| YouTube Channel

पूर्वपक्षपाद (pUrvapakSapAda)

 
शब्दसागरः
English
पूर्व्वपक्षपाद
m.
(-दः) The first division of legal proceeding, the plaint.
E.
पूर्व्वपक्ष, and पाद quarter.
Yates
English
पूर्व्व-पक्षपाद (दः) 1.
m.
First part of a suit.
Wilson
English
पूर्व्वपक्षपाद
m.
(-दः) The first division of legal proceeding, the
plaint.
E.
पूर्व्वपक्ष, and पाद quarter.
Monier Williams Cologne
English
पूर्व—पक्ष—पाद
m.
the first step of a legal process or law-suit, the plaint of the plaintiff,
W.
शब्दकल्पद्रुमः
Sanskrit
पूर्व्वपक्षपादः,
पुं,
(पूर्व्वपक्ष एव पादः ।) चतु-ष्पादव्यवहारान्तर्गतः प्रथमः पादः तस्यसंज्ञान्तरम् भाषा प्रतिज्ञा पक्षः ।इति मिताक्षरा
तत्र बृहस्पतिः ।“पूर्व्वपक्षः स्मृतः पादो द्विपादश्चोत्तरः स्मृतः ।क्रियापादस्तथा चान्यश्चतुर्थो निर्णयः स्मृतः
मिथ्योक्तौ चतुष्पात् स्यात् प्रत्यवस्कन्दने तथा ।प्राङ्न्याये विज्ञेयो द्विपात् संप्रतिपत्तिषु
”यद्यपि संप्रतिपत्तावपि निर्णयोऽस्ति तथाप्युत्तर-वादिनैव भाषार्थस्याङ्गीकृतत्वेन क्रियासाध्यो नभवतीति द्विपादतोक्ता
*
अथ भाषापादः तत्र भाषास्वरूपमाहतुःकात्यायनबृहस्पती ।“प्रतिज्ञादोषनिर्मुक्तं साध्य सत्कारणान्वितम् ।निश्चितं लोकसिद्धञ्च पक्षं पक्षविदो विदुः
स्वल्पाक्षरः प्रभूतार्थो निःसन्दिग्धो निराकुलः ।विरोधिकारणैर्मुक्तो विरोधिप्रतिरोधकः
यदा त्वेवंविधः पक्षः कल्पितः पूर्व्ववादिना ।दद्यात्तत्पक्षसम्बद्धं प्रतिवादी तदोत्तरम्
”प्रतिज्ञा साध्याभिधायिका वाक् तस्या दोषैःपरस्परविरुद्धार्थपदादिभिस्त्यक्तम् साध्यंसाधनार्हाभिमतार्थं पक्षं विदुः अन्यथाप्रतिज्ञादोषेण साध्यदोषः स्यात् अतएवोक्तम् ।“वचनस्य प्रतिज्ञात्वं तदर्थस्य पक्षता ।असङ्करेण वक्तव्ये व्यवहारषु वादिभिः
”वक्तव्ये पक्षप्रतिज्ञे पूर्व्वोक्ते नारदेनापि ।“सारस्तु व्यवहाराणां प्रतिज्ञा समुदाहृता ।तद्धानौ हीयते वादी तरंस्तामुत्तरो भवेत्
”उत्तरो विजयी यद्यप्यन्यत्र साध्यं ज्ञाप्यं तद्वि-शिष्टधर्म्मी पक्ष इति भेदः तथाप्यत्र वाक्-प्रत्याय्यर्णादिधर्म्मविशेषविशिष्टस्य पक्षतयाधर्म्मिणोऽधमर्णादेरेव साध्यत्वात् साध्यपक्षयोर-भेदाभिधानम् अतएव उपसंहारे एवंविधःपक्ष इति मिताक्षरायान्तु भाषा प्रतिज्ञापक्षइति नार्थान्तरमित्युक्तम् भाषार्थमुक्त्वा भाषा-स्वरूपप्रपञ्चमाह स्वल्पाक्षर इति निराकुलःपौर्ब्बापर्य्यविपर्य्यासादिशून्यः ।“अत्र द्यूते व्यवहारे प्रव्रते यज्ञकर्म्मणि ।यानि पश्यन्त्युदासीनाः कर्त्ता तानि पश्यति
”इति गृह्यसंग्रहवचनादुदासीनेभ्यो ज्ञात्वा शोघ-येत् तच्छोधनमाह बृहस्पतिः ।“न्यूनाधिकं पूर्व्वपक्षं तावद्वादी विशोधयेत् ।न दद्यादुत्तरं यावत् प्रत्यर्थी सभ्यसन्निधौ
”तल्लिखनप्रकारमाह व्यासः ।“पाण्डुलेख्येन फलके भूमौ वा प्रथमं लिखेत् ।ऊनाधिकन्तु संशोध्य पश्चात् पत्रे निवेशयेत्
”फलकं काष्ठादिपट्टकम् कात्यायनः ।“पूर्व्वपक्षं स्वभावोक्तं प्राड्विवाकोऽथ लेखयेत् ।पाण्डुलेख्येन फलके ततः पत्रेऽभिलेखयेत्
शोधयेत् पूर्व्वपक्षन्तु यावन्नोत्तरदर्शनम् ।उत्त्ररेणावरुद्धस्य निवृत्तिः शोधनं भवेत्
अन्यदुक्तं लिखेद्योऽन्यदर्थिप्रत्यर्थिनोर्वचः ।चौरवच्छासयेत्तन्तु घार्म्मिकः पृथिवीपतिः
”स्वभावोक्तमकृत्रिमम् एतच्च स्वरविशेषादिनासुज्ञेयम् अतएव याज्ञवल्क्यः ।“छलं निरस्य भूतेन व्यवहारान्नयेन्नृपः ।भूतमप्यनुपन्यस्तं हीयते व्यवहारतः
”भूतं तत्त्वार्थसम्बद्धम् यदाह नारदः ।“भूतं तत्त्वार्थं सम्बद्धं प्रमादाभिहितं छलम् ।किन्तु राज्ञा विशेषेण स्वधर्म्ममभिरक्षता
मनुष्यचित्तवैचित्र्यात् परीक्ष्या साध्वसाधुता ।सर्व्वेष्वर्थविवादेषु वाक्छलेनावसीदति
पशुस्त्रीभूम्यृणादाने शास्योऽप्यर्थान्न हीयते
”सर्व्वेषु अर्थविवादेषु प्रमादाभिधानेऽपि नावसी-दति अत्रोदाहरणं पशुस्त्रीत्यादि अर्थविवाद-ग्रहणान्मन्युकृतविवादेषु प्रमादाभिधाने प्रकृ-तार्थाद्धीयत इति गम्यते यथाहमनेन शिरसिपादेन ताडित इत्यभिधाय केवलं हस्तेन ताडितइति वदन् केवलं दण्ड्यः पराजीयते ।तथा त्वं शतं मह्यं ऋणं धारयसि मत्त ऋण-त्वेन गृहीततावद्धनकत्वादित्यादि भाषाशरीरंएतच्च संस्कृतदेशभाषान्यतरेण यथाबोधं वक्तव्यंलेख्यं वा मूर्खाणामपि वादिप्रतिवादित्वदर्श-नात् अतएवाध्यापनेऽपि तथोक्तम् विष्णु-धर्म्मोत्तरे ।“संस्कृतैः प्राकृतैर्व्वाक्ययः शिष्यमनुरूपतः ।देशभाषाद्युपायाद्यैर्बोधयेत् गुरुः स्मृतः
”इति व्यवहारतत्त्वम्