पूर्बपक्ष (pUrbapakSa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
वाचस्पत्यम्
Sanskritपूर्व(र्ब)पक्ष कर्म० । १ शुक्लपक्षे अमरः । शास्त्रीयसंशय-निरासार्थप्रश्ने २ फकिकायाम् । ३ सिद्धान्तविरुद्धकोटौ “वि-षयो विषयश्चैव पूर्वपक्षस्तथोत्तरम्” इत्युक्ताधिकरणा-वयवभेदे व्यवहारे प्रतिज्ञापरपर्य्याये भाषापत्ररूपे४ प्रथमावयवभेदे । तल्लक्षणादिकं वीरमि० उक्तं यथा“पूर्वपक्षः स्मृतः पादो द्वितीयश्चोत्तरस्तथा । क्रिया-पादस्तृतीयस्तु चतुर्थो निर्णयस्तथा” इति वृहस्पतिवच-नस्थं निर्णयफलकपरामर्शरूपप्रत्याकलितपरमेव निर्णय-पदमुपचारादित्याह “इतरथा पूर्वोदाहृततद्वचनविरोधःस्यात् । तत्र प्रतिज्ञावादी कः स्यादित्यपेक्षिते नारदः“राज्ञे कुर्य्यात् पूर्बमावेदनं यस्तस्य ज्ञेयः पूर्ववादो विधि-ज्ञैः” इति पूर्बवादः प्रतिज्ञा । पूर्ववादकस्यैव प्रतिज्ञावादि-तेत्यस्यापवादमाह स एव “यस्य वाभ्यधिका पीडाकार्य्यं वाभ्यधिकसम्भवेत् । तस्यार्थिवादो दातव्यो न यःपूर्बं निवेदयेत्” । अर्थिवादः प्रतिज्ञा । वृहस्पतिः“अहंपूर्वि(र्व)कया यातावर्थिप्रत्यर्थिनौ यदा । वादो वर्णा-नुपूर्वेण ग्राह्यः पीडामवेक्ष्य चेति” । मनुरपि “अर्था-नर्थावुभौ बुद्धा धर्माधर्मौ च केवलौ । वर्णक्रमेण सर्वाणिपश्येत् कार्य्याणि कार्य्यिणाम्” । ब्राह्मणादीनां युग-पद्धर्माधिकरणं प्राप्तानां वर्णानुक्रमेण ब्राह्मणस्यादौततः क्षत्रियस्येत्येवमादिक्रमेण चतुष्पाद्व्यवहारः प्रव-र्त्तनीयो राज्ञा पीडाधिक्यकार्य्यगौरवं चेदर्थिप्रत्यर्थिनो-रन्यतरस्य तदा न पूर्वावेदनक्रमो नापि वर्णक्रमः । यदातु सर्वे सवर्णास्तदा आवेदनक्रमः । युगपदावेदने स-मानवर्णत्वे समानपीडत्वे च ससभ्यसभापतीच्छयेतिनिर्गलितोऽर्थः । प्रतिज्ञालक्षणमाह याज्ञवल्क्यः “प्रत्य-र्थिनोऽग्रतो लेख्यं यथावेदितभर्थिना । समामासतद-र्द्धाहन्नोमजात्यादिचिह्नितम्” । अर्थ्यत इत्यथः साध्यःसोऽस्यास्तीत्यर्थी तद्विपरीतः प्रत्यर्थी तस्याग्रतःपुरतो लेख्यं लेखनीयं ससभ्येन सभापतिना यथा-वेदितं पूर्बावेदनमनतिक्रम्य येन प्रकारेणावेदनसमये स्व-वचनं लेखितं तथैव प्रत्यर्थिसमक्षमपि न पुनरन्यथा ।तथा सत्यन्यवादित्वेन भङ्गप्रसङ्गात् । अन्थवादीत्यादिहानलक्षणे वक्ष्यते । प्रागेवार्थिना स्वप्रतिज्ञातार्थस्यलिखितत्वादधुमा लेखनमनर्थकमित्याशङ्कानिरासायाहसमामासेति । संवत्सरमासपक्षतिथिवारार्थिप्रत्यर्थिनाम-तदीयजातिभिरादिशब्दोपात्तैश्च द्रव्यसङ्ख्यातज्जातिऋणग्रहणादिस्थानवेलाक्षमालिङ्गादिभिर्यथीपयोगं चि-ह्नितमिति कार्य्यमात्रमावेदनकाले लिखितमधुनोपयुक्त-सहितं लिख्यत इति नानर्थक्यमिति भावः । आदि-शब्दग्राह्याणि च कात्यायन आह “निवेश्य कालं वर्षंच मासं पक्षं तिथिं तथा । बेलां प्रदेशं विषयं स्थानंजात्याकृती वयः । साथ्यं प्रमाणं द्रव्यञ्च सङ्ख्या नामतथात्मनः । राज्ञां च क्रमशी नाम निवासं साध्यनामच । क्रमात् पितॄणां नामानि पीडामाहर्तृदायकौ ।क्षमालिङ्गानि चान्यानि पक्षं सङ्कल्प्य कीर्त्तयेत्” । कालोधनप्रयोगादिकालः । वर्षं पत्रलिखनकालीमम् एवं मासपक्ष-तिथयोऽपि सन्ध्यावन्दनादिक्रिथोपलक्षितः कालो बेला ।प्रदेशः क्षेत्रादिस्थलविशेषः । विषयोऽन्तर्वेद्यादिविषयःस्यानं विवादास्पदीभूतगृहादिग्रामादि आकृतिरवयव-संस्थानविशेषः वयस्तारुण्यादि प्रमाणं निवर्त्तन-प्रस्थादि । आत्मनो राज्ञां च क्षेत्रादिभोगकालोनानांवहुवचनं तदीयपित्रादिप्राप्त्यर्थं निवासो निकटगृ-हादिः । पितरोऽर्थिप्रत्यर्थिनोः । पीडा प्रतिभूप्रभृतीनांधनिकादिकृता । आहर्त्ता प्रतिग्रहादिविषयवस्तूनि आ-नेता दायको दातृविक्रेत्रादिः । क्षमालिङ्गान्यात्मीय-धनादेः परोपभोगाद्यपराधसहनचिह्नानि । अन्यत् सु-बोधम् । सग्रहकारोऽपि “अर्थवद्धर्मसंयुक्तं परिपूर्णमना-कुलम् । साध्यवद्वाचकपदं प्रकृतार्थानुबन्धि च ।प्रसिद्धमविरुद्धञ्च निश्वितं साधनक्षमम् । संक्षिप्तन्निखि-लार्थं च देशकालाविरोधि च । वर्षर्तुमासपक्षाह-र्वेलादेक्षप्रदेशवत् । स्थानावसघसृध्याख्याजात्थाकारवयो-युतम् । साध्यप्रमाणं ङ्ग्यावदात्मप्रत्यर्श्रिनाम च । परा-त्मपूर्वजानेकराजनामभिरङ्कितम् । क्षमालिङ्गात्मपीडावत्कथिताहर्तृदायकम् । यदावेदयते राज्ञे तद्भाषेत्यभि-धीयते” इति । अर्थवत् प्रयोजनवत् । धर्मसंयुक्तम्अल्पाक्षरप्रभूतार्थत्वादिगुणयुक्तम् । परिपूर्णमध्याहारा-द्यनपेक्षम् । अनाकुलमसन्दिग्धाक्षरम् । साध्यवत् साध-नीयार्थयुतम् । वाचकपदम् गौणलाक्षणिकपदरहितम् ।प्रकृवार्थाविरोधि पागावेदितार्थेन सह संवादि । प्रसिद्धंलोकप्रसिद्ध्यनतिक्रान्तम् अबिरुद्धं पुरराष्ट्रप्राड्विवाकरा-जाद्यविरुद्धम् । पूर्वापराविरुद्धं व्यवहारिकधर्माविरुद्धञ्च ।निश्चितं संशयरहितम् । साधनक्षमम् साधनार्हम् ।संक्षिप्तं शब्दाडम्बरशून्यम् । निखिलार्थं निरवशेष-वक्तव्यार्थप्रतिपादकम् । देशलोकाविरोधि मध्यदेशीयम-मुकक्षत्रम् शरत्कालीनशस्याढ्यं मदोयमपहृतमित्या-दिदेशकालविरोधविधुरम् । परात्मनोः प्रतिवादिवादि-नोर्ये पूर्बजाः पित्रादयस्त्रयः अनेके राजानः क्षेत्रादि-भुक्तिकालीनास्त्रेषान्नामभिरङ्गितं युक्तम् । अत्रार्थवत्त्वा-दीनि देशकालविरोधिम्यमर्थिप्रत्यर्थिनामाशून्यत्वं चेतिसर्वत्र भाषायामवश्यम्भावीनि तैर्विना साध्यनिर्देशा-सिद्धेः । वर्षादीनि तु यत्र यावन्त्युपयुज्यन्ते तत्र ताव-न्त्येव निवेशनीयानि सर्वाणिन सर्वत्र अदृष्टार्थत्वपमङ्गात् ।तत्र वर्षादीनां कालानां वृद्धिधनद्वैगुण्यादिघिवादेनप्रतिग्रहक्रयादिपौर्वापर्य्यवादे वोपयोगः । देशप्रदेश-स्थानानामाहर्तृदायकयोरात्मादिपूर्बजराजादिनाम्ना चस्थावरक्षेत्रादिविवादेषु । साध्याख्याजात्याकारवयसांचौर्य्यादिस्वाम्यविक्रयादिबिवादेषु । प्रमाणसंख्ययोर्मेय-तुलितादिद्रव्यविवादे वौर्य्यादिविवादे च क्षनालिङ्गा-नामुपेक्षितपरोक्षभुज्यमानभुम्यादिविबादे । आत्मपी-डाया ऋणिकप्रतिभ्वादिविवादे एवमन्यदप्युन्नेयम् ।अतएवाशयादाह कात्यायनः “देशञ्चैव तथा स्थानसन्निवेशस्तथैव च । जातिः संज्ञाधिवासश्च प्रमाणं क्षेत्र-नाम च । पितृपैतामहञ्चैव पूर्बराजानुकीर्त्ततम् ।स्थावरेषु विवादेषु दशैतानि निवेशयेत्” इति । एतेषांतत्रीपयोगित्वात् । हारीतोऽपि “आसनं शयनंयानन्ताम्रं कांस्यमयोमयम् । धान्यमश्ममयं यच्च द्वि-पदञ्च चतुष्पदम् । मणिमुक्ताप्रबालानि हीरका रूप्यकाञ्चनम् । यदि द्रव्यसमूहः स्यात् संख्या कार्य्या तदैकतु । यस्मिन् देशे च यद्द्रव्यं येन मानेन मीयते ।त्वेन तस्मिंस्तदा सङ्ख्या कर्त्तव्या व्यवहारिभिः” इति ।मानसंख्याशब्दावत्रान्योऽन्योपलक्षणम् । अत्रैतावद्विव-क्षित यत्र यावदुपयुज्यत तत्र तावन्निवेश्यं भाषापत्रे ।अन्यथा साध्यनिर्देशस्यापूर्णत्वात् पक्षाभासतापत्तेरधिक-निवेशेऽदृष्टार्थतापत्तेरिति । कात्यायनोऽर्थत एवाह“देशकालविहीनश्च द्रव्यसङ्ख्याविवर्जितः । क्रियामानविहीनश्च पक्षो नादेय इष्यते” । क्रिया प्रमाणम् । मानसाध्यपरिमाणम् ।” यद्यपि पूर्वोक्तपक्षलक्षणरहितानांपक्षाभासत्वमर्थसिद्धं तथापि नारदादिभिः स्पष्टार्थं प्रप-ञ्चितम् । तत्र नारदः “अन्यार्थमर्थहीनञ्च प्रमाणागम-वर्जितम् । लेख्यहीनाधिकं भ्रष्टं भाषादीषा उदाहृताः” ।एतान् स एव विवृतवान् । “अर्थे साधारणेऽप्येकोसम्बन्धोऽथानियुक्तकः । लेखयेद् यत्तु भाषार्थमन्यार्थंतं विदुर्बुधाः” । गणकार्य्यमेकी वा यद्यसम्बन्धी गद-नियुक्तो वा लेखयेद् यस्यां भाषायामित्यर्थः । “ब्रह्म-हायमिति द्वेषात् क्रोधाद्वापि वदेत्तु यः । साध्यं चमोचयेत् पश्चादर्थहीनान्तु तां विदुः” । उक्तं साध्यंवादिना यस्यान्त्यज्यते सा भाषाऽर्थहीनेत्यर्थः । “गणितेलिखिते मेये तथा क्षेत्रगृहादिषु । यत्र सङ्ख्यान निर्दिष्टा सा प्रमाणविवर्जिता” । सङ्ख्यानं सङ्ख्येतिव्युतपत्त्या सङ्ख्याशब्देन गणनतोलनमानानां परि-ग्रहः । “विद्यया प्राप्तमर्थार्थं लब्धं क्रीतं क्रमागतम् ।नत्वेवं लिख्यते यत्र सा भाषा स्यादनागमा । समा-मासस्तथा पक्षस्तिथिर्वारस्तथैव च । यत्रैतानि च लि-ख्यन्ते लेख्यहीनान्तु तां विदुः” । अवश्यं यद् यत्रपूर्वोक्तरीत्या लेख्यं तद्रहिता लेख्यहीनेत्यर्थः । “लेख-यित्वा तु तां भाषामनिर्दिष्टे तथोत्तरे । निर्दिशेत्साक्षिणः पूर्वमधिकां तां विनिर्दिशेत्” । साक्षिण इतिप्रमाणोपलक्षणम् । व्युत्क्रमादत्राधिक्यन्तेनाप्राप्तका-लता फलिता । “यत्र स्यात्तु यथापूर्बं निर्दिष्टं पूर्बवा-दिना । मन्दिग्धमेव लेख्येन भ्रष्टां भाषान्तु तां षिदुः”उभयं पूर्बमिति पाठे पक्षद्वयमपि प्रतिज्ञावादिनैव निर्दिष्टंस्यादित्यर्थः” । प्रसङ्गात् पक्षाभासोऽपि तत्र निर्णीतो-ऽत्र प्रदर्श्यते । तत्र कात्यायनः “अप्रसिद्धं निराबाधंनिरर्थं निष्प्रयोजनम् । असाध्यं वा विरुद्धं वा पक्षा-भासं विवर्जयेत्” । अप्रसिद्धमाह वृहस्मतिः “न केन-चित् कृतो यस्तु सोऽप्रसिद्ध उदाहृतः । यथा फल-सहम्रकृष्टक्षेत्रमपहृतमिति मदीयं शशविषाणं गृहीत्वान प्रयच्छतीत्याद्यप्रसिद्धमित्याह विज्ञानेश्वरः । वृह-स्पतिना त्विदमसाध्योदाहरणमुक्तं तच्च वक्ष्यते । निरा-बाधन्निरुपद्रव मम मन्दिरे दीप्यमानदीपकप्रकाशेनायंखमन्दिर व्यवहरतीतिप्रभृति निरर्थममिधेयहीनं म-दीयं कचटतपञ्जवगडदशं वा गृहीत्वा न ददातीत्यादिविज्ञानयोगी । वृहस्पतिवचनात् त्वन्यथा निरर्थक-पदार्थः प्रतीयते यथाह “खल्पापराधः स्वल्पार्षो नि-रर्थक इति स्मृतः” इति । एतस्योदाहरणं स्मृति-चन्द्रिकायाम् “अहमनेन सस्मितमीक्षितः । मामकीशिक्षाऽनेनापहृतेत्यादि निष्प्रयोजनं यघायं देव-दत्तोऽस्मद्गृहमन्निधौ सुस्वरमधीते इत्यादि मिताक्षरा-स्मृतिचन्द्रिकयोरुदाहृतम् । वृहस्पतिना तथैव लक्षितम् ।“कार्य्यबाधाविहीनस्तु विज्ञेयो निष्प्रयोजनः” इति ।स एव प्रकारान्तरेणापि निरर्थनिषप्रयोजनौ लक्षित-वान् “कुसीदाद्यैः षदैर्हीनो व्यवहारो निरर्थकः ।वाक्पारुष्यादिभिश्चैव विज्ञेयो निष्प्रयोजनः” । कुमीद-मृणदानं तत्प्रभूतिभिश्चतुर्दशभिरर्थविषयव्यवहारै-र्हीनो निरर्थकः । वाकपारुष्यादिभिहिंसात्मकैश्चतु-र्भिर्हीनी निष्प्रयोजनः इत्यर्थः । अष्टादशपदाविषयःपक्षो दुष्ट इत्याशयः । असाध्यविरुद्धावाह स एव“ममानेन प्रदातव्यं शशशृङ्गकृतं धनुः । असम्भाव्य-मसाध्यन्तं पक्षमाहुर्मनीषिणः । यस्मिन्नावेदिते पक्षेप्राड्विवाकेऽथ राजनि । पुरराष्ट्रे विरोधः स्याद्विरुद्धःसोऽभिधीयते” इति । मिताक्षराथामसाध्यविरुद्धावन्य-थोक्तौ “देवदत्तेनाहं सभ्रूभङ्गमुपहसित इत्याद्यसाभ्य-साधनासम्भवात् अल्पकालत्वान्न साक्ष्यादिसम्भवी लिखितंदूरतोऽल्पत्वान्न दिव्यमिति । भूकेनाहं शप्त इत्यादि विरुद्ध-मिति” । पुरराष्ट्रादिविरुद्धमपि विरुद्धपदेन व्याख्याय राज्ञाविवर्जित इत्यादिस्मृत्यन्तरञ्च तदर्थतयोदाहृतन्तच्च पूर्ब-मस्माभिरनादेयव्यवहारनिरूपणे लिखितम् । अन्येऽपिपक्षाभासाः स्मृतिचन्द्रिकोदाहृतवचनोक्ता ज्ञेयाः । यथा“भिन्नक्रमो व्युत्क्रमार्थः प्रकीर्णार्थो निरर्थकः । अ-तीत्कालो विद्विष्टः पक्षो नादेय इष्यते । यथास्थाना-निवेशेन नैव पक्षार्थकल्पना । शस्यते तेन पक्षः स भिन्न-क्रम उदाहृतः” । व्यत्यस्ताक्षरसन्निवेशो भिन्नक्रम इतियावत् । व्युत्क्रमार्थो व्यवहितास्ययेनार्थाबोधकः ।प्रकीर्णार्थोऽसङ्कलितार्थः । “मूलमर्थं परित्यज्य तद्गुणोयत्र लिख्यते । निरर्थकः स वै वक्षो भूतसाधनवर्जितः ।भतकालमतिक्रान्तं द्रव्यं यत्र हि लिख्यते । अतीत-वालः पक्षोऽसौ प्रमाणे सत्यपि स्मृतः । यस्मिन् पक्षेद्विधा साध्यं भिन्नकालविमर्शनम् । विमृष्यते क्रिया-भेदः स पक्षोद्विष्ट उच्यते” । भूतसाधनं मूलभूतं साधनंतेन वर्जितः । भूतकालः साध्यकालः । अन्यानपिपक्षाभासानाह स एव “अन्याक्षरनिवेशेन अन्यार्थगमनेन च । आकुलन्तु भवेल्लेख्यं क्रिया चैवाकुलाभवेत् । साधनं सह साध्येन निर्दिष्टं यत्र लेखयेत् ।उक्तक्रमविहीनत्वात् सोऽपि पक्षो न सिध्यतीति । वि-रुद्धश्चाविरुद्धश्च द्वावप्यर्थौ निवेशितौ । एकस्मिन् यत्रदृश्येते तं पक्षं दूरतस्त्यजेत् । परस्परविरुद्धानि यःपदानि निवेशयेत् । विरुद्धपदसङ्कीर्णा भाषा तस्य नसिध्यतीति” । यत्तु “पुरराष्ट्रविरुद्धश्च यश्च राज्ञाविवजितः । अनेकपदसङ्कीर्णः पूर्बपक्षो न सिद्ध्यतीति”स्मरणात् तस्यायमर्थः । राज्ञा विवर्जितो राजत्यक्त-शुल्कादिविषयकर्णादानादिपदमिश्रितस्तु क्रियाभेदेनयुगपन्न सिद्ध्यतीति मदीया रूपका इयन्तोऽनया वृट्या-ऽनेन गृहीताः सुवर्णञ्च मया निक्षेपीकृतमयमिदंमदीयक्षेत्रमपहरतीत्यनेकपदविषयस्यापि पक्षस्य क्रमे-णाप्यनुपादेयत्वे तत्त्वनिर्णयाभावप्रसङ्गेन युक्तिविरोधात् ।“बहुप्रतिज्ञं यत्कार्य्यं व्यवहारेषु निश्चितम् । कामंतदपि गृह्णीयाद्राजा तत्त्वबुभूत्सयेति” कात्यायनवचन-विरोधाच्च । तस्माद्युगपत् पक्षाभामतेत्येव रमणीयम् ।अनेकवस्तुसङ्कीर्णस्यापक्षत्वन्त्वतत्पदसम्बद्धम् । हिरण्य-रूपकवासांसि वानेन मत्तो वृद्ध्या गृहीतान्यस्य हस्तेमया लिक्षिप्तान्यननापहृतानि वेत्येकस्मिन्नपि पदे युग-पदपीदृशपक्षोपन्यासस्यादुष्टत्वात् । साध्यञ्च विधिमुखेनप्रतिषेधमुखेन वा पक्षनिपणीयमित्याह कात्यायनः“न्यायं संयच्छते कर्तुमन्यायं वा करोत्ययम् । नलेखयति यख्येवं तस्य पक्षो न सिद्ध्यति” । न्यायंसमित्यनेन ममैतावद्धनसादाय न ददातीत्यादि प्रतिबन्ध-मुखताऽपि लक्षिता । अन्यायं वेत्यनेन ममेदमपहर-तीत्यादि विधिमुखता प्रदर्शिता । वृहस्पतिरपि “प्र-तिज्ञादोषनिमुंक्तं साध्यं सत्कारणान्वितम् । निश्चितंलोकसिद्धञ्च पक्ष पक्षविदो विदुः” इति । प्रतिज्ञादोषैःप्रतिज्ञासन्न्यासादिभिर्मुक्तं रहितम् । ते च दर्शिताःप्राक । साध्यं साधनार्हम् । सत्कारणान्वितं स्फुट-टोषरहितहेतुसहितम् । निश्चितं सन्देहाजनकवाक्य-रश्चनायुशुं न तृ स्ववमेव० निश्चितं विप्रतिपत्तावर्थनि-श्चयाभावात् । लोकसिद्धं व्यवहारिकधर्माविरुद्धम् ।अतएव मनुः “सत्या न भाषा भवति यद्यपि स्यात् प्रति-ष्ठिता । बहिश्चेद्भाष्यते धर्मान्नियताद्व्यवहारिकात्” ।प्रतिष्ठिता प्रसिद्धत्वादिदोषनिर्मुक्त । भाषा प्रतिज्ञा व्याव-हारिकधर्माद्विरुद्धा च सत्या ग्राह्या न भवति राजा-दीनामित्यर्थः । मवदेवस्तु “यत्र श्रुतमात्र एव सतिलोकानां सम्प्रत्ययस्तल्लोकसिद्धं तेन निर्धनकृतो लक्षादि-सङ्ख्यधनाक्षेपो न पक्ष इति व्याचक्षौ तद्बाधरूपप्रतिज्ञा-दीषवत्त्वेनैव तादृशपक्षस्य निराकरणात् । प्रतिज्ञादोष-निर्मुक्तमित्यनेनैव गतार्थम्” । ततः गहा० भावार्थे छ ।पूर्बपक्षीय तद्भवे ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
