| YouTube Channel

पूर्व्वभद्रपदः (pUrvvabhadrapadaH)

 
शब्दकल्पद्रुमः
Sanskrit
पूर्व्वभद्रपदः,
पुं,
अश्विन्यादिसप्तविंशतिनक्षत्रान्तर्गतपञ्चविंशनक्षत्रम् ।तत्पर्य्यायः प्रोष्ठपदाः ।इत्यमरः
“द्वे पूर्व्वभाद्रपदोत्तरभाद्रपदासु ।प्रोष्ठो गौः भद्रश्च गौः तस्येव याद आसांतास्तथा ग्रहपतिरिव भद्रपादानुगतो राजे-त्याश्चर्य्यमञ्जरी श्लेषाद्भद्रपदाशब्दो ह्रस्वादिःभाद्रपदाशब्दोदीर्घादिरपीतिकचित् दीर्घादि-पाठः प्रामादिक इति मुकुटादयः
पूर्व्वे प्रोष्ठ-पदे द्वे उत्तरे तु भद्रपदे द्वे समुदायश्चासांचतुःसंख्य इति बहुवचनम् कदा पूर्व्वे प्रोष्ठ-पदे कदा उत्तरे प्रोष्ठपदे इति तारकयोर्द्वित्वात्द्विवचनम् फल्गुनीप्रोष्ठपदाशब्दो द्वित्वे बहुत्वेच भद्रपदा द्वेऽपीति केचित् भद्रपदेन युक्तःकाल इति प्रयोगात् पुंलिङ्गोऽपि भद्रपद इतिकेचित् ।” इति तट्टीकायां भरतः
*