| YouTube Channel

पृथिवीगीता (pRthivIgItA)

 
शब्दकल्पद्रुमः
Sanskrit
पृथिवीगीता,
स्त्री,
(पृथिव्या गीता ।) पृथिवी-कथा यथा, --“मैत्रेय ! पृथिवीगीताः श्लोकाश्चात्र निबोधतान् ।यानाह धर्म्मध्वनिने जनकायासितो मुनिः
श्रीपृथिव्युवाच ।कथमेष नरेन्द्राणां मोहो बुद्धिमतामपि ।येन केन सधर्म्माणोऽप्यतिविश्वस्तचेतसः
पूर्व्वमात्मजयं कृत्वा जेतुमिच्छन्ति मन्त्रिणः ।ततो भृत्यांश्च पौरांश्च जिगीषन्ते तथा रिपून्
क्रमेणानेन जेष्यामो वयं पृथ्वीं ससागराम् ।इत्यासक्तधियो मृत्युं पश्यन्त्यविदूरगम्
समुद्रावरणं याति मन्मण्डलमथो वशम् ।कियदात्मजयादेतन्मुक्तिरात्मजये फलम्
उत्सृज्य पूर्व्वे यां याता यां नादाय गतःपिता ।तां मामतिविमूढत्वाज्जेतुमिच्छन्ति पार्थिवाः
मत्कृते पितृपुत्त्राणां भ्रातॄणाञ्चापि विग्रहाः ।जायन्तेऽत्यन्तमोहेन ममत्वादृतचेतसाम्
पृथ्वी ममेयं सकला ममेयंममेति चैषा मम शाश्वतेयम् ।यो यो मृतेऽन्यत्र बभूव राजाकुबुद्धिरासीद्रिति तस्य तस्य
दृष्ट्वा ममत्वादृतचित्तमेकंविहाय मां मृत्युपथं व्रजन्तम् ।तस्यान्वयस्तत्र कथं ममत्वंहृद्यास्पदं मत्प्रभवं करोति
पृथ्वी ममैषाशु परित्यजैनांवदन्ति ये दूतमुखैः स्वशत्रून् ।नराधिपास्तेषु ममातिहासःपुनश्च मूढेषु दयाभ्युपैति
श्रीपराशर उवाच ।इत्येते धरणीगीताः श्लोका मैत्रेय यैः श्रुताः ।ममत्वं विलयं याति तापन्यस्तं यथा हिमम्
”इति विष्णुपुराणे अंशे २४ अध्यायः