| YouTube Channel

पूर्बवत् (pUrbavat)

 
वाचस्पत्यम्
Sanskrit
पूर्व(र्ब)वत्
अव्य०
पूर्वस्येव पूर्वेण तुल्यं वा क्रियावति पू-र्वेण तुल्यक्रियान्वितभेदे पूर्वस्य तुल्ये पूर्वं कारणंविषयतयास्त्यस्य मतुप् मस्य वः कारणेन कार्य्या-नुमाने
न०
“अथ तत्पूर्वकं त्रिविधमनुमानं पूर्व-च्छेषवत्सामान्यतोदृष्टञ्च” गौत० सू० “पूर्वं कारणंतद्वत् कारणलिङ्गकम् यथा मेघोन्नतिविशेषेण कार्य्यानु-मानमिति” गौत० वृत्तिः “तत्रैकं दृष्टस्वलक्षणसामान्य-विषयं यत् तत् पूर्ववत्, पूर्वं प्रसिद्धं दृष्टस्वलक्षणसा-मान्यमिति यावत् तदस्य विषयत्वेनास्त्यनुमानज्ञान-स्येति पूर्ववत् यथा धूमाद्वह्नित्वसामान्यविशेष पर्वते-ऽनुमीयते तस्य वह्रिसामान्थविशेषस्य स्वलक्षणोवह्निविशेषो दृष्टो रसवत्याम्” सां० त० कौ०