| YouTube Channel

पूर्व्वरूपं (pUrvvarUpaM)

 
शब्दकल्पद्रुमः
Sanskrit
पूर्व्वरूपं,
क्ली,
(पूर्व्वं रूपमिति कर्म्मधारयः ।)पूर्व्वलक्षणम् वैद्यके भाविव्याधिबोधकचिह्रम् ।यथा, --“--प्राग्रूपं येन लक्ष्यते ।उत्पित्सुरामयो दोषविशेषेणानधिष्ठितः ।लिङ्गमव्यक्तमल्पत्वाद्व्याधीनां तद्यथायथम्
”द्विविधं हि पूर्व्वरूपं भवति सामान्यं विशि-ष्टञ्च सामान्यं येन दोषदूष्यसंमूर्च्छनावस्था-जनितेन भाविज्वरादिव्याधिमात्रं प्रतीयते नतु वातादिजनितत्वादिविशेषः यथा श्रमोरतिर्विवर्णत्वमिति तथा बालगुरुवाक्यप्रद्वे-ऽषादि सामान्याभिप्रायेणैव तन्त्रान्तरं यथा ।व्याधेर्जातिर्व्वुभूषा पूर्व्वरूपेण लक्ष्यते ।भावः किमात्मकत्वञ्च लक्ष्यते लक्षणेन तु इति
तथाह पराशरः पूर्व्वरूपं नाम येन भावि-व्याधिविशेषो लक्ष्यते तु दोषविशेष इति ।विशिष्टं यथा उरःक्षतादौ लिङ्गान्येव वाता-दिजान्यव्यक्तानि यदुक्तं तत्रैव अव्यक्तंलक्षणं तेषां पूर्व्वरूपमिति स्मृतमिति तथाहसुश्रुतः ।सामान्यतो विशेषात्तु जृम्भात्यर्थं समीरणात् ।पित्तान्नयनयोर्द्दाहः कफान्नान्नाभिनन्दनमिति
हारीतेऽप्युक्तम् इति पूर्व्वरूपमष्टानां ज्वराणांसामान्यतो विशेषात्तु जृम्भाङ्गमर्द्दभूयिष्ठं हृद-योद्वेगि वातजमिति प्राग्रूपं येन लक्ष्यते इत्य-स्यार्थमाह रक्षितः येन श्रमादिना उत्पित्सुःसामग्रीसाकल्यादुत्पादेच्छरामयो रोगः दोष-विशेषेण वातादिजन्यासाधारणवेपथ्वादिना अन-धिष्ठितोऽसम्बद्धो लक्ष्यते ज्ञायते तत्प्राग्रूपमिति ।लिङ्गमव्यक्तमल्पत्वादित्यस्यार्थमाह एव ।प्राग्रूपमित्यनेन पूर्व्वोक्तेन सम्बन्धः लिङ्गं लक्ष-णम् अव्यक्तं नात्यभिव्यक्तं तत्र हेतुरल्पत्वात् नत्वावरणादियोगादव्यक्तत्वमित्यर्थः यथायथं यस्यव्याधेर्यद्रूपं तदेवाव्यक्तं तस्य पूर्व्वमित्यर्थः ।अन्ये तु पूर्व्वरूपलक्षणमाहुः ।स्थानसंश्रयिणः क्रुद्धा भाविव्याधिप्रबोधकम् ।दोषाः कुर्व्वन्ति यल्लिङ्गं पूर्व्वरूपं तदुच्यते
इति
संक्षेपतस्तु लक्षणं भाविव्याधिबोधकमेव लिङ्गंपूर्व्वरूपम् ।” इति माघवकरविजयरक्षितौ