| YouTube Channel

पूर्त्तं (pUrttaM)

 
शब्दकल्पद्रुमः
Sanskrit
पूर्त्तं,
क्ली,
(पॄ पालने + भावे क्तः “न ध्याख्या-पॄमूर्च्छिमदाम् ।” ५७ इति निष्ठा-तस्य नत्वम् ।) पालनम् इति शब्दरत्ना-वली
(पिपर्त्ति पालयत्यनेन जीवानिति ।पॄ + करणे क्तः ।) खातादिकर्म्म इत्यमरः ।७ २८
आदिना देवकुल्यादि तदुक्तम् ।“पुष्करिण्यः सभा वापी देवतायतनानि ।आरामश्च विशेषेण पूर्त्तं कर्म्म विनिर्द्दिशेत्
”इति भरतः
तत्करणफलम् ।“इष्टापूर्त्तं द्विजातीनां प्रथमं धर्म्मसाधनम् ।इष्टेन लभते स्वर्गं पूर्त्ते मोक्षञ्च विन्दति
वापीकूपतडागानि देवतायतनानि ।पतितान्युद्धरेद्यस्तु पूर्त्तफलमश्नुते
”इति वराहपुराणम्
*
वापीत्यादीनां पूर्त्तत्वाभिधानात् शूद्रस्याधिकार-माह जातूकर्णः ।“वापीकूपतडागादि देवतायतनानि ।अन्नप्रदानमारामाः पूर्त्तमित्यभिधीयते
ग्रहोपरागे यद्दानं पूर्त्तमित्यभिधीयते ।इष्टापूर्त्तं द्विजातीनां धर्म्मः सामान्य उच्यते ।अधिकारी भवेत् शूद्रः पूर्त्ते धर्म्मे वैदिके
”वैदिके वेदाध्ययनसाध्ये अग्निहोत्रादाविति रत्ना-करः
एवं स्त्रीणामपि पूर्त्ताधिकारः यथानारीत्यनुवृत्तौ बृहस्पतिः ।“पितृव्यगुरुदौहित्रान् भर्त्तुः स्वस्रीयमातुलान् ।पूजयेत् कव्यपूर्त्ताभ्यां वृद्धानाथातिथीन् स्त्रियः
”इति जलाशयतत्त्वम्
(पूर्त्तं खातादिकर्म्म अङ्गत्वेनास्त्यस्येति अच् ।धर्म्मविशेषे,
पुं,
यथा, मार्कण्डेये १३ १५ ।“यतस्ते विमुखा यान्ति निश्वस्यं गृहमेधिनः ।तस्मादिष्टिश्च पूर्त्तश्च धर्म्मौ द्वावपि नश्यतः
”)