| YouTube Channel

पूर्व्वः (pUrvvaH)

 
शब्दकल्पद्रुमः
Sanskrit
पू(र्व्व)र्ब्बः, त्रि, (पूर्व्व निमन्त्रणे निवासे वा +अच् ।) प्रथमः (यथा, कुमारे ५३ ।“यदैव पूर्व्वे जनने शरीरंसा दक्षरोषात् सुदती ससर्ज्ज ।तदा प्रभृत्येव विमुक्तसङ्गःपतिः पशूनामपरिग्रहोऽभूत्
”यथाच मनुः १८४ ।“गुरोः कुले भिक्षेत ज्ञातिकुलबन्धुषु ।अलाभे त्वन्यगेहानां पूर्व्वं पूर्व्वं विवर्ज्जयेत्
”)आदिः (यथा, मनुः ७४ ।“ब्राह्मणः प्रणवं कुर्य्यादादावन्ते सर्व्वदा ।स्रवत्यनोङ्कृतं पूर्व्वं पुरस्ताच्च विशीर्य्यति
”)प्राग्दिग्-देशकालाः इत्यमरः
(यथा, मनुः ९२ ।“दक्षिणेन मृतं शूद्रं पुरद्वारेण निर्हरेत् ।पश्चिमोत्तरपूर्व्वैस्तु यथायोगं द्विजन्मनः
”)समग्रम् इति तट्टीकायां स्वामी
अग्रः ।इति हलायुधः
(यथा, मनुः ५० ।“त्रिराचामेदपः पूर्व्वं द्विः प्रमृज्यात्ततो मुखम् ।खानि चैव स्पृशेदद्भिरात्मानं शिर एव
”)