| YouTube Channel

पृतनाषाट् (pRtanASAT)

 
Shabdartha Kaustubha
Kannada
पृतनाषाट्(ह्)
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಇಂದ್ರ
निष्पत्तिः - > षण (मर्षणे) - "ण्विः" (३-२-६३) सस्य षत्वम् (८-३-१०९) (ಇದು ಛಾಂದಸ ಪ್ರಯೋಗ. ಲೌಕಿಕ ಪ್ರಯೋಗದಲ್ಲಿ) - षह (मर्षणे) + णिच् - "क्विप्" (३-२-७६) षत्वम् (८-३-५६)
व्युत्पत्तिः - > पृतनां सहते, पृतनां साहयति अभिभवति
अभिधानरत्नमाला
Sanskrit
इन्द्र
इन्द्र, दुश्च्यवन, हरि, सुरपति, सङ्क्रन्दन, वासव, वृत्रारि, बलसूदन, शतमख, वृद्धश्रवस्, कौशिक, जिष्णु, वज्रधर, सहस्रनयन, वास्तोष्पति, गोपति, पर्जन्य, मघवन्, वृषन्, हरिहय, प्राचीनबर्हिस्, पुरुहूत, पृतनाषाट्, पुरन्दर, पूर्वदिक्पति, स्वाराज्, आखण्डल, तुराषाह्, सुत्रामन्, गोत्रभिद्, सुनासीर, शक्र, उग्रधन्वन्, हरिवत्, पाकशासन, दिवस्पति, विडौजस्, मरुत्वत्, मेघवाहन
इन्द्रो दुश्च्यवनो हरिः सुरपतिः सङ्क्रन्दनो वासवो,
वृत्रारिर्बलसूदनः शतमखो वृद्धश्रवाः कौशिकः
जिष्णुर्वज्रधरः सहस्रनयनो वास्तोष्पतिर्गोपतिः,
पर्जन्यो मघवा वृषा हरिहयः प्राचीनबर्हिः स्मृतः ५२
पुरुहूतः पृतनाषाट् पुरन्दरः पूर्वदिक्पतिः स्वाराट्
आखण्डलस्तुराषाट् सुत्रामा गोत्रभित्सुनासीरः ५३
शक्रः स्यादुग्रधन्वा हरिवान्पाकशासनः
दिवस्पतिर्विडौजाश्च मरुत्वान्मेघवाहनः ५४
verse 1.1.1.52
page 0008
शब्दकल्पद्रुमः
Sanskrit
पृतनाषाट्, [साह्]
पुं,
(पृतनां सहते इति ।सह + “छन्दसि सहः ।” ६३ इतिण्विः सहेरिति षः ।) इन्द्रः इति त्रिकाण्ड-शेषः