| YouTube Channel

पृची (pRcI)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
पृच्
मूलधातुः:
पृची
धात्वर्थः:
सम्पर्चने
गणः:
अदादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
पृक्ते
धातुः:
पृच्
मूलधातुः:
पृची
धात्वर्थः:
सम्पर्चने
गणः:
रुधादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
पृणक्ति
धातुप्रदीपः
Sanskrit
पृचीँ पृची सम्पर्के
- पृणक्ति पपर्च पर्चिता अपृणक् सम्पृक्तम् मधुपर्कः मधुपर्कमर्हति मधुपर्क्यः पृक्त इत्यदादिपाठात्, वृक्त इति 25
क्षीरतरङ्गिणी
Sanskrit
पृचीँ पृची सम्पर्के
- (अर्थविवरणम्) सम्पर्को मिश्रणम्
पृक्ते सम्पृक्तः रुधादौ (730) पृणक्ति पृचि इति कौशिकः-पृङ्क्ते, 18
पृचीँ पृची संपर्के
- पृणक्ति सम्पृक्त, घञ् (द्र0 3319) सम्पर्कः, मधुपर्कः अदादौ (221) पृक्ते चुरादौ युज पृची संपर्चने (10202) वा णिच्-संपर्चयति संपर्चति 25
धातुवृत्तिः
Sanskrit
पृचीँ पृची (अर्थः) सम्पर्चने
ओष्ठ्यादिरीदित्, ( पृक्ते ) इत्यादि वृजीवत् इदिदिति दुर्गकाश्यपनन्दिधनपालादयः इदित्तृतीयान्त इति कौशिकः ईदिदित्यपरे तत्र वृत्तौ सम्पृचादिसूत्रेपृची सम्पर्क इति रुधादिर्गृह्यते त्वादादिरित्यभिधानात् प्रथमान्त ईदिदेव युक्तः उणादिवृत्तौ पर्जन्यशब्दव्युत्पादने अर्जेः पर्ज वेत्यन्यप्रत्यये पर्जादेशविधानाच्चायुक्तस्तृतीत्यान्तपाठः, पिजु वृजु पृचै सम्पर्चने इति पठन् शाकटायनोऽप्यत्रैवानुकूलः, तेन ह्युदिदित्स्थाने क्रियते ईदित्स्थाने चैदिदित्युक्तम् अयं रुधादौ, युज पृच संयमनइति युजादौ ईरादय उदात्ताअनुदात्तेतः 20
पृचीँ पृची (अर्थः) सम्पर्के
( पृणक्ति पृङ्क्तः पृञ्चन्ति पपर्च पपृचतुः पपर्चिथ ) इत्यादि वृजिवत् ( संपर्की ) सम्पृचेत्यादिना घिनुण् तृहादय उदात्ता उदात्तेतः25
कृदन्तरूपमाला
Sanskrit
1 {@“पृची सम्पर्चने”@} 2 सम्पर्चनम् = मिश्रीकरणम्।
‘पृणक्ति पृक्ते 3 सम्पर्के, यौ पर्चयति पर्चति।।’ 4 इति देवः।
“उदित्--इति दुर्ग-काश्यप-नन्दि-धनपालादयः।
‘इदित्, तृतीयान्तः।’ इति कौशिकः।
‘ईदित्--’ इत्यपरे।
तत्र वृत्तौ ‘सम्पृच--’ 5 आदिसूत्रे, “पृची सम्पर्के’ इति रुधादिर्गृह्यते, त्वदादिः।” इत्यभिधानात् प्रथमान्त ईदिदेव युक्तः।” इति मा।
धा।
वृत्तौ।
‘पृचे--’ इति शाकटायनः।
पर्चकः-र्चिका, पर्चकः-र्चिका, पिपर्चिषकः-षिका, परीपृचकः-चिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकगृजधातुवत् 6 ज्ञेयानि।
7 पृक्तः- पृक्तम्-पृक्तवान्, इति, 8 पृच्यम्, 9 सम्पर्कः, मधुपर्कः, 10 संपृचानः इति रूपाणि धातोरस्य निष्ठा-ण्यद्-घञादिषु भवन्तीति विशेषः।
11
प्रासङ्गिक्यः
01
=>
(१०४८)
02
=>
(२-अदादिः-१०३०। सक। सेट्। आत्म।)
03
=>
(पृङ्क्ते)
04
=>
(श्लो। ५१)
05
=>
(३-२-१४२)
06
=>
(४२२)
07
=>
[[२। ‘श्वीदितो निष्ठायाम्’ (७-२-१४) इतीण्निषेधः।]]
08
=>
[[३। ‘ऋदुपधात्--’ (३-१-११०) इति भावकर्मणोः क्यप्।]]
09
=>
[[४। निष्ठायामनिट्त्वात्, ‘चजोः कु घिण्ण्यतोः’ (७-३-५२) इति कुत्वम्।]]
10
=>
[[५। शानचि, ‘अदिप्रभृतिभ्यः--’ (२-४-७२) इति शपो लुकि रूपम्।]]
11
=>
[पृष्ठम्०८८८+ २७]
1 {@“पृची सम्पर्के”@} 2 ‘पृणक्ति पृक्ते 3 सम्पर्के, यौ पर्चयति पर्चति।।’ 4 इति देवः।
पर्चकः-र्चिका, पर्चकः-र्चिका, पिपर्चिषकः-षिका, परीपृचकः-चिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकगृजधातुवत् 5 ज्ञेयानि।
शतरि- 6 पृञ्चन्-ती, घञि-- 7 सम्पर्कः, घिनुणि- 8 सम्पर्की, निष्ठायाम्-पृक्तः, इति रूपाण्यस्य भवन्तीति विशेषः।
प्रासङ्गिक्यः
01
=>
(१०४९)
02
=>
(७-रुधादिः-१४६२। सक। सेट्। पर।)
03
=>
(पृङ्क्ते)
04
=>
(श्लो। ५१)
05
=>
(४२२)
06
=>
[[१। शतरि, ‘रुधादिभ्यः--’ (३-१-७८) इति श्नम् विकरणप्रत्ययः। मित्त्वादन्त्या- दचः परो भवति। ‘श्नसोरल्लोपः’ (६-४-१११) इति श्नमोऽकारस्य लोपः। नकारस्यानुस्वारे, परसवर्णे रूपमेवम्।]]
07
=>
[[२। निष्ठायामनिट्त्वेन ‘चजोः कु--’ (७-३-५२) इति घञि कुत्वम्।]]
08
=>
[[३। ‘सम्पृचानुरुध--’ (३-२-१४२) इत्यादिना सम्पूर्वकादस्मात् कर्तरि, तच्छीलादि- ष्वर्थेषु घिनुण्प्रत्ययः। ‘चजोः--’ (७-३-५२) इति कुत्वम्।]]