| YouTube Channel

पृङ् (pRG)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
पृ
मूलधातुः:
पृङ्
धात्वर्थः:
व्यायामे
गणः:
तुदादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
आत्मनेपदी
रूपम्:
(व्या)प्रियते
अनुबन्धादिविशेषः:
ऋकारान्तः
धातुप्रदीपः
Sanskrit
पृङ् व्यायामे
- व्याप्रियते व्यापप्रे व्यापर्त्ता व्यापरिष्यते व्यापुपूर्षते व्यापारयति व्यापीपरत् व्यापृत्य व्यापृतः व्यापारः संपारः 128
क्षीरतरङ्गिणी
Sanskrit
पृङ् व्यायामे
- (अर्थविवरणम्) व्यायाम उद्योगः
व्याप्रियते, वृत्तौ विग्रहणात् व्यापृतः व्यापारः 121
धातुवृत्तिः
Sanskrit
पृङ् (अर्थः) व्यायामे
ओष्ठ्यादिः प्रायेणायं व्याङ्पूर्वः ( व्याप्रियते ) "रिङ् शयग्लिङ्क्षु'' इति रिङादेशः, तस्येयङादेशः ( व्यापप्रे व्यापप्राते व्यापर्त्ता व्यापर्त्तासे व्यापरिष्यते) "ऋद्धनोः स्ये''इतीट् (व्याप्रियताम् व्याप्रियत व्याप्रियेत) आशिषि (व्यापृषीष्ट व्यापृषीयास्ताम् व्यापृषीरन् व्यापृत व्यापृषाताम् व्यापृषत ) "ह्रस्वादङ्गाद्'' इति झलि सिचो लोपः "उश्च'' इति लिङ्सिचोः कित्त्वान्न गुणः ( व्यापुपूर्षते ) "इको झल्'' इति सनः कित्त्वात्''अज्झनगमां सनि'' इति दीर्घे "उदोष्ठ्यपूर्वस्य'' इत्युत्वे रपरत्वे "हलि च'' इति दीर्घः ( व्यापेप्रीयते ) "रीङ् ऋत'' इति रीङ् ( व्यापर्पर्ति ) इत्यादि "ऋतश्च'' इति रुग्रिग्रीकः (व्यापारयति व्यापीपरत् व्यापृत्य व्यापृतवान् ) 118
कृदन्तरूपमाला
Sanskrit
1 {@“पृङ् व्यायामे”@} 2 ‘व्यायामः = उद्योगः।
प्रवृत्तिमात्रम्।’ इति धा।
का।
3।
‘प्रीतौ पृणोत्यृदन्तस्य, व्यायामे प्रियते पृङः।’ 4 इति देवः।
प्रायेणायम् ‘वि, आङ्’ इत्युपसर्गद्बयपूर्वकः।
पारकः-रिका, पारकः-रिका, पुपूर्षकः-र्षिका, पेप्रीयकः-यिका
5 इत्यादीनि सर्वाण्यपि रूपाणि जौहोत्यादिकपिपर्तिवत् 6 ज्ञेयानि।
शानचि -- 7 व्याप्रियमाणः, इति रूपम्।
प्रासङ्गिक्यः
01
=>
(१०४६)
02
=>
(६-तुदादिः-१४०२। अक। अनि। आत्म।)
03
=>
(२-८३)
04
=>
(श्लो। ३४)
05
=>
[पृष्ठम्०८८७+ २८]
06
=>
(१०४४)
07
=>
[[१। शानचि, ‘तुदादिभ्यः’ -- (३-१-७७) इति शप्रत्यये, ‘रिङ् शयग्लिङ्क्षु’ (७-४-२८) इति रिङादेशः।]]