्ञाञ्चैवाधिकारे वै पृथुर्वैण्यः प्रतापवान् ।तदा पित्रा प्रजाः सर्व्वाः कदा नैवानुरञ्जिताः
तेनानुरञ्जिताः सर्व्वाः सुखैर्मुभुदिरे तदा ।अनुरागात्तु वीरस्य नाम राजेत्यभाषत
प्रयातस्य सुधीरस्य समुद्रस्य द्विजोत्तमाः ।आपस्तस्तम्भिरे सर्व्वा भयात्तस्य महात्मनः
प्रयातस्य रथस्यापि तस्यैव महात्मनः ।दुर्गमार्गं विलोक्यैव स्वमार्गं पर्व्वता ददुः
ध्वजभङ्गं चक्रुस्ते गिरयः सर्व्व एव ते ।अकृष्टपच्या पृथिवी सर्व्वत्र कामधेनवः
पर्जन्यः कामवर्षी वेदयज्ञान् महोत्सवान् ।कुर्व्वन्ति ब्राह्मणाः सर्व्वे क्षत्त्रियाश्च तथापरे
सर्व्वकामफला वृक्षास्तस्मिन् शासति राजनि ।न दुर्भिक्षं व्याधिर्नाकालमरणं नृणाम्
सर्व्वे सुखेन जीवन्ति लोका धर्म्मपरायणाः ।तस्मिन् शासति दुर्द्धर्षे राजराजे महात्मनि
”इति पाद्मोत्तरखण्डे २९ अध्यायः
*
तस्य माहात्म्यं यथा, --“पृथुना प्रविभक्ता शोभिता वसुन्धरा ।शस्यरत्नवती स्फीता पुरपत्तनशालिनी
एवं प्रभावो वैण्यश्च राजासीद्राजसत्तमः ।नमस्यश्चैव पूज्यश्च भूतिकामैर्नरोत्तमैः
ब्राह्मणैर्व्वेदकामैश्च पृथुर्वैण्यः प्रतापवान् ।आदिकर्त्ता रणानाञ्च योधानां प्रथमो नृपः
यो हि योद्धा रणं याति कीर्त्तयित्वा पृथुं नृपम् ।घोररूपान् संग्रामान् क्षेमी तरति कीर्त्ति-मान्
वैश्यैरपि हि शूद्रैश्च स्वाः स्वा वृत्तीरनुश्रितैः ।पृथुरेव नमस्कार्य्यः सर्व्वसिद्धिकरस्तु सः
एवं पृथुरभूत् पूर्व्वं प्रसादाच्चक्रपाणिनः ।सार्व्वभौमो महातेजा दुर्व्विषह्यः सुरासुरैः
”तस्य पुत्त्रौ द्वौ यथा, --“पृथोः पुत्त्रौ तु धर्म्मज्ञौ जज्ञातेऽन्तर्द्धिपाणिनौ ।शिखण्डी हविर्द्धानमन्तर्द्धानाद्व्यजायत
”अरेणाभूराज्ञः पुत्त्रः यथा, अग्निपुराणे ।“अयोधस्तस्य पुत्त्रोऽभूत् ककुत्स्थो नाम वीर्य्य-वान् ।ककुत्स्थस्य अरेणाभूस्तस्य पुत्त्रः पृथुः स्मृतः
”अग्निः इति मेदिनी थे, १०
(प्रियव्रत-वंशोद्भवस्य विभोः पुत्त्रः यथा, विष्णुपुराणे ।२ ३८ ।“भुवस्तस्मात् तथोद्गीथः प्रस्तारस्तत्सुतो विभुः ।पृथुस्ततोऽभवन्नक्तो नक्तस्यापि गयः सुतः
”तामसमन्वन्तरे ऋषिविशेषः यथा, मार्कण्डेये ।७४ ५९ ।“ज्योतिर्धामा पृथुः काव्यश्चैत्रोऽग्निर्वलकस्तथा ।पीवरश्च तथा ब्रह्मन् ! सप्त सप्तर्षयोऽभवन्
”)
पृथुः,
स्त्री,
(प्रथते विस्तारमेतीति प्रथ + कुःसम्प्रसारणञ्च ।) कृष्णजीरकः इत्यमरः ।९ ३७
(एतत्पर्य्यायो यथा, --“कृष्णजीरः सुगन्धश्च तथैवोद्गारशोधनः ।कालाजाजी तु सुषवी कालिका चोपकालिका
पृथ्वीका कारवी पृथ्वी पृथुः कृष्णोपकुञ्चिका ।उपकुञ्ची कुञ्ची बृहज्जीरक इत्यपि
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)त्वक्पर्णी हिङ्गुपत्री इति मेदिनी थे, १०
(पर्य्यायोऽस्या यथा, --“हिङ्गुपत्री तु कवरी पृथ्विका पृथुका पृथुः
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)अहिफेनः इति शब्दरत्नावली
पृथुः, त्रि, (प्रथ + कुः सम्प्रसारणञ्च ।) महत् ।इत्यमरः ६०
(यथा, आर्य्यासप्त-शत्याम् ११७ ।“उल्लसितभ्रूधनुषा तव पृथुना लोचनेन रुचि-राङ्गि ! ।अचला अपि महान्तः के चञ्चलभाव-मानीताः
”)निपुणः इति शब्दरत्नावली