| YouTube Channel

पूर्व्वभाद्रपदाः (pUrvvabhAdrapadAH)

 
शब्दकल्पद्रुमः
Sanskrit
पूर्व्वभाद्रपदाः,
स्त्री,
अश्विन्यादिसप्तविंशतिनक्षत्रान्तर्गतपञ्चविंशनक्षत्रम् ।तत्पर्य्यायः प्रोष्ठपदाः ।इत्यमरः
“द्वे पूर्व्वभाद्रपदोत्तरभाद्रपदासु ।प्रोष्ठो गौः भद्रश्च गौः तस्येव याद आसांतास्तथा ग्रहपतिरिव भद्रपादानुगतो राजे-त्याश्चर्य्यमञ्जरी श्लेषाद्भद्रपदाशब्दो ह्रस्वादिःभाद्रपदाशब्दोदीर्घादिरपीतिकेचित् दीर्घादि-पाठः प्रामादिक इति मुकुटादयः
पूर्व्वे प्रोष्ठ-पदे द्वे उत्तरे तु भद्रपदे द्वे समुदायश्चासांचतुःसंख्य इति बहुवचनम् कदा पूर्व्वे प्रोष्ठ-पदे कदा उत्तरे प्रोष्ठपदे इति तारकयोर्द्वित्वात्द्विवचनम् फल्गुनीप्रोष्ठपदाशब्दो द्वित्वे बहुत्वेच भद्रपदा द्वेऽपीति केचित् भद्रपदेन युक्तःकाल इति प्रयोगात् पुंलिङ्गोऽपि भद्रपद इतिकेचित् ।” इति तट्टीकायां भरतः
*
तां तु दक्षिणोत्तरवर्त्तिखट्वाकृतितारकाद्वया-त्मिकाः भाराकृतिताराद्वयरूपा वा तदधि-देवता अजपादः आसां जघन्यगुणः इतिज्योतिषम्
अपि ।“भारमूर्त्तिभृतिकोपरिस्थितेपूर्व्वभाद्रपदभे द्वितारके ।लिप्तिकाः करिकराक्षि २२८ संमितानिःसरन्ति वृषभोदयात् प्रिये !
”द० ४८ इति कालिदासकृतरात्रिलग्न-निरूपणम्
*
तत्र जातफलम् ।“जितेन्द्रियः सर्व्वकलासु दक्षोजितारिपक्षः खलु तस्य नित्यम् ।भवेन्महीयान् सुतरामपूर्व्वापूर्व्वा यदा भाद्रपदा प्रसूतौ
”इति कोष्ठीप्रदीपः