| YouTube Channel

पृच (pRca)

 
Wilson
English
पृच (ई) पृची r. 2nd cl. (पृक्ते) r. 7th cl. (पृणक्ति) To
touch, to be or bring in contact. r. 1st and 10th cls. (पर्चति पर्चयति)
1 To hinder or restrain.
2 To touch.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
पृच्
मूलधातुः:
पृच
धात्वर्थः:
संयमने
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
पर्चयति-ते
अनुबन्धादिविशेषः:
आधृषीयः
शब्दकल्पद्रुमः
Sanskrit
पृच, सम्पर्के इति कविकल्पद्रुमः
(अदा०-आत्म०-अक०-सेट् निष्ठायामनिट् ।)ई, पृक्तः ङ, पृक्ते परीपृच्यते चेहसम्पृक्तीभावः सम्पृक्ते नाभिशस्तैर्य इति हला-युधः सम्पृक्ते मधुना चूर्णं भिषगिति तु अन्त-र्भूतञ्यर्थत्वादिति चतुर्भुजः इति दुर्गादासः
पृच, कि संयमने सम्पर्के इति कविकल्पद्रुमः
(चुरा० पक्षे भ्वा०-पर०-सक० सेट् ।) संयमनंबन्धनम् कि, पर्च्चयति पर्च्चति दुष्टं राजा ।इति दुर्गादासः
पृच, सम्पर्के इति कविकल्पद्रुमः
(रुधा०-पर०-सक०-अक० च-सेट् निष्ठायामनिट् ।)सम्पके इह संपृक्तीकरणं सम्पृक्तीभावश्च ।ध, पृणक्ति धनुषा बाणम् संपृणक्ति नपापिभिर्य इति हलायुधः ई, पृक्तः पपर्च्च ।इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
पृच सम्पर्के अदा० आत्म० अक० सेट् पृक्ते अपर्चिष्ट पपुचे ईदित् पृक्णः
पृच संयमने
सक०
सम्पर्के अक०
चु०
उभ०
पक्षे
भ्वा०
पर०
सेट् ।पचंयति--ते पर्चति अपीपृचत्--त अपपर्चत्--त अप-र्चीत्
कृदन्तरूपमाला
Sanskrit
1 {@“पृच संयमने”@} 2 आधृषीयः।
‘पृणक्ति पृक्ते 3 सम्पर्के, यौ पर्चयति पर्चति।।’ 4 इति देवः।
‘पृची सम्पर्चने’ इति क्षीरस्वामी।
देवोऽप्यत्रानुकूलः।
‘-- ‘सम्बन्धने--’ इति क्षीरस्वामी।’ इति पुरुषकारे।
आधृषीयत्वेन णिज्विकल्पः।
पर्चकः-र्चिका, पिपर्चयिषकः-षिका, पर्चकः-र्चिका, पिपर्चिषकः-षिका, परीपृचकः-चिका
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिकचर्पयतिवत् 5 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(१०४७)
02
=>
(१०-चुरादिः-१८०८। सक। सेट्। उभ।)
03
=>
(पृङ्क्ते)
04
=>
(श्लो। ५१)
05
=>
(५५४)