| YouTube Channel

पूर्बराग (pUrbarAga)

 
वाचस्पत्यम्
Sanskrit
पूर्व(र्ब)राग
पु०
पूर्बो रागः नायकयोर्मेलनात् पूर्वजातेअनुरागभेदे “श्रवणाद्दर्शनाद् वापि मिथःसंरूढरागयोः दशाविशेषो योऽप्राप्तौ पूर्बरागः उच्यते ।श्रवणन्तु भवेत्तत्र दूतवन्दिसखीमुखात् इन्द्रजालेच चित्रे साक्षात् स्वप्ने दर्शनम् अभिलाषश्चिन्तास्मृतिगुणकथनोद्वेगसंप्रलापाश्च उन्मादोऽथ व्याधि-र्जडता मृतिरिति दशात्र कामदशाः अभिलाषः स्पृहाचिन्ता प्राप्त्युपार्यादिचिन्तनम् उन्मादश्चापरिच्छेद-श्चेतनाचेतनेष्वपि अलक्ष्यवाक् प्रलापः स्यात् चेतसोभ्रमणाद्भृशम् व्याधिस्तु दीर्घनिःश्वासः पाण्डुताकृश-तादयः जडता हीनचेष्टत्वमङ्गानां मनसस्तथा रस-विच्छेदहेतुत्वान्मरणं नैव वर्ण्यते जातप्रायन्तु तद्वाच्यंचेतसा चापि काङ्क्षितम् “वर्ण्यतेऽपि यदि प्रत्युज्जी-वनं स्याददूरतः” “आदौ वाच्यः स्त्रिया रागः पुंसःपश्चात्तदिङ्गितैः नीलीकुसुम्भमञ्चिष्ठाः पूर्बरागोऽपि चत्रिधा चातिशोभते यन्नापैति प्रेम मनोगतम् ।तन्नीलीरागमाख्यान्ति यथा श्रीरामसीतयोः कुसुम्भ-रागं तं प्राहुर्यदपैति शोभते मञ्जिष्ठारागमाहुस्तंयन्नापैत्यतिशोभते” सा० द०