| YouTube Channel

पूर्वयमाणः (pUrvayamANaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“पुर्व निकेतने”@} 2 ‘पूरणे पूर्वतीति स्यात् पूर्वयेत् णौ निकेतने।।’ 3 इति देवः।
‘पूर्व निकेतने’ इति मैत्रेयः।
अत्र क्षीरस्वामी-- “पूर्वनिकेतनम् = आद्यनिवासः।
पारायणे-द्वौ धातू” इति।
4 5 पूर्वकः-र्विका, पुपूर्वयिषकः-षिका, पूर्वयिता-त्री, पुपूर्वयिषिता-त्री
पूर्वयन्-न्ती, पुपूर्वयिषन्-न्ती-ती
पूर्वयिष्यन्-न्ती-ती, पुपूर्वयिषिष्यन्-न्ती-ती
पूर्वयमाणः, पुपूर्वयिषमाणः, पूर्वयिष्यमाणः, पुपूर्वयिषिष्यमाणः, 6 पूर्वितम्-तः, पुपूर्वयिषितः-तवान्
पूर्वयिटू-यिषौ-यिषः
पूर्वः, पुपूर्वयिषुः, पूर्वयितव्यम्, पुपूर्वयिषितव्यम्, पूर्वणीयम्, पुपूर्वयिषणीयम्, पूर्व्यम्, पुपूर्वयिष्यम्, ईषत्पूर्वः-दुष्पूर्वः-सुपूर्वः, पूर्व्यमाणः, पुपूर्वयिष्यमाणः
पूर्वः, पुपूर्वयिषः, पूर्वयितुम्, पुपूर्वयिषितुम्, पूर्वणा, पुपूर्वयिषा, पूर्वणम्, पुपूर्वयिषणम्, पूर्वयित्वा, पुपूर्वयिषित्वा, प्रपूर्व्य, प्रपुपूर्वयिष्य, पूर्वम् २, पूर्वयित्वा २, पुपूर्वयिषम् २, पुपूर्वयिषित्वा २।
प्रासङ्गिक्यः
01
=>
(१०२३)
02
=>
(१०-चुरादिः-१६६६। अक। सेट्। उभ।)
03
=>
(श्लो। १६२)
04
=>
[पृष्ठम्०८७१+ २८]
05
=>
[[१। ‘उपधायां च’ (८-२-७८) इति सर्वत्र दीर्घः।]]
06
=>
[[आ। ‘मञ्चाग्रपूर्वितनृपे शिशुना रणं वः स्यादेव मानपरिजंसकमीड्यधाम्नाम्।।’ धा। का। ३। ३१।]]