पूर्णिमा (pUrNimA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishपूर्णिमा - pUrNimA - - dayoffullmoon
पूर्णिमा - pUrNimA - - fullmoonnight
पूर्णिमा - pUrNimA - - night or day of full moon
Apte
Englishपूर्णिमा [pūrṇimā] पूर्णिमासी [pūrṇimāsī] पूर्णमा [pūrṇamā], पूर्णिमासी पूर्णमा The day of full moon
निखिलान्निशि पूर्णिमा तिथीनुपतस्थे$तिथिरेकिका तिथिः 2.76.
Monier Williams 1872
EnglishMacdonell
EnglishApte Hindi
Hindiपूर्णिमा
- "पृ + निङ्=पूर्णि, मा + क + टाप्"
"वह दिन जब चन्द्रमा पूर्ण हो जाता है, "
Shabdartha Kaustubha
Kannadaपूर्णिमा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಪೂರ್ಣಿಮೆ /ಹುಣ್ಣಿಮೆ
निष्पत्तिः - > पूरी (आप्यायने) - भावे "क्तः" (३-३-११५) । "इमप्" (वा० ४-४-२०) । "टाप्" (४-१-४)
व्युत्पत्तिः - > पूर्णं चन्द्रस्य पूरणम्, तेन निवृत्ता
प्रयोगाः - > "निखिलान्निशि पूर्णिमा तिथीनुपतस्थेऽतिथिरेकिका तिथिः"
उल्लेखाः - > नैष० २-७६
पूर्णिमा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಮರೀಚಿ ಮಹರ್ಷಿಯ ಒಬ್ಬ ಮಗಳು
Wordnet
Sanskrit पूर्णेन्दुः, सकलेन्दुः, पूर्णिमा, राका, कठोरचन्द्रः, अखण्डकलः, पूर्णचन्द्रः
चन्द्रस्य अखण्डरूपम्।
"पूर्णेन्दोः जलस्थं प्रतिबिम्बम् अत्यन्तं मनोहारि वर्तते।"
पूर्णिमा, पौर्णिमा, पौर्णमासी, राका, चान्द्री, पूर्णमासी, अनन्ता, चन्द्रमाता, निरञ्जना, ज्योत्स्नी, इन्दुमती, सिता
चान्द्रमासे शुक्लपक्षस्य अन्तिमतिथिः।
"पूर्णिमायाः निशाकरः अतीव रमणीयः।"
Sanskrit Tibetan
Tibetannya
१) अण्डज २) अनिमिष ३) अर्भक ४) पक्षिणी ५) पूर्ण ६) पूर्णिमा ७) पौर्णमासी ८) मत्स्य ९) मीन
nya gang ba
पूर्णिमा
अभिधानचिन्तामणिः
Sanskritपूर्णिमा पौर्णमासी सा राका पूर्णे निशाकरे ॥ १४९ ॥
पूर्णिमा (स्त्री), पौर्णमासी (स्त्री), राका (स्त्री)
वैजयन्तीकोषः
SanskritWord: पूर्णिमा
Root: पूर्णिमा
Gender: स्त्री
Number: all
अर्थः ⇒ शुक्लपक्षस्य पञ्चदशमं दिनम्
Meaning(s):
⇒ Fifteenth day of the first (Śukla) pakṣa
Shloka(s):
2|1|72|1 ► पित्र्या तु पूर्णिमा चान्द्री चन्द्रमाता निरञ्जना। (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
2|1|72|2 ► पूर्णा तु पूर्णमासी च पौर्णमासी च पूर्णिका॥ (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
Synonym(s):
➠ 2|1|72|1 ⇢ पित्र्या (पित्र्या) (स्त्री) ⇒ Fifteenth day of the first (Śukla) pakṣa ⇒ शुक्लपक्षस्य पञ्चदशमं दिनम्
➠ 2|1|72|1 ⇢ पूर्णिमा (पूर्णिमा) (स्त्री) ⇒ Fifteenth day of the first (Śukla) pakṣa ⇒ शुक्लपक्षस्य पञ्चदशमं दिनम्
➠ 2|1|72|1 ⇢ चान्द्री (चान्द्री) (स्त्री) ⇒ Fifteenth day of the first (Śukla) pakṣa ⇒ शुक्लपक्षस्य पञ्चदशमं दिनम्
➠ 2|1|72|1 ⇢ चन्द्रमातृ (चन्द्रमातृ) (स्त्री) ⇒ Fifteenth day of the first (Śukla) pakṣa ⇒ शुक्लपक्षस्य पञ्चदशमं दिनम्
➠ 2|1|72|1 ⇢ निरञ्जना (निरञ्जना) (स्त्री) ⇒ Fifteenth day of the first (Śukla) pakṣa ⇒ शुक्लपक्षस्य पञ्चदशमं दिनम्
➠ 2|1|72|2 ⇢ पूर्णा (पूर्णा) (स्त्री) ⇒ Fifteenth day of the first (Śukla) pakṣa ⇒ शुक्लपक्षस्य पञ्चदशमं दिनम्
➠ 2|1|72|2 ⇢ पूर्णमासी (पूर्णमासी) (स्त्री) ⇒ Fifteenth day of the first (Śukla) pakṣa ⇒ शुक्लपक्षस्य पञ्चदशमं दिनम्
➠ 2|1|72|2 ⇢ पौर्णमासी (पौर्णमासी) (स्त्री) ⇒ Fifteenth day of the first (Śukla) pakṣa ⇒ शुक्लपक्षस्य पञ्चदशमं दिनम्
➠ 2|1|72|2 ⇢ पूर्णिका (पूर्णिका) (स्त्री) ⇒ Fifteenth day of the first (Śukla) pakṣa ⇒ शुक्लपक्षस्य पञ्चदशमं दिनम्
Related word(s):
परा_अपरासंबन्धः ➡ राका
जातिः ➡ कालः
अमरकोशः
SanskritWord: पूर्णिमा
Root: पूर्णिमा
Gender: स्त्री
Number: all
Meaning(s):
⇒ full moon night
⇒ day of full moon
⇒ night or day of full moon
Shloka(s):
1|4|7|2 ► पक्षान्तौ पञ्चदश्यौ द्वे पौर्णमासी तु पूर्णिमा॥ (कालवर्गः)
Synonym(s):
➠ 1|4|7|2 ⇢ पौर्णमासी (पौर्णमासी) (स्त्री) ⇒ day of full moon, day or night of full moon
➠ 1|4|7|2 ⇢ पूर्णिमा (पूर्णिमा) (स्त्री) ⇒ full moon night, day of full moon, night or day of full moon
Related word(s):
परा_अपरासंबन्धः ➡ पूर्णचन्द्रसहिता_पूर्णिमा
जातिः ➡ कालः
शब्दकल्पद्रुमः
Sanskritपूर्णिमा, (पूर्णिः पूरणम् । पूर्णिं मिमीते इति ।मा + कः । टाप् ।) पञ्चदशी तिथिः । तत्-पर्य्यायः । पौर्णमासी २ । निशाकरे कलाहीनेसा अनुमतिः ३ पूर्णे निशाकरे सा राका ४ ।इत्यमरः । १ । ४ । ७-८ ॥
पित्र्या ५ चान्द्री ६ पूर्ण-मासी ७ अनन्ता ८ चन्द्रमाता ९ निरञ्जना १० ।इति वाचस्पतिः ॥
पूर्णिमा ११ । इति हड्ड-चन्द्रः ॥
ज्योत्स्नी १२ इन्दुमती १३ सिता १४ ।इति राजनिर्घण्टः ॥
सा द्विविधा । यथा, --“राका चानुमती चैव द्विविधा पूर्णिमा मता ।पूर्व्वोदितकलाहीने पौर्णमास्या निशाकरे ।पूर्णिमानुमती ज्ञेया पश्चास्तमितभास्करे ॥
यस्मात्तामनुमन्यन्ते देवताः पितृभिः सह ।तस्मादनुमती नाम पूर्णिमा प्रथमा स्मृता ॥
यदा चास्तमिते सूर्य्ये पूर्णचन्द्रस्य चोद्गमः ।युगपत् सोत्तरा रागात्तदानुमतिपूर्णिमा ॥
राकान्तामनुमन्यन्ते देवताः पितृभिः सह ।रञ्जनाच्चैव चन्द्रस्य राकेति कवयोऽब्रुवन् ॥
”इति देवीपुराणम् ॥
* ॥
सा चन्द्रस्य तिथिः । यथा, --“तस्य ब्रह्मा ददौ प्रीतः पौर्णमासीं तिथिंप्रभुः ।तस्यामुपोषयेद्राजंस्तमर्थं प्रतिपादयेत् ॥
न चान्नाहारश्च भवेत्तस्य ज्ञानं प्रयच्छति ।कान्तिं पुष्टिञ्च राजेन्द्र ! धनं धान्यञ्च केवलम् ॥
”इति वराहपुराणे सोमोत्पत्तिरहस्यम् ॥
* ॥
तस्यां जातफलम् ।“कन्दर्पतुल्यो युवतीप्रियश्चन्यायाप्तवित्तः सततं सहर्षः ।शूरो बली शास्त्रविचारदक्ष-श्चेत् पूर्णिमा जन्मनि यस्य जन्तोः ॥
”इति कोष्ठीप्रदीपः ॥
* ॥
सा चतुर्द्दशीयुक्ता ग्राह्या युग्मात् । यमः ।“पक्षान्ते स्रोतसि स्नायात्तेन नायाति मत्-पुरम् ॥
”विष्णुः ।“दृश्येते सहितौ यस्यां दिवि चन्द्रबृहस्पती ।पौर्णमासी तु महती ज्ञेया संवत्सरे तु सा ॥
तस्यां स्नानोपवासाभ्यामक्षयं परिकीर्त्तितम् ॥
”सहितौ माससंज्ञाविशेषनिमित्तकृत्तिकादि-नक्षत्रगतौ । महाकार्त्तिक्यादिदर्शनात् । तथाच राजमार्त्तण्डे ।“माससंज्ञे यदा ऋक्षे चन्द्रः संपूर्णमण्डलः ।गुरुणा याति संयोगं सा तिथिर्महती स्मृता ॥
”स्कान्दमात्स्ययोः ।“पौर्णमासीषु चैतासु मासर्क्षसहितासु च ।एतासां स्नानदानाभ्यां फलं दशगुणं स्मृतम् ॥
”वैशाखीमधिकृत्य यमः ।“गौरान् वा यदि वा कृष्णांस्तिलान् क्षौद्रेणसंयुतान् ।प्रीयतां धर्म्मराजेति पितॄन्देवांश्च तर्पयेत् ॥
यावर्ज्जावकृतं पापं तत्क्षणादेव नश्यति ।अब्दायुतञ्च तिष्ठेच्च स्वर्गलोके न संशयः ॥
” * ॥
ब्रह्मपुराणे ।“महाज्यैष्ठ्यान्तु यः पश्येत् पुरुषः पुरुषोत्तमम् ।विष्णुलोकमवाप्नोति मोक्षं गङ्गाम्बुमज्जनात् ॥
* ॥
ऐन्द्रे गुरुः शशी चैव प्राजापत्ये रविस्तथा ।पूर्णिमा गुरुवारेण महाज्यैष्ठी प्रकीर्त्तिता ॥
”अनुराधास्थगुरावपि ।“ऐन्द्रे मैत्रे यदा जीवस्तत्पञ्चदशके रविः ।पूर्णिमा शक्रचन्द्रेण महाज्यैष्ठी प्रकीर्त्तिता ॥
”अनुराधास्थचन्द्रेऽपि । व्याघ्रभूतिः ।“ऐन्द्रर्क्षे त्वथवा मैत्रे गुरुचन्द्रौ यदा स्थितौ ।पूर्णिमा ज्यैष्ठमासस्य महाज्यैष्ठी प्रकीर्त्तिता ॥
”राजमार्त्तण्डे ।“ज्यैष्ठे संवत्सरे चैव ज्यष्ठमासस्य पूर्णिमा ।ज्येष्ठामेन समायुक्ता महाज्यैष्ठी प्रकीर्त्तिता ॥
”ज्यैष्ठसंवत्सरश्च ।“ज्येष्ठामूलोपगे जीवे वर्षं स्याच्छक्रदैवतम् ॥
”इति विष्णुधर्म्मोत्तरोक्तो ग्राह्यः । संवत्सरोऽत्रवत्सरो बोध्यः । न तु संवत्सरादिपञ्चकान्तर्गत-वर्षविशेषः । ज्यैष्ठ इति विशेषणस्य वैयर्थ्या-पत्तेः । संवत्सरे यदि स्यात्त्विति पाठः काल्प-निकः । प्रपञ्चस्तु मलमासतत्त्वेऽनुसन्धेयः ॥
* ॥
विष्णुधर्म्मोत्तरब्रह्मपुराणयोः ।“मासि ज्यैष्ठे तु संप्राप्ते नक्षत्रे शक्रदैवते ।पौर्णमास्यां तदा स्नानं सर्व्वपापं हरेद्द्विजाः ॥
तस्मिन् काले तु ये मर्त्याः पश्यन्ति पुरुषोत्तमम् ।बलभद्रं सुभद्राञ्च ते यान्ति पदमव्ययम् ॥
”स्कन्दपुराणे ।“ज्यैष्ठ्यामहञ्चावतीर्णस्तत्पुण्यं जन्मवासरम् ।तस्यां मे स्नपनं कुर्य्यान्महास्नानविधानतः ॥
ज्यैष्ठ्यां प्रातःस्नानकाले ब्रह्मणा सहितञ्च माम् ।रामं सुभद्रां संस्नाप्य मम लोकमवाप्नुयात् ॥
”विष्णुधर्म्मोत्तरे ।“पौर्णमासी तथा माघी श्रावणी च नरोत्तमः ।प्रौष्ठपद्यामतीतायां तथा कृष्णा त्रयोदशी ॥
एतांस्तु श्राद्धकालान् वै नित्यानाह प्रजा-पतिः ॥
”तत्र पूर्व्वदिने सङ्गवलाभे रौहिणलाभे वा पर-दिने सङ्गवालाभे पूर्व्वदिने श्राद्धम् ।“कृष्णपक्षस्य पूर्व्वाह्णे श्राद्धं कुर्य्याद्विचक्षणः ।कृष्णपक्षापराह्णे तु रौहिणन्तु न लङ्घयेत् ॥
”इति वायुपुराणवचनात् ॥
उभयदिने सङ्गवलाभे परदिने ।“शुक्लपक्षे तिथिर्ग्राह्या यस्यामभ्युदितो रविः ।कृष्णपक्षे तिथिर्ग्राह्या यस्यामस्तमितो रविः ॥
”इति विष्णुधर्म्मोत्तरात् ॥
एवमक्षयतृतीयादावपि ॥
* ॥
आषाढकार्त्तिक-माघपौर्णमासीषु दानमावश्यकम् । तथा चायो-ध्याकाण्डे भरतशपथे ।“आषाढी कार्त्तिकी माघी तिथयः पुण्यसम्भवाः ।अप्रदानवतो यान्तु यस्यार्य्योऽनुमतो गतः ॥
”अप्रदानवतो दानरहितस्यैतास्तिथयो यान्तुआर्य्यः श्रीरामचन्द्रो गतो यस्यानुमतः इत्य-न्वयः । उत्तरवाक्ये यच्छब्दान्न तच्छब्दापेक्षा ॥
अथ कोजागरकृत्यम् । कल्पतरौ ब्रह्मपुराणम् ।“आश्वयुज्यां पौर्णमास्यां निकुम्भो वालुका-र्णवात् ।आयाति सेनया सार्द्धं कृत्वा युद्धं सुदारुणम् ॥
तस्मात्तत्र नरैर्मार्गाः स्वगेहस्य समीपतः ।शोधितव्याः प्रयत्नेन भूषितव्याश्च भूषणैः ॥
पुष्पार्घ्यफलमूलान्नसर्षपप्रकरैस्तथा ।वेश्मानि भूषितव्यानि नानावर्णैर्विशेषतः ॥
सुस्नातैरनुलिप्तैश्च नरैर्भाव्यं सबान्धवैः ।दिवा तत्र न भोक्तव्यं मनुष्यैश्च विवेकिभिः ॥
स्त्रीबालवृद्धमूर्खैश्च भोक्तव्यं पूजितैः सुरैः ॥
”पूजितैः सुरैरिति विशेषणे तृतीया । तेन पूजित-सुरैरित्यर्थः ।“पूज्याश्च सफलैः पत्रैस्तथा द्वारोर्द्धभित्तयः ।द्वारोपान्ते सुदीप्तस्तु संपूज्यो हव्यवाहनः ॥
यवाक्षतघृतोपेतैस्तण्डुलैश्च सुतर्पितः ।संपूजितव्यः पूर्णेन्दुः पयसा पायसेन च ॥
रुद्रः सभार्य्यः स्कन्दश्च तदा नन्दीश्वरो मुनिः ।गोमद्भिः सुरभिः पूज्या छागवद्भिर्हुताशनः ॥
उरभ्रवद्भिर्वरुणो गजवद्भिर्विनायकः ।पूज्यः साश्वैश्च रेवन्तो यथाविभवविस्तरैः ॥
ततः पूज्यो निकुम्भोऽपि समाषैस्तिलतण्डुलैः ।सुगन्धिभिर्घृतोपेतैः कृशराद्यैश्च भूरिभिः ॥
ब्राह्मणान् भोजयित्वा तु भोक्तव्यं मांसवर्जितम् ।वह्रिपार्श्वगतैर्नेया दृष्ट्वा क्रीडाः पृथग्विधाः ॥
”ततश्च द्वारोर्द्धभित्तिहव्यवाहनपूर्णेन्दुसभार्य्यरुद्र-स्कन्दनन्दीश्वरमुनयः सर्व्वैरेव पूज्याः । द्वारोर्द्ध्व-भित्तिशब्दोऽत्र बहुवचनान्तः । नन्दीश्वरमुनि-रेकः । गोमता सुरभिः । छागवता हुताशनः ।मेषवता वरुणः । हस्तिमता विनायकः । अश्व-वता रेवन्तः । सर्व्वैरेव निकुम्भः पूज्यः । महा-र्णवे लिङ्गपुराणम् ।“आश्विने पौर्णमास्यान्तु चरेज्जागरणं निशि ।कौमुदी सा समाख्याता कार्य्या लोकविभूतये ॥
कौमुद्यां पूजयेल्लक्ष्मीमिन्द्रञ्चैरावतस्थितम् ।सुगन्धिर्निशि सद्वेशो अक्षैर्जागरणञ्चरेत् ॥
”तथा, --“निशीथे वरदा लक्ष्मीः को जागर्त्तीतिभाषिणी ।तस्मै वित्तं प्रयच्छामि अक्षैः क्रीडां करोति यः ।नारिकेलैश्चिपिटकैः पितॄन् देवान् समर्च्चयेत् ।बन्धूंश्च प्रीणयेत्तेन स्वयं तदशनो भवेत् ॥
”अत्र निशीति निशीथ इति चाभिधानाद्रात्रि-कृत्यमिदम् ।“ततः प्रदोषव्यापिनी ग्राह्या तिथिर्नक्तव्रते सदा ।प्रदोषोऽस्तमयादूर्द्ध्वं घटिकाद्बयमिष्यते ॥
”इति संवत्सरप्रदीपधृतवत्सवचनात् ॥
यद्दिने प्रदोषनिशीथोभयव्यापिनी पौर्णमासीतद्दिने कोजागरकृत्यम् । उभयव्याप्त्यनुरोधात् ।यदा तु पूर्व्वदिने निशीथव्याप्तिः परदिने प्रदोष-व्याप्तिस्तदा परेद्युस्तत्कृत्यम् । प्रधानपूजाकाल-व्याप्त्यनुरोधात् । यदा पूर्व्वेद्युर्निशीथव्याप्तिःपरेद्युर्न प्रदोषव्याप्तिस्तदा सुतरां पूर्व्वेद्युस्तत्-कृत्यम् ।“अहःसु तिथयः पुण्याः कर्म्मानुष्ठानतो दिवा ।नक्तादिव्रतयोगे तु रात्रियोगो विशिष्यते ॥
”इति वचनात् ॥
वर्जयेदित्यनुवृत्तौ मत्स्यसूक्ते ।“महालक्ष्म्यास्तु तुलसीं झिण्टिकां काञ्चन-न्तथा ॥
”लक्ष्मीध्यानमादित्यपुराणे ।“पाशाक्षमालिकाम्भोजसृणिभिर्याम्यसौम्ययोः ।पद्मासनस्थां ध्यायेञ्च श्रियं त्रैलोक्यमातरम् ॥
गौरवर्णां सुरूपाञ्च सर्व्वालङ्कारभूषिताम् ।रौक्मपद्मव्यग्रकरां वरदां दक्षिणेन तु ॥
”पाशेति । दक्षिणे पाशाक्षमालाभ्यां वामे पद्मा-ङ्कुशाभ्यां भूषितां वामकरे हेमपद्मं दक्षिणकरेवरं दधतीत्यर्थः । ततः पाद्यादिभिः संपूज्य, --“ओँ नमस्ते सर्व्वदेवानां वरदासि हरिप्रिये ।या गतिस्त्वत्प्रपन्नानां सा मे मूयात् त्वदर्च्चनात् ॥
”इत्यनेन पुष्पाञ्जलित्रयं दत्त्वा प्रणमेत् ॥
इन्द्रध्यानमादित्यपुराणे ।“चतुर्द्दन्तगजारूढो वज्रपाणिः पुरन्दरः ।शचीपतिश्च ध्यातव्यो नानाभरणभूषितः ॥
”पाद्यादिभिः संपूज्य, --“ओँ विचित्रैरावतस्थाय शश्वत्कुलिशपाणये ।पौलोम्यालिङ्गिताङ्गाय सहस्राक्षाय ते नमः ॥
”इति पुष्पाञ्जलित्रयं दत्त्वा प्रणमेत् । ततः कुवेरःसंपूज्यः । इति रुद्रधरः ॥
तं पाद्यादिभिःसंपूज्य, --“ओँ धनदाय नमस्तुभ्यं निधिपद्माधिपाय च ।भवन्तु त्वत्प्रसादान्मे धनधान्यादिसम्पदः ॥
”इति प्रणमेत् ॥
अत्र प्रदोषे सर्व्वेषां पूजेति रुद्रधरप्रभृतयः ॥
नच निकुम्भपर्य्यन्तानां पूर्व्वाह्ण एव पूजनं निरप-वादमिति वाच्यम् । दिवा तत्र न भोक्तव्यंइत्युपक्रम्य पूज्याश्च सफलैः पत्रैरित्यादिनाविशिष्य पूजामभिधाय भोक्तव्यमित्यभिधानात्रात्रावेव पूजाभोजने अवगम्येते । अतएवा-शक्तानामेव भोक्तव्यं पूजितैः सुरैरित्यनेनविशिष्य दिवा पूजाभोजने विहिते ॥
* ॥
योगिनीतन्त्रे ।“विरिञ्चेस्तु गृहे ढक्कां घण्टां लक्ष्मीगृहे त्यजेत् ।सर्व्ववाद्यमयीं घण्टां वाद्याभावे तु वादयेत् ॥
” * ॥
लक्ष्मीवाक्यम् ।“प्रकीर्णभाण्डामनवेक्ष्य कारिणींसदा च भत्तुंः प्रतिकूलवादिनीम् ।परस्य वेश्माभिरतामलज्जा-मेवंविधां स्त्रीं परिवर्जयामि ॥
”मार्कण्डेयः ।“शिरः सपुष्पं चरणौ सुपूजितौवराङ्गनासेवनमल्पभोजनम् ।अनग्नशायित्वमपर्व्वमैथुनंचिरप्रनष्टां श्रियमानयन्ति षट् ॥
मानुषास्थि गृहे यत्र अहोरात्रञ्च तिष्ठति ।तत्रालक्ष्मि ! तवावासस्तथान्येषाञ्च रक्षसाम् ॥
सूर्पदात्रादिकं यत्र पदाकर्षेत्तथासनम् ॥
”हरिवंशे ।“यत्र ह्रीः श्रीः स्थिता तत्र यत्र श्रीस्तत्र सम्मतिः ।सम्मतिर्ह्रीस्तथा श्रीश्च नित्यं कृष्णे महात्मनि ॥
”मत्स्यपुराणे ।“स्थिरो हि यो हि पुरुषः स्थिरश्रीरेव जायते ।रक्षितुं नैव शक्नोति चपलश्चपलां श्रियम् ॥
”तथा, --“अवश्यमुद्योगवतां श्रीरपारा भवेत् सदा ।ब्रह्मप्रोत्साहिता देवा ममन्थुः पुनरम्बुधिम् ॥
”कृत्यकौमुद्याम् ।“नारिकेलोदकं पीत्वा अक्षैर्जागरणं निशि ।तस्मै वित्तं प्रयच्छामि को जागर्त्ति महीतले ॥
”अक्षक्रीडायां व्यासयुधिष्ठिरसंवादः प्रचरति ।तत्क्रीडा चतुरङ्गशब्दे द्रष्टव्या ॥
* ॥
वैष्णवा-मृते स्कन्दपुराणम् ।“पौष्यान्तु समतीतायां यावद्भवति पूर्णिमा ।माघमासस्य देवेन्द्र ! पूजा विष्णोर्विधीयते ॥
”इति । पौर्णमास्यन्तमासमुपक्रम्य ।“पितणां देवतानाञ्च मूलकं नैव दापयेत् ।ददन्नरकमाप्नोति भुञ्जीत ब्राह्मणो यदि ॥
ब्राह्मणो मूलकं भुक्त्वा चरेच्चान्द्रायणव्रतम् ।अन्यथा नरकं याति क्षत्त्रो विट् शूद्र एव च ॥
वरं भक्ष्यमभक्ष्यञ्च पिबेद्वा गर्हितञ्च यत् ।वर्ज्जनीयं प्रयत्नेन मूलकं मदिरासमम् ॥
” * ॥
फाल्गुने दोलयात्रामाह तीर्थचिन्तामणौ ब्रह्म-पुराणम् ।“नरो दोलागतं दृष्ट्वा गोविन्दं पुरुषोत्तमम् ।फाल्गुन्यां संयतो भूत्वा गोविन्दस्य पुरं व्रजेत् ॥
”स्कन्दपुराणीयपुरुषोत्तममाहात्म्ये ऊनत्रिंशा-ध्याये ।“फाल्गुन्यां क्रीडनं कुर्य्यात् दोलायां ममभूमिप ! ॥
”इति तिथितत्त्वम् ॥
* ॥
तस्याः पर्व्वत्वं पर्व्वशब्दे द्रष्टव्यम् ॥
वाचस्पत्यम्
Sanskritपूर्णिमा स्त्री पूर्णिं पूर्त्तिं मिमीते म--क । १ पौर्णमास्यतिथौ मरीचेः कलायां पत्न्यां जाते २ कन्याभेदे “भार्य्यामरीचेस्तु कला सुषुवे कर्दमात्मजा । कश्यपं पूर्णिकाञ्चैवययोरापूरितं जगत् । पूर्णिकाऽसूत विरजं विश्वगञ्चपरन्तप! । भाग० ४ । १ । १२ तत्तिविस्वरूपं द्वैधे खण्ड-भेदस्य कर्मभेदे ग्राह्यतादिकं च कालमा० न्यरूपि यथा“तत्र शुक्लायां पञ्चदश्यां चन्द्रमण्डलं स्वकलामिः सर्वा-त्मना पूर्य्यते सेयं मण्डलपरिपूर्त्तिः पूर्णिमेत्यनेन नाम्नाज्ञायते । तदुक्तं ब्रह्माण्डमत्स्यपुराणयोः “कालक्षयेव्यतिक्रान्ते दिवापूर्णौ परस्परम् । चन्द्रादित्यौ प-राह्णे तु पूर्णत्वात् पूर्णिमा स्मृता” इति । अह्नःपरो भागः पराह्णः सूर्य्यास्तमयकाल इत्यर्थः । तत्रयथादित्यः संपूर्णमण्डलः सन्नस्तमेति तथोत्तरक्षणे चन्द्रःसम्पूर्णमण्डलः सन्नुदेतीति । दृष्टान्तदार्ष्टान्तिकभावस्यविवक्षितत्वाद् द्वयोरादित्यचन्द्रयोरुपन्यासः । यथा म-ण्डलपूर्णत्वविवक्षया पूर्णिमाशब्दः प्रयुज्यते तथा मास-पूर्णत्वविवक्षया पौर्णमासीशब्दः प्रयुज्यते । नदुर्क्तंभविष्योत्तरे “पौर्णमासी महाराज । सोमस्य दयितातिथिः । पूर्णो मासो भवेद् यस्मात् पौर्णमासी ततःस्मृता” इति । पूर्णिमामावास्ययोर्विकल्पेन मासा-न्तत्वं मासप्रस्तावे दर्शितम् । अतएव पौर्णमास्या-मत्यन्तविप्रकर्षे सत्यनभिभूतत्वाच्चन्द्रमण्डलः सम्पूर्णोदृश्यते । तावेतौ सन्निकर्षविप्रकर्षौ गोभिल आह “यःपरो विप्रकर्षः सूर्य्याचन्द्रमसीः सा पौर्णमासी । यःपरः सन्निकर्षः सामावास्येति” । तदेवं पर्वाभिधायाःपञ्चदश्याः पूर्णिमादिनामनिर्वचनेन स्वभावविशेषो ज्ञा-प्रितो भवति । ते च पूर्णमास्यामावास्ये प्रत्येकं द्विविधे ।तच्च पुराणे दर्शितम् “राका चानुमतिश्चैव पौर्णमासीद्विधा स्मृता । सिनीबाली कुहूश्चैवममावास्या द्विधैव तु”इति । एतासां चतसृणां स्वरूपं काठकशाखायां वि-स्पष्टं श्रूयते “या पूर्वा पौर्ण्णमासी सानुमतिर्योत्तरासा राका । या पूर्वाऽमावास्या सा सिनीबाली योत्तरासा कुहूः” इति । वृहद्वशिष्ठोऽपि “राका आनुमति-श्चैव पौर्णमासीद्वयं विदुः । राका संपूर्णचन्द्रा स्यात्कलोनाऽनुमतिर्मता । पौर्णमासी दिवा दृष्टे शशि-न्यनुमतिः स्मृता । रात्रिदृष्टे पुनस्तस्मिन् सैव राकेतिकीर्त्तिता” । मत्स्यब्रह्माण्डपुराणयोः “यस्मात्तामनु-मन्थन्ते पितरो दैवतैः सह । तस्मादनुमतिर्नाम पूर्णिमाप्रथमा स्मृता । अत्थर्थं राजते यस्मात् पौर्णमास्यां निशा-करः । रञ्जनाच्चैव चन्द्रस्य राकेति कवयो विदुः” इति ।“अथ पञ्चदशी निर्णीयते । सा द्विविधा पौर्णसास्य-मावास्या च । तत्र पौर्णमास्यां परस्परविरुद्धानि वा-क्यान्युपलभ्यन्ते । तत्र परविद्धाथा ग्राह्यत्वं विष्णु-धर्मोत्तरे “एकादश्यष्टमी षष्ठी पौर्णमासी चतुर्दशी ।अमावास्या तृतीया च उपोष्या स्युः परात्विताः” ।परविद्धानिषैधः पूर्बविद्धाविधिश्च ब्रह्मपुराणपद्मपुराणयोः“घष्ठ्येकादश्यमावास्या पूर्बविद्धा तथाऽष्टमी । पूर्ण्णिमापरविद्धा च नोपोष्यं तिथिपञ्चकम् । पूर्वबिद्धा तुकर्त्तव्या सप्तमी ब्रतिभिर्नरैः । पौर्णमासी, महीपाल-पराया नियमाङ्गता” इति । पूर्बबिद्धाग्राह्यत्व चयुन्मवाक्ये । “चतुर्दश्या च पूर्ण्णिमति” । एवं परस्पर-विरोधे सति या व्यवस्था सा ब्रह्मवैवर्त्ते दर्शिता“पूर्वविद्धा न कर्त्तव्या अमावास्या च पूर्णिमा । वर्ज-यित्वा मुनिश्नेष्ठ! सावित्रीव्रतमुत्तमम्” इति । सा-वित्री राजकन्या तया चीर्णं व्रतं सावित्रोव्रतम् । तच्चमविष्योत्तरपुराणे दर्शितम् “कथयामि कुलस्त्रीणांमहिम्नो वर्द्धनं परम् । यथा चीर्ण्णं व्रतं पूर्बं सा-वित्र्या राजकन्यया” इति । एतच्च पौर्ण्णमास्याममा-वास्यायां च विहितम् । तस्मिन् व्रते पूर्बविद्धा ग्राह्या ।व्रतान्तरे पूर्बबिद्धा न कर्त्तव्या किन्तु परविद्धैव कर्त्त-व्येति परस्परविरुद्धस्य शास्त्रद्वयस्य व्यवस्था । यदा तुचतुर्दश्यष्टादशनाडिका भवति तदा सावित्रीव्रतमपितत्र परित्याज्यस् । “भूतोऽष्टादशनाडोभिर्दूषयत्युत्तरांतिथिमिति” स्मृतेः । योऽयं पौर्णमासीनिर्ण्णव सएवामावास्यायासप्यवगन्तव्यः । तत्रापि सावित्रीव्रतंपूर्वदिने कर्त्तव्यं व्रतान्तराण्युत्तरदिने । अस्यांच व्यवस्थायां ब्रह्मवैवर्त्तवचनं पूर्बमुदाहृतम् । स्कन्द-पुराणेऽपि “भूतविद्धा सिनीवाली न तु तत्र व्रतं च-रेत् । वर्जयित्वा तु सावित्रीव्रतं तु शिखिनाहन!”इति । एवं च सति युग्मशास्त्रं सावित्रीव्रतव्यति-रिक्तेषु व्रतेषु द्रष्टव्यम् । प्रचेता अपि “नागबिद्धा तुया षष्ठी सप्तम्या च युताष्टमी । दशस्येकादशीविद्धात्रयोदश्या चतुर्दशी । भूतबिद्धाप्यमावास्या न ग्राह्यामुनिपुङ्गवैः । उत्तरोत्तरविद्धास्ताः कर्त्तव्याः काठकीश्रुतिः” इति । पद्मपुराणेऽपि “षष्ठ्यष्टमी तथा दर्शः कृष्ण-पक्षे त्रयोदशी । एताः परयुताः कार्य्याः पराः पूर्बेणसंयुताः” इति । यत्तु नारदीयपुराणे “दर्शं च पौर्णमासं च षितुः सांवत्सरं दिनम् । पूर्बबिद्धमकुर्वाणोनरकं प्रतिप्रद्यते” इति तत् सावित्रीव्रतविषयं श्रा-विषयं वा । अमावास्यायामिव पौर्णमास्यामपि श्राद्धविहितम् तथाच पितामहः “अमावास्याव्यतीपातपौर्ण-मास्यष्टकासु च । विद्वान् श्राद्धमकुर्वाणः प्रायश्चित्तीयते हिसः” इति । अमाबास्याश्राद्धस्य च पार्वणरूपत्वमपराह्णस्यतत्कर्मकालत्वं कुतपस्य प्रारम्भकालत्वमित्येतत्त्रितयं प्रति-पत्प्रकरणे प्रत्याव्दिकनिर्णये प्रपञ्चितम्” ।“सा चतुर्दशीयुता ग्राह्या युम्मात् । यमः “पह्मान्ते स्रो-तसि स्नायात् तेन नायाति मत्पुरम्” विष्णुः “दृश्येतेसहितौ यस्यां दिवि चन्द्रवृहस्पती । पौर्ण्णमामी तुमहती ज्ञेया संवत्सरे तु सा । तस्यां स्नानोपवासाभ्यामक्षयं परिकीर्त्तितम्” । सहितो मासमंज्ञानि-मित्तकृत्तिकादिनक्षत्रगतौ महाकार्त्तिक्यादिदर्शनात् ।नथा च राजमार्त्तण्डः “माससंज्ञे यदा ऋक्षे चन्द्रःसम्पूर्णमण्डलः । गुरुणा याति संयोगं सा तिथि-र्महती स्मृता” । स्कान्दमात्स्ययोः “पौर्ण्णमासीषु चै-ताषु मासर्क्षसहितासु च । एतासु स्नानदानाभ्यांफलं दशगुणं स्मृतम्” ति० त० स्थितम् ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
