| YouTube Channel

पूर्वभद्रपदाः (pUrvabhadrapadAH)

 
अभिधानचिन्तामणिः
Sanskrit
--source--
वारुणी तु शतभिषगजाहिर्बुध्नदेवताः ११४
पूर्वोत्तरा भाद्रपदा द्वय्यः प्रोष्ठपदाश्च ताः
-wordlist-
वारुणी (स्त्री), शतभिषज् (स्त्री), अजदेवताः (स्त्रीब), पूर्वभद्रपदाः (स्त्रीब), अहिर्बुध्नदेवताः (स्त्रीब), उत्तरभद्रपदाः (स्त्रीब), प्रोष्ठपदाः (स्त्रीब)
शब्दकल्पद्रुमः
Sanskrit
पूर्व्वभद्रपदाः,
स्त्री,
अश्विन्यादिसप्तविंशतिनक्षत्रान्तर्गतपञ्चविंशनक्षत्रम् ।तत्पर्य्यायः प्रोष्ठपदाः ।इत्यमरः
“द्वे पूर्व्वभाद्रपदोत्तरभाद्रपदासु ।प्रोष्ठो गौः भद्रश्च गौः तस्येव याद आसांतास्तथा ग्रहपतिरिव भद्रपादानुगतो राजे-त्याश्चर्य्यमञ्जरी श्लेषाद्भद्रपदाशब्दो ह्रस्वादिःभाद्रपदाशब्दोदीर्घादिरपीतिकचित् दीर्घादि-पाठः प्रामादिक इति मुकुटादयः
पूर्व्वे प्रोष्ठ-पदे द्वे उत्तरे तु भद्रपदे द्वे समुदायश्चासांचतुःसंख्य इति बहुवचनम् कदा पूर्व्वे प्रोष्ठ-पदे कदा उत्तरे प्रोष्ठपदे इति तारकयोर्द्वित्वात्द्विवचनम् फल्गुनीप्रोष्ठपदाशब्दो द्वित्वे बहुत्वेच भद्रपदा द्वेऽपीति केचित् भद्रपदेन युक्तःकाल इति प्रयोगात् पुंलिङ्गोऽपि भद्रपद इतिकेचित् ।” इति तट्टीकायां भरतः
*